Through Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 9 बुद्धिमान् गोपालकः, students can easily access answers to the questions presented in the textbook.
DAV Class 7 Sanskrit Chapter 9 Solutions – बुद्धिमान् गोपालकः
Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 9 बुद्धिमान् गोपालकः
1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’-
i. किं चित्रकारः भवननिर्माणं करोति स्म?
ii. किं चित्रकार: नगरात् बहि: अगच्छत्?
iii. किं चित्रकारः जलाशयस्य दृश्यं निर्मितवान्?
iv. किं चित्रकारः अनेकवारं चित्रम् अपश्यत्?
v. किं चित्रकार: अजाः चारयति स्म?
vi. किं गोपालक: पर्वतस्य कोणे आसीत्?
उत्तराणि :
i. किं चित्रकारः भवननिर्माणं करोति स्म? – न
ii. किं चित्रकार: नगरात् बहि: अगच्छत्? – आम्
iii. किं चित्रकारः जलाशयस्य दृश्यं निर्मितवान्? – न
iv. किं चित्रकारः अनेकवारं चित्रम् अपश्यत्? – आम्
v. किं चित्रकार: अजाः चारयति स्म? – न
vi. किं गोपालक: पर्वतस्य कोणे आसीत्? – आम्
2. मज्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-
उत्तराणि :
एकदा एक: चित्रकारः आसीत्। सः चित्रस्य निर्माणं करोति स्म। एकदा स: पर्वतस्य पृष्ठात् सूर्योदस्य दृश्यम् अपश्यत्। चित्रनिर्माणाय स: पर्वतम् आरोहत्। एक: गोपालक: तत्र धेनूः चारयति स्म। यदा चित्रकारः पर्वतस्य कोणे आसीत् तदा गोपालक: पर्वतस्य उपरि गत्वा तस्य चित्रम् छिन्नम् अकरोत्। एवम् कृत्वा तेन कलाकारस्य जीवनं रक्षितम्।
3. मज्जूषायाः उचितं विपरीतार्थकं पदं चित्वा लिखन्तु-
i. नीचै: ____________
ii. पूर्णम् ____________
iii. विवेकेन ____________
iv. आरुह्य ____________
v. बहि: ____________
vi. अनेकवारम् ____________
उत्तराणि :
i. उपरि
ii. अपूर्णम्
iii. अविवेकेन
iv. अवतीर्य
v. अन्त:
vi. एकवारम्
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. कलाकारस्य रुचि: कस्मिन् आसीत्? ____________
ii. चित्रकारः कस्य धन्यवादम् अकरोत्? ____________
iii. पर्वतानां पृष्ठात् किं भवति स्म? ____________
iv. कः चित्रम् छिन्नम् अकरोत्? ____________
v. गोपालक: का: चारयति स्म? ____________
vi. पर्वतस्य कोणे क: स्थितः आसीत्? ____________
उत्तराणि :
i. चित्रनिर्माणे
ii. गोपालकस्य
iii. सूर्योदय:
iv. गोपालक:
v. धेनू:
vi. चित्रकार:
5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
i. चित्रकार: क्रोधितः भूत्वा किम् अकरोत्? ____________
ii. चित्रकार: कुत्र आरुह्य चित्रनिर्माणम् आरभत? ____________
iii. चित्रकार: चित्रम् कतिवारम् अपश्यत्? ____________
iv. गोपालक: किमर्थ कलाकारं न आकारयत्? ____________
v. चित्रकारः किमर्थ क्रोधितः अभवत्? ____________
उत्तराणि :
i. चित्रकारः क्रोधितः भूत्वा गोपालकं प्रति अधावत्।
ii. चित्रकारः पर्वत प्रदेशम् आरुह्य चित्रनिर्माणम् आरभत।
iii. चित्रकारः चित्रम् अनेकवारम् अपश्यत्।
iv. गोपालक: ध्यानभङ्गस्य भयात् कलाकारम् न आकारयत्।
v. चित्रकारः चित्रस्य छिन्नेन क्रोधितः अभवत्।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
i. पर्वते स: शोभनं दृश्यम् अपश्यत्। ____________
ii. चित्रकार: प्राकृतिकदृश्यं चित्रे प्रदर्शयति। ____________
iii. पर्वतानां पृष्ठात् सूर्योदयः भवति। ____________
iv. चित्रकार: नगराद् बहि: अगच्छत्। ____________
v. चित्रकार: पर्वतस्य कोणे आसीत्। ____________
vi. स: ध्यानभझ्गेन पतिष्यति एव। ____________
उत्तराणि :
i. पर्वते स: किम् अपश्यत्?
