DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

Through DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 4 Solutions – क्षमस्व महर्षे!

DAV Class 8 Sanskrit Ch 4 Solutions – क्षमस्व महर्षे!

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 1

i. किं महर्षिः दयानन्दः वेदधर्मस्य प्रचारम् अकरोत्? ____________
ii. किं महर्षेः शिष्या: अपि तेन सह अवसन्? ____________
iii. कि महर्षि: दयानन्द: क्रुध्यति स्म? ____________
iv. कि महर्षि: दयानन्दः मिष्टान्नम् प्रेषितवान्? ____________
v. किं अन्ते शिष्याः विस्मिताः अभवन्? ____________
vi. किं यात्री अन्ते लज्जित: अभवत्? ____________
उत्तराणि :
i. आम्
ii. आम्
iii. नहि
iv. नहि
v. आम्
vi. आम्

2. मज्जूषायां प्रदत्तैः अव्ययपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 2

i. महर्षि: भारते ________ अभ्रमत्।
ii. महर्षि: दयानन्द: ________ क्षमाशील आसीत्।
iii. ________ स: काशीनगरे गड्रायाः तटे अतिष्ठित्।
iv. तत्र समीपम् ________ एक: यात्री अपि अतिष्ठत्।
v. एकदा एकः जनः प्रचुराणि फलानि ________ आनयत्।
उत्तराणि :
i. सर्वत्र
ii. अतीव
iii. एकदा
iv. एव
v. तत्र

3. मज्नूषाया: उचितं विपरीतपदं चितवा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 3

i. सत्यम् ________
ii. सहिष्णु: ________
iii. समीपम् ________
iv. कटुवचनानि ________
v. गत्वा ________
उत्तराणि :
i. असत्यम्
ii. असहिष्णुः
iii. दूरम्
iv. मृदुवचनानि
v. आगत्य

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 4

i. महर्षिः दयानन्दः कस्याः तटे अतिष्ठत्? ____________
ii. अन्यस्मिन् कुटीरे कः वसति स्म? ____________
iii. अपराधी क: आसीत्? ____________
iv. फलानि कीदृशानि आसन्? ____________
v. दयानन्द: फलानि कस्मिन् बध्नाति? ____________
vi. “शिष्यः तत्र गत्वा अकथयत्” अत्र अव्ययपदं किम्? ____________
उत्तराणि :
i. गङ्गाया:
ii. यात्री
iii. यात्री
iv. मधुराणि
v. वस्त्रे
vi. तत्र

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
महर्षिदयानन्दस्य काले का: कुरीतयः व्याप्ता: आसन्?
उत्तरम् :
महर्षि-दयानन्दस्य काले अन्धविश्वास:, स्त्री-अशिक्षा, बालविवाहः, जातिप्रथा इत्यादयः कुरीतयः व्याप्ता: आसन्।

प्रश्न ii.
महर्षि: दयानन्द: किमर्थं भारते सर्वत्र अभ्रमत्?
उत्तरम् :
महर्षिः दयानन्दः सर्वाः कुरीतयः निवारयन् वेद् धर्म च प्रचारयन् भारते सर्वत्र अभ्रमत्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iii.
महर्षि: शिष्येभ्य: सदैव किं वदति स्म?
उत्तरम् :
महर्षिः शिष्येभ्यः सदैव ‘चिन्तां मा कुरुत, तूष्णीं भवत’ इति वदति स्म।

प्रश्न iv.
जितेन्द्रिय: महर्षि: किं करोति स्म?
उत्तरम् :
जितेन्द्रिय: महर्षि: सर्व श्रुत्वा शान्तचित्तेन एव तिष्ठति स्म।

प्रश्न v.
लज्जित: यात्री किम् अकथयत्?
उत्तरम् :
लज्जितः यात्री अकथयत्- “क्षमस्व महर्ष! क्षमस्व। अहम् अपराधी अस्मि। भवान् देवः। क्षमस्व! क्षमस्व।”

प्रश्न vi.
“शिष्या: क्रुद्धा: अभवन्” अत्र ‘अभवन्’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् :
“शिष्याः क्रुद्धाः अभवन्” अत्र “अभवन्”, इति क्रियापदस्य कर्तृपद “शिष्याः” सन्ति।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
महर्षिः दयानन्द: काशीनगरे अतिष्ठत्।
उत्तरम् :
महर्षि: दयानन्द: कुत्र अतिष्ठत्?

प्रश्न ii.
यात्री महर्षेः कुटीरस्य समीपम् आगच्छत्।
उत्तरम् :
यात्री कस्य कुटीरस्य समीपम् आगच्छत्?

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iii.
दुर्वचनानि श्रुत्वा अपि महर्षि: तूष्णीम् अतिष्ठत्।
उत्तरम् :
कानि श्रुत्वा अपि महर्षि: तूष्णीम् अतिष्ठत्?

प्रश्न iv.
महर्षिदयानन्दः प्रचुरफलानि अयच्छत्।
उत्तरम् :
क: प्रचुरफलानि अयच्छत्?

प्रश्न v.
महर्षि: भारते अभ्रमत्।
उत्तरम् :
महर्षि: कुत्र अश्रमत्?

प्रश्न vi.
शिष्याः विस्मिता: अभवन्।
उत्तरम् :
के विस्मिता: अभवन्?

7. अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-

प्रश्न i.
तत्र समीपम् एव एक: यात्री अपि अतिष्ठत्, स: महर्षिम् दुर्वचनानि वदति स्म।
उत्तरम् :
महर्षि दयानन्दः वेदधर्म प्रचारयन् भारते सर्वत्र अभ्रमत्।

प्रश्न ii.
अन्ते यात्री लज्जितः भूत्वा महर्षिम् क्षमाम् अयाचत।
उत्तरम् :
एकदा स: गड्गायाः तटे स्वशिष्यै: सह अतिष्ठत्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iii.
एकदा स: गङ्गायाः तटे स्वशिष्यैः सह अतिष्ठत्।
उत्तरम् :
तत्र समीपम् एव एक: यात्री अपि अतिष्ठत्, स: महर्षिम् दुर्वचनानि वदति स्म।

प्रश्न iv.
महर्षिः दयानन्दः तस्मै यात्रिणे फलानि प्रेषितवान्।
उत्तरम् :
महर्षिः दयानन्दः तस्मै यात्रिणे फलानि प्रेषितवान्।

प्रश्न v.
महर्षि: दयानन्द: वेदधर्म प्रचारयन् भारते सर्वत्र अभ्रमत्।
उत्तरम् :
अन्ते यात्री लज्जितः भूत्वा महर्षिम् क्षमाम् अयाचत।

मूल्यात्मक: प्रश्न:

प्रश्न 1.
एकदा स्वामिविवेकानन्दमहोदयः अमेरिकादेशस्य शिकागोनगरे जनान् सम्बोधयति स्म। तत्र जनाः तस्य उपहासम् अकुर्वन् तं कटुवचनानि च अवदन्। किन्तु तदापि स: स्वभाषणं पूर्णम् अकरोत्। अन्ते सर्वे तस्य भाषण श्रुत्वा प्रभाविता: अभवन्। एषः तु सरलतायाः एव प्रभाव: आसीत्।
उत्तरम् :
जीवने सरलता अवश्यमेव भवेत्, क्रोधः जीवनं विनाशयति।

प्रश्न 2.
भवान्/भवती एतां कथां पठित्वा किम् अवागच्छत्? द्वे वाक्ये वदतु।
उत्तरम् :
मातृभूमिं, मातृभाषां मातृसंस्कृतिज्च प्रति सदैव आदर धारणीयम्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

गतिविधि:

महर्षेः दयानन्दस्य विषये अन्यां सूचनाम् अन्विष्य कक्षायां चर्चां कुर्वन्तु।
उत्तरम् :
ऋषिः दयानन्दः अतीव क्षमाशीलः आसीत्। सः स्वविषदात्रे डवि जीवनदानं दत्त्वा तं रक्षितवान्। सः स्वहन्त्रे पाचकाय जगन्नाथाय पज्वशतं रूप्यकाणि दत्त्वा नेपालदेशं प्रेषितवान् तस्य जीवनज्च रक्षितवान्। धन्यः आसीत् अतीत क्षमाशील: ऋषिवर: दयानन्दः।

व्याकरणम् :

‘शतृ’ प्रत्यय:

अभ्यास:

1. अधोलिखितेषु वाक्येघु स्थूलपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा लिखत-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 5

i. विद्यालयं गच्छन् बालक: मातर नमति। ____ गम् + शतृ ____
ii. कक्षायां पठन्तः छात्रा: कोलाहलं न कुर्युः। __________________
iii. पुत्र स्मृ + शतृ माता पत्र लिखति। _________________
iv. उद्याने क्रीडन्त्यः कन्याः प्रसन्नाः भवन्ति। ______________
v. नृत्यं दृश् + शतृ जना: करतलध्वनिं कुर्वन्ति। _______________
vi. मार्गे चल् + शतृ बालक: इतस्तत: न पश्यति। ______________
vii. परिश्रमं कुर्वन्ती छात्रा सफलतां लभते। ________________
viii. गृहम् आ + गम् + शतृ कन्याः बसयानम् आरोहन्ति। _____________
ix. सुन्दरं चित्रं पश्यन्तौ बालौ प्रसन्नौ भवतः। ____________
ix. बालिका नृत् + शतृ गीतं गायति। _____________
उत्तराणि :
ii. पठ् + शतृ
vi. चलन्
ix. नृत्यन्ती
iii. स्मरन्ती
vii. कृ + शतृ
iv. क्रीड् + शतृ
viii. आगच्छन्त्य:
v. पश्यन्त:
ix. दृश् + शत्

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

धातुरूपाणां प्रयोग:

अभ्यास:

1. अधोलिखित-वाक्यानि उचित धातुरूपै: पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे! 6

i. शिष्य: गुरुं __________ (सेवते/सेवेते / सेवन्ते)
ii. त्वं पुनः पुनः पाठं __________ (पठे:/ पठेतम् / पठेत)
iii. वयम् अत्र एवं __________ (स्थास्यामि/स्थास्याव:/स्थास्यामः)
iv. जनाः परिश्रमेण सफलतां __________ (लभते/लभेते / लभन्ते)
v. एतानि फलानि बालेभ्य: __________ (रोचिष्यते/ रोचिष्येते/ रोचिष्यन्ते)
vi. छात्रा: पाठं __________ (स्मरतु/स्मरताम्/स्मरन्तु)
vii. आवां प्रातः उत्थाय उद्यानम् __________ (अगच्छम्/अगच्छाव/अगच्छाम)
viii. रामस्य द्वौ पुत्रौ __________ (आसीत्/आस्ताम्/आसन)
ix. भवने एका वाटिका __________ (शोभते / शोभेते / शोभन्ते)
ix. श्रृगालः मूषकान् __________ (अपश्यत्/अपश्यताम्/अपश्यन)
उत्तराणि :
i. सेवते
ii. पठे:
iii. स्थास्याम:
iv. लभन्ते
v. रोचिष्यन्ते
vi. स्मरन्तु
vii. अगच्छव
viii. आस्ताम्
ix. शोभते
ix. अपश्यत्