ii. चित्रकारः प्राकृतिकदृश्यं कस्मिन् प्रदर्शयति?
iii. केषाम् पृष्ठात् सूयोंदयः भवति?
iv. चित्रकारः कस्मात् बहि: अगच्छत्?
v. चित्रकार: कस्य कोणे आसीत्?
vi. कः ध्यानभङ्गेन पतिप्यति एव?
7. अधोलिखितानि वाक्यानि कथाक्रमानुसारेण लिखन्तु-
i. स: तं चित्रकारं पर्वतस्य कोणे स्थितम् अपश्यत्।
ii. एक: चित्रकारः आसीत्।
iii. स: चित्रं छिन्नं कृत्वा चित्रकारस्य जीवनम् अरक्षत्।
iv. एकदा स: नगराद् बहि: अगच्छत्।
v. सः पर्वतप्रदेशम् आरुह्य चित्रनिर्माणं प्रारभत।
vi. तत्र एक: गोपालकः धेनू: चारयति स्म।
उत्तराणि :
i. एक: चित्रकारः आसीत्।
ii. एकदा सः नगराद् बहि: अगच्छत्।
iii. स: पर्वतप्रदेशम् आरुह्य चित्रनिर्माणं प्रारभत।
iv. तत्र एक: गोपालक: धेनूः चारयति स्म।
v. स: तं चित्रकारं पर्वतस्य कोणे स्थितम् अपश्यत्।
vi. स: चित्र छिन्नं कृत्वा चित्रकारस्य जीवनम् अरक्षत्।
मूल्यात्मक: प्रश्न:-
किं भवन्तः स्वविवेकेन कदापि कस्यचित् सहायताम् अकुर्वन्? स्वानुभवान् वदन्तु।
उत्तराणि :
एकदा अहं स्व विद्यालयम् अगच्छम्। तदा मार्ग एक: बालक: पतितः आसीत्। अहं तदा विरम्य तं बालक: उत्थापयम्। तं सान्त्वयन् अहम् अवदम्-“किज्चिद्पि न अभवत्” इति। इति श्रुत्वा सः प्रसन्नः अभवत्। प्रसन्नतया च स: स्व विद्यालयम् अगच्छत्। तस्य सहायतां कृत्वा अहम् अतीत प्रासीदम्।
गतिविधि:-
1. अधोलिखिततालिकायाम् क्रियापदानि उदाहरणानुसारं चिह्नीकुरुत-
उत्तराणि :
2. सुन्दर-प्रकृतेः चित्र निर्माय तं रऊ्जयन्तुउत्तराणि
उत्तराणि :
व्याकरणम् :
अभ्यास:
1. कोष्ठकात् उचित पदं चित्वा रिक्तस्थानानि परयन्तु-
i. ________ पुरतः मन्दिरम् अस्ति। (गृहे/गृहस्य)
ii. ________ परितः भक्ता: सन्ति। (मन्द्रिस्य/मन्द्रि)
iii. ________ बहिः उद्यानम् अस्ति। (ग्रामाय/ग्रामात्)
iv. अलं ________। (कोलाहलंकोलाहलेन)
v. पिता ________ फलं यच्छति। (पुत्राय/पुत्रं)
vi. गुरु: ________ विश्वसति। (शिष्यात्/शिष्ये)
उत्तराणि :
i. गृहस्य पुरतः मन्दिरम् अस्ति।
ii. मन्दिरं परितः भक्ताः सन्ति।
iii. ग्रामात् बहि: उद्यानम् अस्ति।
iv. अल कोलाहलेन।
v. पिता पुत्राय फलं यच्छति।
vi. गुरु: शिष्ये विश्वसति।
2. उदाहरणं दृष्टवा उचितं मेलन कृत्वा लिखन्तु-
उत्तराणि :