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

1. भारते अनेके महापुरुषाः अभवन् महर्षिः दयानन्दः तेषु प्रमुखः अस्ति। तस्मिन् काले समाजे अनेका: कुरीतयः प्रचलिताः आसन् यथाः-अन्धविश्वास:, स्त्री-अशिक्षा, बालविवाहः , जाति-प्रथा इत्यादयः। एताः सर्वाः निवारयन् वेदधर्म च प्रचारयन् महर्षि: भारते सर्वत्र अभ्रमत्। सत्यासत्यस्य ज्ञानार्थं स: एकं प्रसिद्धं ग्रन्थं ‘सत्यार्थप्रकाशम्’ अपि रचितवान्। महर्षिः दयानन्दः अतीव क्षमाशीलः अपि आसीत्। एकदा स: काशीनगरे गङुाया तटे एकस्मिन् कुटीरे शिष्यैः सह अतिष्ठत्। तत्र समीपम् एव एक: यात्री अपि अतिष्ठत् ईष्ष्यया स: यात्री महर्षे: कुटीरम् आगत्य अकारणम् एवं महर्षिं दुर्वचनानि वदति स्म।

हिन्दी अनुवाद – भारत (देश) में अनेक महापुरुष हुए हैं। उनमें महर्षि दयानन्द प्रमुख हैं। उस समय समाज में अनेक कुरीतियाँ प्रचलित थीं; जैसे-अन्धविश्वास, स्त्री-अशिक्षा, बाल-विवाह, जातिप्रथा इत्यादि। इन सबको हटाते हुए और वेद धर्म का प्रचार करते हुए महर्षि भारत में सब जगह घूमे। सत्य और असत्य के ज्ञान के लिए उन्होंने एक प्रसिद्ध ग्रन्थ ‘सत्यार्थ प्रकाश’ भी रचा। महर्षि दयानन्द बहुत क्षमाशील भी थे। एक बार वे काशीनगर में गंगा के तट पर एक कुटिया में शिष्यों के साथ ठहरे थे। वहाँ पास में ही एक यात्री ठहरा था। ईष्ष्या से वह यात्री महर्षि की कुटिया में आकर अकारण ही महर्षि को बुरे वचन बोलता था।

शब्दार्था: – प्रमुखा:-मुख्य। प्रचलिता:-चल रहीं (थी)। निवारयन्-हटाते हुए। प्रचारयन्-प्रचार करते हुए। ज्ञानार्थम्- ज्ञान के लिए। रचितवान्-रचा (रचना की)। अकारणम्- बिना वजह (कारण)।

2. जितेन्द्रियः महर्षिः सर्व श्रुत्वा शान्तचित्तेन एव तिष्ठति स्म। सः कदापि न प्रत्युदतरत्। शिष्याः कुद्धाः अभवन्। महर्षिः तान् ‘चिन्तां मा कुरुत, तूष्णीम् भवत’ इति अकथयत्। महर्षिः कथयति स्म यत् स: स्वयम् एव एकस्मिन् दिने सरलः भविष्यति। एकदा एकः जनः प्रचुराणि फलानि तत्र आनयत्। महर्षिः दयानन्दः कानिचित् मधुराणि रसयुक्तानि फलानि वस्त्रे बद्ध्वा तस्मै यात्रिणे दातुं स्वशिष्यम् प्रेषितवान्।

हिन्दी अनुवाद – जितेन्द्रिय महर्षि (दयानन्द) सब कुछ सुनकर शान्त मन से रहते थे। वह कभी भी उत्तर नहीं देते थे। शिष्य क्रोधित हुए। महर्षि ने उनको ‘चिन्ता मत करो, चुप रहो’ ऐसा कहा। महर्षि कहते थे कि वह अपने-आप ही एक दिन सीधा हो जाएगा। एक दिन एक व्यक्ति काफी फल वहाँ लाया। महर्षि दयानन्द ने कुछ मीठे रसीले फलों को कपड़े में बाँधकर उस यात्री को देने के लिए अपने शिष्य को भेजा।

शब्दार्था: – जितेन्द्रियः-इन्द्रियों को जीतने वाले। प्रत्युदतरत्-उत्तर दिया (उत्तर देते थे)। तूष्णीम्-चुप। सरल:-सीधा। प्रचुराणि-काफी (ढेर सारे)। दातुम्-देने के लिए। भवत्-हो जाओ।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