1. एक: चित्रकारः आसीत्। चित्रनिर्माणे तस्य अतीव रुचिः आसीत्। यत्र-यत्र स: शोभनानि दृश्यानि पश्यति स्म तत्र-तत्र स: चित्रनिर्माणं करोति स्म। एकदा स: नगराद् बहिः अगच्छत्। तत्र पर्वतानाम् पृष्ठात् सूर्यस्य स्वर्णरश्मयः वातावरणं स्वर्णमयं कुर्वन्ति स्म। एतत् शोभनं दृश्यं दृष्ट्वा स: पर्वतप्रदेशम् आरुह्य चित्रनिर्माणं प्रारभत। यदा चित्र पूर्णम् अभवत् तदा सः कदाचित् वामतः, कदाचित् दक्षिणतः अनेकवारं चित्रम् अपश्यत्। तस्मिन् लीन: स: स्वस्थिति विस्मृतवान्।
हिंदी अनुवाद – एक चित्रकार (कलाकार) था। चित्र बनाने में उसकी बहुत रुचि थी। जहाँ-जहाँ वह सुंदर दृश्य देखता था वहाँ-वहाँ वह चित्र बनाता था। एक बार वह नगर से बाहर गया। वहाँ पर्वतों के पीछे से सूर्य की सुनहरी किरणें वातावरण को सुनहरा बना रही थीं। यह सुंदर दृश्य देखकर उसने पर्वत स्थल पर चढ़कर चित्र बनाना (निर्माण करना) शुरू कर दिया। जब चित्र पूरा बन (हो) गया तब वह कभी बाएँ से, कभी दाएँ से अनेक बार चित्र को देखने लगा। उसमें तल्लीन वह अपनी स्थिति (को) भूल गया।
शब्दार्थः – चित्रकारः-कलाकार (चित्रकार)। अतीव-बहुत अधिक। रुचि:-रुचि। शोभनानि-सुंदर। एकदा-एक बार। स्वर्णरश्मयः-सोने जैसी किरणें (सुनहरी किरणें)। स्वर्णमयम्-सुनहरा। शोभनम्-सुंदर (अच्छा)। आरुह्य-चढ़कर। प्रारभत-आरंभ (शुरू) किया। कदाचित्-कभी। लीन:-तल्लीन। विस्मृतवान्-भूल गया।
सन्धि विच्छेद:
नगराद् बहि:-नगरात् + बहि:
वातावरणम्- वात + आवरणम्
धातु-प्रत्यय-विभाजनम्
2. तत्र एक: गोपालक: धेनू: चारयति स्म। स: तं चित्रकारं पर्वतस्य कोणे स्थितम् अपश्यत्। गोपालक: अचिन्तयत्- “यदि एषः चित्रकारः एकम् अपि पदम् पृष्ठतः चलति तर्हि पर्वतात् नीचैः पतिष्यति। यदि स: चित्रकारम् आह्नयति तदा अपि ध्यानभड्गेन सः पतिष्यति। तदा किं करणीयम्?” सहसा किंचित् विचार्य स: पर्वतस्य उपरि अगच्छत्, तत् सुंदरं चित्र छिन्नं कर्तुम् प्रारभत।
हिंदी अनुवाद – वहाँ एक ग्वाला गाएँ चरा रहा था। उसने उस चित्रकार (कलाकार) को पर्वत के कोने में खड़ा देखा। ग्वाला सोचने लगा-‘अगर यह चित्रकार एक भी कद्म पीछे की ओर चलता है तो पर्वत से नीचे गिर जाएगा। अगर वह चित्रकार को बुलाता है तो भी ध्यान भंग होने से वह गिर जाएगा। तो क्या किया जाए?’ अचानक कुछ सोचकर वह पहाड़ के ऊपर गया, उस सुंदर चित्र को फाड़ना शुरू कर दिया।
शब्दार्थः – गोपालक:-ग्वाला। धेनू:-गायों को। चारयति स्म-चराता था। स्थितम्-खड़े हुए (को)। अपश्यत्-देखा। पदम्-कद्म। पृष्ठतः-पीछे की ओर। तर्हि-तो। नीचै:-नीचे। ध्यानभड्गेन-ध्यान टूटने से। करणीयम्-करना चाहिए। किंचित्-कुछ। विचार्य-सोचकर। प्रारभत-शुरू कर दिय।। सन्धि विच्छेद:
किंचित् – किम् + चित्
सुन्दरं चित्रं = सुन्दरम् + चित्रम्
धातु-प्रत्यय-विभाजनम्
3. एतत् दृष्ट्वा चित्रकारः क्रोधितः भूत्वा गोपालकं प्रति अधावत्।
गोपालक: अकथयत्- “मया तव चित्रम् छिन्नम् कृतम् परन्तु तव जीवनम् रक्षितम्।”
इदं ज्ञात्वा चित्रकारः गोपालकस्य धन्यवादम् अकरोत्।
गोपालकस्य विवेकेन एव चित्रकारस्य जीवनम् रक्षितम् अभवत्।
हिन्दी अनुवाद – यह देखकर कलाकार (चित्रकार) गुस्सा होकर ग्वाले की ओर दौड़ा।
ग्वाले ने कहा- “मैंने तुम्हारा चित्र नष्ट किया है परंतु तुम्हारा जीवन बचाया है।”
यह जानकर कलाकार (चित्रकार) ने ग्वाले का धन्यवाद् किया।
ग्वाले की बुद्धिमानी से ही कलाकार का जीवन बच गया।
शब्दार्थः-एतत्-यह। दृष्ट्वा-देखकर। क्रोधितः-गुस्सा। प्रति-की ओर। तव-तुम्हारा। कृतम्-किया है। रक्षितम्-बचाया है। ज्ञात्वा-जानकर। विवेकेन-बुद्धिमानी से।
सन्थि विच्छेद:
इद ज्ञात्वा = इदम् + ज्ञात्वा
गोपालकं प्रति = गोपालकम् + प्रति
धातु-प्रत्यय-विभाजनम्
DAV Class 7 Sanskrit Ch 9 Solutions – बुद्धिमान् गोपालकः
1. निम्नलिखितम् अनुच्छेद पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-
(क) एक: चित्रकारः आसीत्। चित्रनिर्माणे तस्य अतीव रुचिः आसीत्। यत्र-यत्र सः शोभनानि दृश्यानि पश्यति स्म तत्र-तत्र स: चित्रनिर्माणं करोति स्म। एकदा स: नगराद् बहि: अगच्छत्। तत्र पर्वतानाम् पृष्ठात् सूर्यस्य स्वर्णरश्मयः वातावरणं स्वर्णमयं कुर्वन्ति स्म। एतत् शोभनं दृश्यं दृष्ट्वा स: पर्वतप्रदेशम् आरुह्यू चित्रनिर्माणं प्रारभत। यदा चित्रं पूर्णम् अभवत् तदा स: कदाचित् वामतः, कदाचित् दक्षिण ततः अनेकवारं चित्रम् अपश्यत्। तस्मिन् लीनः स: स्वस्थितिं विस्मृतवान्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
चित्रकारस्य रुचिः कस्मिन् आसीत्?
(क) कृषि कर्मणि
(ख) व्यापारे
(ग) अध्यापने
(घ) चित्रनिर्माणे
उत्तरम् :
(घ) चित्रनिर्माणे
प्रश्न ii.
एकदा स: कस्मात् बहि: अगच्छत्?
(क) गृहात्
(ख) नगरात्
(ग) विद्यालयात्
(घ) पर्वतात्
उत्तरम् :
(ख) नगरात्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
चित्रकार: कुत्र चित्रनिर्माणं करोति स्म?
उत्तरम् :
चित्रकार: यत्र-यत्र शोभनानि दृश्यानि पश्यति स्म तत्र-तत्र चित्रनिर्माणं करोति स्म।
III. भाषिक कार्यम्-
प्रश्न i.
अनुच्छेदे ‘विस्मृतवान्’ इति क्रियाया: कर्तृपदं किम्?
(क) स:
(ख) लीन:
(ग) स्वस्थितिं
(घ) तस्मिन्
उत्तरम् :
(क) स:
प्रश्न ii.
अनुच्छेद् ‘अन्त:’ पदस्य क: विलोमः आगतः?
(क) निकषा
(ख) समीपम्
(ग) बहि:
(घ) अन्तरे
उत्तरम् :
(ग) बहि:
(ख) तत्र एक: गोपालक: धेनू: चारयति स्म। सः तं चित्रकार पर्वतस्य कोणे स्थितम् अपश्यत्। गोपालक: अचिन्तयत्-“यदि एषः चित्रकारः एकम् अपि पदम् पृष्ठतः चलति तर्हि पर्वतात् नीचैः पतिष्यति। यदि स: चित्रकारम् आह्वयति तदा अपि ध्यानभड्गेन स: पतिष्यति। तदा किं करणीयम्?” सहसा किंचित् विचार्य स: पर्वतस्य उपरि अगच्छत्, तत् सुंदरं चित्रं छिन्नं कर्तुम् प्रारभत।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
गोपालक: का: चारयति स्म?
(क) अजा:
(ख) धेनू:
(ग) गा:
(घ) पशून्
उत्तरम् :
(ख) धेनू:
प्रश्न ii.
चित्रकारस्य चित्र कीदृशम् आसीत्?
(क) सुन्दरम्
(ख) छिन्नम्
(ग) भिन्नम्
(घ) अनुत्तमम्
उत्तरम् :
(क) सुन्दरम्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
चित्रकारः कथं पर्वतात् नीचैः पतिष्यति?
उत्तरम् :
चित्रकारः यदि एकम् अपि पद् पृष्ठतः चलति तर्हिं पर्वतात् नीचैः पतिष्यति।
III. भाषिक कार्यम्-
प्रश्न i.
अनुच्छेदे ‘अधः’ पदस्य क: पर्यायः प्रयुक्तः अस्ति?
(क) नीचै:
(ख) उपरि
(ग) मध्ये
(घ) अन्तः
उत्तरम् :
(क) नीचै:
प्रश्न ii.
‘एकम् पदम्’ अनयोः विशेषण पदं किम् अस्ति?
(क) पदम्
(ख) पद
(ग) एक
(घ) एकम्
उत्तरम् :
(घ) एकम्
(ग) एतत् दृष्ट्वा चित्रकारः क्रोधितः भूत्वा गोपालकं प्रति अधावत्।
गोपालकः अकथयत्- “मया तव चित्रम् छिन्नम् कृतम् परन्तु तव जीवनम् रक्षितम्।”
इदं ज्ञात्वा चित्रकार: गोपालकस्य धन्यवादम् अकरोत्।
गोपालकस्य विवेकेन एव चित्रकारस्य जीवनम् रक्षितम् अभवत्।
प्रश्नाः
I. एकपदेन उत्तरत-
प्रश्न i.
चित्रकार: कस्य धन्यवादम् अकरोत्?
(क) गोपालकस्य
(ख) गोपालस्य
(ग) कृषकस्य
(घ) देवस्य
उत्तरम् :
(क) गोपालकस्य
प्रश्न ii.
गोपालकः कि छिन्नम् अकरोत्?
(क) फलम्
(ख) पत्रम्
(ग) दर्पणम्
(घ) चित्रम्
उत्तरम् :
(घ) चित्रम्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
क: गोपालके प्रति अधावत्?
उत्तरम् :
चित्रकारः क्रोधितः भूत्वा गोपालक प्रति अधावत्।
III. भाषिक कार्यम्-
प्रश्न i.
अनुच्छेदे ‘अकरोत्’ इति क्रियापदस्य कर्तृपद किम्?
(क) गोपालक:
(ख) धेनु:
(ग) चित्रकार:
(घ) बालक:
उत्तरम् :
(ग) चित्रकार:
प्रश्न ii.
‘मरणम्’ इति पदस्य क: विपर्ययः (विलोम:) अत्र लिखित??