3. स: शिष्यः अचिन्तयत्- “स: यात्री तु प्रतिदिनम् अत्र आगत्य अकारणम् एव कटुवचनानि कथयति। किमर्थं तदा तस्मै एतानि फलानि।”
शिष्यस्य भावम् अवगत्य महर्षिः अकथयत् – चिन्तां मा कुरु। तस्मै यात्रिणे फलानि दत्वा आगच्छ।” गुरो: आज्ञया शिष्यः यात्रिणः समीपं गत्वा अवदत्- “अस्माक स्वामिना भवतः कृते एतानि फलानि प्रेषितानि।” कृपया स्वीकरोतु।

हिन्दी अनुवाद – उस शिष्य ने सोचा-‘वह यात्री तो प्रतिदिन यहाँ आकर बिना किसी कारण के ही (बेवजह) कड़वे (कठोर) वचन बोलता है। तब उसे ये फल किसलिए।
शिष्य के भाव (विचार) को जानकर महर्षि ने कहा-“चिन्ता मत करो। उस यात्री को फल देकर आओ।” गुरु की आज्ञा से शिष्य यात्री के पास जाकर बोला-“हमारे स्वामी जी ने आपके लिए ये फल भेजे हैं। कृपया लीजिए।”

शब्दार्था: – प्रतिदिनम्-हर रोज। अकारणम्- बेवजह (अकारण)। तस्मै-उसे। भावम्-विचार को। आज्या-आज्ञा से। स्वामिना-स्वामी जी के द्वारा। भवतः कृते-आपके लिए। प्रेषितानि-भेजे गए हैं।

4. स: असहिष्णुः यात्री पुन: दुर्वचनानि अकथयत् शिष्यः महर्षिम् उपगत्य सर्व वर्णितवान्। महर्षिः एकं सन्देशं दत्वा पुनः शिष्यं तत्र प्रेषितवान्। शिष्यः तत्र गत्वा अकथयत्- “अस्माकं स्वामी कथयति यत् अमृतवर्षया भवतः बहुशक्ति: नष्टा। पुनः अमृतवर्षायै शक्ति प्राप्तुम् एतानि मधुराणि रसयुक्तानि फलानि स्वीकरोतु।” एतत् श्रुत्वा सः यात्री लत्जितः भूत्वा धावित्वा च महर्षेः समीपम् आगत्य पादयोः पतित्वा अकथयत्- “क्षमस्व महर्षे! क्षमस्व। अहम् अपराधी अस्मि। भवान् देवः। क्षमस्व। क्षमस्व।” इदं सर्व दृष्ट्वा शिष्याः चकिताः आसन्।

हिन्दी अनुवाद – वह असहनशील यात्री फिर से बुरे वचन कहने लगा। शिष्य ने महर्षि के पास आकर सब कुछ वर्णन कर दिया। महर्षि ने एक संदेश देकर फिर से शिष्य को वहाँ भेजा। शिष्य ने वहाँ जाकर कहा-“ हमारे स्वामी कहते हैं कि अमृत की वर्षा (बारिश करने) से आपकी बहुत शक्ति नष्ट हो गई है। फिर से अमृत वर्षा के लिए शक्ति प्राप्ति के लिए इन मीठे रसयुक्त फलों को स्वीकार कीजिए।” यह सुनकर यात्री शर्मिदा हुआ और दौड़ते हुए आकर महर्षि के पैरों पर गिरकर कहने लगा- ” क्षमा कीजिए महर्षि! क्षमा कीजिए। मैं अपराधी हूँ। आप देवता हैं। क्षमा कीजिए। क्षमा कीजिए।” ये सब देखकर शिष्य हैरान थे।

शब्दार्था: – प्रेषितवान्-भेजा। अमृतवर्षायाम्-अमृत की वर्षा करने में। नष्टा-नष्ट हो गई है। रसयुक्तानि-रसीले। लज्जित:-शर्मिदा। चकिता:- हैरान।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 4 क्षमस्व महर्षे!

1. निम्नलिखितान् गद्यांशान् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-

(क) भारते अनेके महापुरुषाः अभवन् महर्षिः दयानन्दः तेषु प्रमुखः अस्ति। तस्मिन् काले समाजे अनेका: कुरीतयः प्रचलिताः आसन् यथा-अन्धविश्वासः स्त्री-अशिक्षा, बालविवाहः, जाति-प्रथा इत्यादयः। एताः सर्वा: निवारयन् वेदधर्म च प्रचारयन् महर्षि: भारते सर्वत्र अभ्रमत्। सत्यासत्यस्य ज्ञानार्थ स: एकं प्रसिद्ध ग्रन्थं ‘सत्यार्थप्रकाशम्’ अपि रचितवान्। महर्षिः दयानन्दः अतीव क्षमाशीलः अपि आसीत्। एकदा स: काशीनगरे गड्गायाः तटे एकस्मिन् कुटीरे शिष्यैः सह अतिष्ठत्। तत्र समीपम् एव एक: यात्री अपि अतिष्ठत्। ईर्ष्यया स: यात्री महर्षेः कुटीरम् आगत्य अकारणम् एव महर्षि दुर्वचनानि वदति स्म।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
महर्षि-दयानन्दस्य काले समाजे का: प्रचलिताः आसन्?
(क) रीतिया:
(ख) रीतय:
(ग) कुरीतयः
(घ) सुरीतय:
उत्तरम् :
(ग) कुरीतय:

प्रश्न ii.
सत्यासत्यस्य ज्ञानाय ऋषिः दयानन्दः के ग्रन्थं रचितवान्?
(क) सत्यार्थप्रकाशम्
(ख) सत्यार्थप्रकाश:
(ग) सत्यार्थप्रकाशस्य
(घ) सत्यार्थप्रकाशे
उत्तरम् :
(क) सत्यार्थप्रकाशम्

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

II. पूर्णवाक्येन उत्तरत-

i. ईर्ष्यया स: यात्री महर्षि किं वदति स्म?
ii. महर्षि: दयानन्द: अतीव कीदृशः अपि आसीत्?
उत्तरम् :
i. ईष्ष्यया स: यात्री महर्षि दुर्वचनानि वदति स्म।
ii. महर्षि: दयानन्द: अतीव क्षमाशीलः अपि आसीत्।

III. भाषिक कार्यम्-

प्रश्न i.
‘समाजे अनेका: कुरीतयः प्रचलिता: आसन्’। अत्र क्रियापदं किम्?
(क) आसन्
(ख) समाजे
(ग) प्रचलिता:
(घ) कुरीतय:
उत्तरम् :
(क) आसन्

प्रश्न ii.
‘स: एकं प्रसिद्ध ग्रन्थं।’ अत्र ‘स:’ पदं कस्मै आगतम्?
(घ) कुरीतय:
(क) जनाय
(ख) शिष्याय
(ग) पण्डिताय
(घ) महर्षि-दयानन्दाय
उत्तरम् :
(घ) महर्षि दयानन्दाय

प्रश्न iii.
‘अनेके महापुरुषाः’ अनयो: पदयो: विशेषण किम्?
(क) अनेके
(ख) अनेक:
(ग) महापुरुष:
(घ) महापुरुषा:
उत्तरम् :
(क) अनेके

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iv.
अनुच्छेदे ‘निकटम्’ इत्यस्य पदस्य क: पर्यायः आगतः?
(घ) महापुरुषा:
(क) दूरम्
(ख) निकषा
(ग) समीपम्
(घ) पाश्व्वं
उत्तरम् :
(ग) समीपम्

(ख) जितेन्द्रिय: महर्षिः सर्व श्रुत्वा शान्तचित्तेन एव तिष्ठति स्म। स: कदापि न प्रत्युदतरत्। शिष्याः क्रुद्धा: अभवन्। महर्षिः तान् ‘चिन्तां मा कुरुत, तूष्णीम् भवत’ इति अकथयत्। महर्षिः कथयति स्म यत् सः स्वयम् एव एकस्मिन् दिने सरलः भविष्यति एकदा एक: जन: प्रचुराणि फलानि तत्र आनयत्। महर्षिः दयानन्दः कानिचित् मधुराणि रसयुक्तानि फलानि वस्त्रे बद्ध्वा तस्मै यात्रिणे दातुं स्वशिष्यम् प्रेषितवान्।

प्रश्नाः

I. एकपदेन उत्तरत-

प्रश्न i.
कीदृशः महर्षिः शान्तचित्तेन एव अतिष्ठत्?
(क) साधुः
(ख) जितेन्द्रिय:
(ग) सज्जन:
(घ) श्रेष्ठ:
उत्तरम् :
(ख) जितेन्द्रिय:

प्रश्न ii.
एक: जन: कति फलानि तत्र आनयत्?
(क) अल्पानि
(ख) पूर्णानि
(ग) अधिकानि
(घ) प्रचुराणि
उत्तरम् :
(घ) प्रचुराणि

II. पूर्णवाक्येन उत्तरत-

i. महर्षि: किं कथयति स्म?
ii. महर्षिः दयानन्दः स्वशिष्यं कथं प्रेषितवान्?
उत्तरम् :
i. महर्षिः कथयति स्म यत् स: स्वयम् एव एकस्मिन् दिने सरल: भविष्यति।
ii. महर्षिः दयानन्दः कानिचित् मधुराणि रसयुक्तानि फलानि वस्त्रे बद्ध्वा तस्मै यात्रिणे दातुं स्वशिष्यं प्रेषितवान्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

III. भाषिक कार्यम्-

प्रश्न i.
‘कानिचित् मधुराणि रसयुक्तानि फलानि’ अत्र विशेष्यपद किम्?
(क) मधुराणि
(ख) कानिचित्
(ग) फलानि
(घ) रसयुक्तानि
उत्तरम् :
(ग) फलानि

प्रश्न ii.
‘शिष्या: क्रुद्धाः अभवन्।’ अत्र कर्तृपदं किम् अस्ति?
(क) शिष्या:
(ख) शिष्य:
(ग) अभवन्
(घ) क्रुद्धा:
उत्तरम् :
(क) शिष्या:

प्रश्न iii.
‘स: कदापि न प्रत्युदतरत्।’ अत्र ‘स:’ पद् कस्मै प्रयुक्तम्?
(क) शिष्याय
(ख) साधवे
(ग) महर्षि दयानन्दाय
(घ) यात्रिणे
उत्तरम् :
(ग) महर्षि दयानन्दाय

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iv.
अनुच्छेदे ‘शान्ता:’ इति पदस्य क: विपर्ययः आगतः?
(क) क्रुद्धा:
(ख) सरला :
(ग) अशान्ता:
(घ) निर्भया:
उत्तरम् :
(क) क्रुद्धाः