(क) जीवनम्
(ख) जन्म
(ग) मृत्यु:
(घ) छिन्नम्
उत्तरम् :
(क) जीवनम्
2. निम्नलिखितस्य शीर्षकस्य समुचितं भावं (✓) इति चिह्नेन चिह्नितं कुरुतबुद्धिमान् गोपालक:-
i. गोपालक: सुन्दरं चित्र निर्मापयति स्म।
ii. गोपालकः बुद्धिपूर्वकं धेनू: चारयति स्म।
iii. गोपालकः बुद्धिपूर्वक चित्रकारस्य जीवनम् अरक्षत्।
उत्तरम् :
iii. गोपालकः बुद्धिपूर्वक चित्रकारस्य जीवनम् अरक्षत्।
3. निम्नलिखितानि वाक्यानि समुचितरूपेण अशुद्ध (✗) शुद्ध (✓) वा चिह्नाभ्यां चिहिनतं कुरुत-
i. गोपालक: युवा आसीत्।
ii. चित्रकार: स्वकार्य कुशलः आसीत्।
iii. चित्रकारः स्वनिर्माणे संलग्न: आसीत्।
iv. बालक: गोपालक. पर्वतप्रदेशे निर्माणं करोति स्म।
v. गोपालक: बुद्धिहीन: आसीत्।
vi. चित्रे पूर्णे सति चित्रकार: तद् एकं वारम् एव अपश्यत्।
vii. चित्रकारः पर्वतस्य शिखरस्य कोणे एव अतिष्ठत्।
viii. सः यदा एकं पद्मपि चालयिष्यति तदा अधः पतिष्यति।
ix. चित्रकारः बालकस्य उपरि अक्रुध्यत्।
x. चित्रकारः बालकस्य धन्यवादम् अकरोत्।
उत्तराणि :
i. ✗
ii. ✓
iii. ✓
iv. ✗
v. ✗
vi. ✗
vii. ✓
viii. ✓
ix. ✓
x. ✓
4. निम्नरेखाइ्कितानां पदानां स्थाने विकल्पेभ्यः प्रश्नवाचकं पदं नीत्वा प्रश्ननिर्माणं कुरुत-
प्रश्न i.
एक: चित्रकारः चित्रनिर्माणं करोति।
(क) कति
(ख) कः
(ग) का
(घ) किम्
उत्तरम् :
(ख) क:
प्रश्न ii.
सः अतीव रुचिपूर्वक चित्रनिर्माणं करोति।
(क) कथम्
(ख) कम्
(ग) किम्
(घ) काम्
उत्तरम् :
(क) कथम्
प्रश्न iii.
एकदा स: नगराद् बहि: अगच्छत्।
(क) कुत्र
(ख) कदा
(ग) किम्
(घ) कस्मात्
उत्तरम् :
(घ) कस्मात्
प्रश्न iv.
तत्र सूर्यस्य रश्मयः वातावरण स्वर्णमयम् अकरोत्।
(क) कीदृशम्
(ख) कम्
(ग) किम्
(घ) काम्
उत्तरम् :
(क) कीदृशम्
प्रश्न v.
चित्रकार: पर्वतप्रदेशे चित्रनिर्माणं प्रारभत।
(क) के
(ख) कदा
(ग) कुत्र
(घ) किम्
उत्तरम् :
(ग) कुत्र
प्रश्न vi.
सः अनेकवारं चित्रम् अपश्यत्।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(ख) किम्
प्रश्न vii.
बालक: धेनू: चारयति स्म।
(क) काम्
(ख) क:
(ग) कम्
(घ) का:
उत्तरम् :
(घ) का:
प्रश्न viii.
यदि चित्रकारः एकम् पदम् अपि चलिष्यति तर्हि स: पतिष्यति।
(क) कति
(ख) काम्
(ग) कम्
(घ) किम्
उत्तरम् :
(क) कति
प्रश्न ix.
बालक: पर्वतस्य उपरि अगच्छत्।
(क) कस्य
(ख) कस्या:
(ग) कम्
(घ) किम्
उत्तरम् :
(क) कस्य
प्रश्न x.