(ग) स: शिष्य: अचिन्तयत्- “स: यात्री तु प्रतिदिनम् अत्र आगत्य अकारणम् एव कटुवचनानि कथयति। किमर्थं तदा तस्मै एतानि फलानि।”
शिष्यस्य भावम् अवगत्य महर्षिः अकथयत् “चिन्ता मा कुरु। तस्मै यात्रिणे फलानि दत्वा आगच्छ।” गुरोः आज्ञया शिष्यः यात्रिणः समीपं गत्वा अवदत्-“अस्माक स्वामिना भवतः कृते एतानि फलानि प्रेषितानि।” कृपया स्वीकरोतु।

प्रश्ना:

I. एकपवेन उत्तरत-

प्रश्न i.
कः तत्र आगत्य अकारणम् एव कटुवचनानि कथयति स्म?
(क) यात्री
(ख) शिष्य:
(ग) दयानन्द:
(घ) जन:
उत्तरम् :
(क) यात्री

प्रश्न ii.
स्वामि-दयानन्देन तस्मै यात्रिणे कानि प्रेषितानि?
(क) अन्यानि
(ख) मिष्टान्नानि
(ग) फलानि
(घ) वस्त्राणि
उत्तरम् :
(ग) फलानि

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

II. पूर्णवाक्येन उत्तरत-

i. शिष्य: यात्रिणः समीपं गत्वा किम् अवदत्?
ii. शिष्यस्य भावं ज्ञात्वा महर्षिः किम् अकथयत्?
उत्तरम् :
i. शिष्य: यात्रिणः समीपं गत्वा अवदत्-” अस्माकं स्वामिना भवतः कृते एतानि फलानि प्रेषितानि। कृपया स्वीकरोतु।”
ii. शिष्यस्य भावं ज्ञात्वा महर्षिः अकथयत्-“चिन्तां मा कुरु। तस्मै यात्रिणे फलानि दत्वा आगच्छ।”

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘ज्ञात्वा’ पदस्य कः पर्यायः प्रयुक्तः?
(क) आगत्य
(ख) अवगत्य
(ग) आगम्य
(घ) अवगम्य
उत्तरम् :
(ख) अवगत्य

प्रश्न ii.
“तस्मै यात्रिणे फलानि दत्त्वा आगच्छ।” अत्र ‘तस्मै’ पदे का विभक्तिः अस्ति?
(क) प्रथमा
(ख) तृतीया
(ग) द्वितीया
(घ) चतुर्थी
उत्तरम् :
(घ) चतुर्थी

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iii.
अनुच्छेदे ‘दूरम्’ पदस्य कः विपर्यय: लिखित:?
(क) समीपं
(ख) समीपे
(ग) निकषा
(घ) निकटम्
उत्तरम् :
(क) समीपं

प्रश्न iv.
अत्र अनुच्छेदे ‘प्रेषितानि’ इत्यस्य क्रियापदस्य कर्तृपदं किम्?
(क) फलानि
(ख) भवतः कृते
(ग) स्वामिना
(घ) अस्माकम्
उत्तरम् :
(ग) स्वामिना

(घ) स: असहिष्णुः यात्री पुनः दुर्वचनानि अकथयत्। शिष्यः महर्षिम् उपगत्य सर्व वर्णितवान्। महर्षिः एक सन्देशं दत्वा पुनः शिष्यं तत्र प्रेषितवान्। शिष्यः तत्र गत्वा अकथयत् “अस्माक स्वामी कथयति यत् अमृतवर्षया भवतः बहुशक्तिः नष्टा। पुनः अमृतवर्षायै शक्तिं प्राप्तुम् एतानि मधुराणि रसयुक्तानि फलानि स्वीकरोतु।” एतत् श्रुत्वा स: यात्री लज्जितः भूत्वा धावित्वा च महर्षे: समीपम् आगत्य पादयो: पतित्वा अकथयत्- “क्षमस्व महर्षे! क्षमस्व। अहम् अपराधी अस्मि। भवान् देवः। क्षमस्व। क्षमस्व।” इदं सर्व दृष्ट्वा शिष्या: चकिता: आसन्।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
यात्री कीदृशः आसीत्?
(क) प्रेमी
(ख) सहिष्णु:
(ग) असहिष्णु:
(घ) ईर्य्यालु:
उत्तरम् :
(ग) असहिष्णु:

प्रश्न ii.
क: महर्षः समीपम् आगत्य पादयो: पतित्वा क्षमाम् अयाचत्?
(क) यात्री
(ख) स:
(ग) लज्जित:
(घ) ईर्ष्यालु
उत्तरम् :
(क) यात्री

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

II. पूर्णवाक्येन उत्तरत-

i. क: सर्व वर्णितवान् ?
ii. लज्जितः यात्री महर्ष: पादयोः पतित्वा किम् अकथयत्?
उत्तरम् :
i. शिष्य: सर्वं वर्णितवान्।
ii. लज्जित: यात्री महर्षः पादयो: पतित्वा अकथयत्-” क्षमस्व महर्षे! क्षमस्व। अहम् अपराधी अस्मि। भवान् देवः। क्षमस्व! क्षमस्व।”

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘वर्णितवान्’ इत्यस्याः क्रियाया: कर्तृपदं किम्?
(क) सर्वम्
(ख) महर्षिम्
(ग) शिष्य:
(घ) शिष्या:
उत्तरम् :
(ग) शिष्य:

प्रश्न ii.
‘यात्री लज्जितः’ अनयो: पद्यो: विशेषणं पदं किम्?
(क) यात्री
(ख) लज्जिता:
(ग) यात्रिण:
(घ) लज्जित:
उत्तरम् :
(घ) लज्जित:

प्रश्न iii.
‘भवतः बहुशक्ति: नष्टा’ अत्र ‘भवतः’ पदं कस्मै आगतम्?
(क) यात्रिणे
(ख) महर्षये
(ग) दयानन्दाय
(घ) शिष्याय
उत्तरम् :
(क) यात्रिणे

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iv.
‘शिष्यः तत्र गत्वा अकथयत्’। अत्र कर्तृपदं किम्?
(क) तत्र
(ख) शिष्य:
(ग) अकथयत्
(घ) गत्वा
उत्तरम् :
(ख) शिष्य:

2. रेखाड्कित पदानां स्थाने प्रश्नवाचकं पदं विकल्पेभ्य: चित्वा लिखत-

प्रश्न i.
महर्षि: दयानन्द: तेषु प्रमुख: अस्ति।
(क) क:
(ख) कथम्
(ग) कीदृश :
(घ) कति
उत्तरम् :
(ग) कीदृश:

प्रश्न ii.
महर्षि दयानन्दस्य काले अनेका: कुरीतयः प्रचलिताः आसन्।
(क) के
(ख) का:
(ग) कीदृश:
(घ) कति
उत्तरम् :
(घ) कति

प्रश्न iii.
महर्षिः भारते सर्वत्र अभ्रमत्।
(क) के
(ख) कुत्र
(ग) कदा
(घ) कति
उत्तरम् :
(ख) कुत्र

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न iv.
स: ऋषिः सत्यार्थ प्रकाशम् रचितवान्।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कदा
उत्तरम् :
(क) कम्

प्रश्न v.
महर्षिः दयानन्दः अतीव क्षमाशीलः आसीत्।
(क) का
(ख) क:
(ग) किम्
(घ) का:
उत्तरम् :
(ख) क:

प्रश्न vi.
जितेन्द्रियः महर्षिः शान्तचित्तेन एव तिष्ठति स्म
(क) कथम्
(ख) केन
(ग) कीदृशेण
(घ) कदा
उत्तरम् :
(क) कथम्

प्रश्न vii.
महर्षि: मधुराणि फलानि यात्रिणे दातुं स्वशिष्यम् प्रेषितवान्।
(क) के
(ख) कस्यै
(ग) कस्मै
(घ) कै:
उत्तरम् :
(ग) कस्मै

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न viii.
शिष्यस्य भावम् अवगत्य महर्षिः अकथयत्।
(क) कीदृशस्य
(ख) कस्य
(ग) केषाम्
(घ) किम्
उत्तरम् :
(ख) कस्य

प्रश्न ix.
गुरो: आज्ञया शिष्यः यात्रिणः समीपं गत्वा अवदत्।
(क) कस्य
(ख) कयो:
(ग) कस्मात्
(घ) कति
उत्तरम् :
(क) कस्य

प्रश्न ix.
स: यात्री पुनः दुर्वचनानि अकथयत्।
(क) कानि
(ख) के
(ग) का:
(घ) का
उत्तरम् :
(क) कानि

प्रश्न xi.
अहम् अपराधी अस्मि।
(क) का
(ख) क:
(ग) कीदृश:
(घ) कथम्
उत्तरम् :
(ख) क:

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

प्रश्न xii.
अमृतवर्षया भवतः बहुशक्तिः नष्टा अभवत्।
(क) क:
(ख) केन
(ग) कस्य
(घ) का
उत्तरम् :
(ग) कस्य।

3. निम्नलिखित पड्क्तीः घटनानुसारेण क्रमानुसरेण संयोजयत-

(क) i. एकदा महर्षि: दयानन्द्: काशी नगरे गंगायाः तटे अतिष्ठत्।
ii. स: यात्री क्षमां याचन् तस्य चरणयो: अपतत्।
iii. एक: भक्तः महर्षये मधुराणि फलानि आनयत्।
iv. महर्षिः तस्मै क्षमादानम् अयच्छत्।
v. एक: यात्री तं कटुवचनानि नित्यम् अवदत्।
vi. ऋषि: द्यानन्द: वंदधर्मस्य प्रचारं कुर्वन् सर्वत्र अभ्रमत्।
vii. महर्षि: मधुराणि पक्वानि च कानिचिद् फलानि दत्त्वा शिष्यं यात्रिणं प्रति अप्रेषयत्।
viii. शिष्या: एतत् श्रुत्वा क्रोधिता: अभवन्।
उत्तराणि :
i. ऋषिः दयानन्द्: वेदधर्मस्य प्रचारं कुर्वन् सर्वत्र अभ्रमत्।
ii. एकदा महर्षिः दयानन्दः काशी नगरे गंगायाः तटे अतिष्ठत्।
iii. एक: यात्री तं कटुवचनानि नित्यम् अवदत्।
iv. शिष्याः एतत् श्रुत्वा क्रोधिता: अभवन्।
v. एक: भक्तः महर्षये मधुराणि फलानि आनयत
vi. महर्षि: मधुराणि पक्वानि च कानिचिद् फलानि दत्त्वा शिष्यं यात्रिणं प्रति अप्रेषयत्।!
vii. स: यात्री क्षमां याचन् तस्य चरणयो: अपतत्|
viii. महर्षि: तस्मै क्षमादानम् अयच्छत्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

(ख) i. शिष्यः अचिन्तयत्-कटुवचनवक्त्रे यात्रिणे किमर्थ मधुराणि फलानि देयानि?
ii. ऋषिः दयानन्द्: कटुवचनानि श्रुत्वा अपि शान्तः एव अतिष्ठत्।
iii. लज्जितः भूत्वा स: महर्ष: चरणयो: अपतत्।
iv. तस्य महर्ष: समीपे एक: असहिष्यु: यात्री अवसत्।
v. अस्माकं स्वामी भवतः कृते एतानि फलानि प्रेषितानि कृपया स्वीकुरु।
vi. स: प्रतिदिनम् अकारणमेव महर्षि दुर्बचनानि वदति स्म।
vii. चरणयो: पतित्वा सः क्षमां अयाचत्-क्षमस्व महर्ष! क्षमस्व।
viii. महर्षि: वेदधर्म प्रचारयन् भारते सर्वत्र अभ्रमत्।
उत्तराणि :
i. महर्षिः वेदधर्म प्रचारयन् भारते सर्वत्र अभ्रमत्।
ii. तरा महर्षः समीपे एक: असहिष्णु: यात्री अवसत्।
iii. स: प्रतिदिनम् अकारणमेव महर्षि दुर्वचनानि वद्ति स्म।
iv. ऋषिः दयानन्दः कटुवचनानि श्रुत्वा अपि शान्तः एव अतिष्ठत्।
v. शिष्य: अचिन्तयत्-कटुवचनवक्त्रे यात्रिणे किमर्थ मधुराणि फलानि देयानि?
vi. अस्मांक स्वामी भवतः कृते एतानि फलानि प्रेषितानि कृपया स्वीकुरु।
vii. लज्जित: भूत्वा स: महर्षः चरणयोः अपतत्।
viii. चरणयो: पतित्वा स: क्षमां अयाचत्-क्षमस्व महर्षे! क्षमस्व।

(ग) i. स: ईष्ष्यया महर्षि कटुवचनानि वदति स्म।
ii. स: ऋषिः उत्तमानि मधुराणि फलानि तस्मै यात्रिणे अप्रेषयत्।
iii. एकदा महर्षि: काशीनगरे गंगायाः तटे एकस्मिन् कुटीरे शिष्यै: सह अतिष्ठत्।
iv. स: प्रभावितः भूत्वा महर्षे चरणयोः पतित्वा तं क्षमायाचनाम् अकरोत्।
v. भारतस्य अनेकेषु महापुरुषेषु महर्षि: दयानन्दः प्रमुख: आसीत्।
vi. शिष्या: तस्य वचनानि श्रुत्वा अक्रुद्धम्।
vii. तत्रैव एक: ईष्यालुः यात्री कपि कुटीरे वसति स्म।
viii. एकदा एक: भक्तः मधुराणि फलानि आदाय महर्षिम् अयच्छत्।
उत्तराणि :
i. भारतस्य अनेकेषु महापुरुषेषु महर्षिः दयानन्दः प्रमुखः आसीत्।
ii. एकदा महर्षिः काशीनगरे गंगायाः तटे एकस्मिन् कुटीरे शिष्यै: सह अतिष्ठत्।
iii. तर्रैव एक: ईष्यालुः यात्री कपि कुटीरे वसति स्म।
iv. स: ईर्ष्यया महर्षि कटुवचनानि वदति स्म।
v. शिष्या: तस्य वचनानि श्रुत्वा अक्रुद्धम्।
vi. एकदा एक: भक्तः मधुराणि फलानि आदाय महर्षिम् अयच्छत्।
vii. स: ऋषिः उत्तमानि मधुराणि फलानि तस्मै यात्रिणे अप्रेषयत्।
viii. स: प्रभावितः भूत्वा महर्ष चरणयो: पतित्वा तं क्षमायाचनाम् अकरोत्।

DAV Class 8 Sanskrit Book Solutions Chapter 4 क्षमस्व महर्षे!

4. निम्न ‘क’ वर्गीयाणां पदानां ‘ख’ वर्गीयै: पदै: सह सम्यक्तया संयोजनं कुरुत-

‘क’ पदानि ‘ख’ अर्था:
i. निवारयन् अत्यधिकम्
ii. क्रुद्धा: समीपं गत्वा
iii. प्रचुराणि आश्चर्ययुक्ताः
iv. असहिष्णु: त्याजयन्
v. अतीव शान्तः
vi. उपगत्य भवते
vii. लज्जित: क्रोधिता:
viii. तूष्णीम् अधिकानि
ix. चकिता: लज्जायुक्त:
x. भवतः कृते असहनशील:

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. निवारयन् त्याजयन्
ii. क्रुद्धा: क्रोधिता:
iii. प्रचुराणि अधिकानि
iv. असहिष्णु: असहनशील:
v. अतीव अत्यधिकम्
vi. उपगत्य समीपं गत्वा
vii. लज्जित: लज्जायुक्तः
viii. तूष्णीम् शान्त:
ix. चकिता: आश्चर्ययुक्ता:
x. भवतः कृते भवते