स: चित्रकारस्य चित्रं छिन्नम् अकरोत्।
(क) किम्
(ख) कीदृशम्
(ग) कथम्
(घ) कदा
उत्तरम् :
(ख) कीदृशम्
प्रश्न xi.
चित्रकारः क्रोधितः भूत्वा तं प्रति अधावत्।
(क) क:
(ख) कथम्
(ग) कीदृश:
(घ) किम्
उत्तरम् :
(ग) कीदृश:
प्रश्न xii.
गोपालक: स्व विवेकेन चित्रकारस्य जीवनम् अरक्षत्।
(क) कम्
(ख) किम्
(ग) काम्
(घ) केन
उत्तरम् :
(ख) किम्।
5. निम्नलिखितानि वाक्यानि घटनाक्रमानुसारं पुनः संयोजयत-
(क) i. स: पर्वतस्य उपरि गत्वा तस्य चित्रं छिन्न-भिन्नं करोति।
ii. चित्रकार: पर्वतस्य कोणे स्थित्वा चित्रं निर्मापयति स्म।
iii. चित्रकार: चित्रनिर्माणे अतीव रुचिं धारयति स्म।
iv. चित्रकारः बालकं प्रति अधावत् अतः तस्य जीवनरक्षा अभवत्।
v. बालक: बुद्धिमान् आसीत्।
vi. चित्रकार: बालकाय अतीव क्रोधम् अकरोत्।
उत्तराणि :
i. चित्रकार: चित्रनिर्माणे अतीव रुचिं धारयति स्म।
ii. चित्रकार: पर्वतस्य कोणे स्थित्वा चित्र निर्मापयति स्म।
iii. बालक: बुद्धिमान् आसीत्।
iv. सः पर्वतस्य उपरि गत्वा तस्य चित्रं छिन्न-भिन्नं करोति।
v. चित्रकारः बालकं प्रति अधावत् अतः तस्य जीवनरक्षा अभवत्।
vi. चित्रकार: बालकाय अतीव क्रोधम् अकरोत्।
(ख) i. सः पर्वत प्रदेश गत्वा तत्र शोभनं चित्रम् अकरोत्।
ii. चित्रकार: पर्वतस्य कोणे स्थितः आसीत्।
iii. एक: चित्रकारः आसीत्।
iv. चित्रे पूर्ण सति स: चित्र वारं-वारम् अपश्यत्।
v. स: यदा एकं पदम् अपि चलिष्यति तदा अवश्यमेव पतिष्यति।
vi. स: चित्रनिर्माणे अतीव कुशलः आसीत्।
उत्तराणि :
i. एक: चित्रकारः आसीत्।
ii. सः चित्रनिर्माणे अतीव कुशलः आसीत्।
iii. स: पर्वत प्रदेश गत्वा तत्र शोभनं चित्रम् अकरोत्।
iv. चित्रकार: पर्वतस्य कोणे स्थितः आसीत्।
v. चित्रे पूर्ण सति स: चित्र वारं-वारम् अपश्यत्।
vi. सः यदा एकं पदम् अपि चलिष्यति तदा अवश्यमेव पतिष्यति।
(ग) i. सः धावित्वा चित्र छिन्नम् अकरोत्।
ii. एकः बालकः इदं दृश्यम् दृष्ट्वा अचिन्तयत्।
iii. चित्रे पूर्ण सः चित्रं मुग्धः भूत्वा वारं-वारम् अपश्यत्।
iv. चित्रकारः क्रुद्धः भूत्वा तं प्रति अधावत् अतः तस्य जीवनरक्षा अभवत्।
v. एक: चित्रकारः पर्वतप्रदेश गत्वा तत्र चित्रनिर्माणं प्रारभत।
vi. यदि चित्रकारः एकमपि पदं पृष्ठे चलिष्यति तदा अधः पतित्वा मृत्युं प्राप्स्यति।
उत्तराणि :
i. एक: चित्रकार: पर्वतप्रदेश गत्वा तत्र चित्रनिर्माणं प्रारभत।
ii. चित्रे पूर्ण सः चित्र मुग्धः भूत्वा वारं-वारम् अपश्यत्।
iii. एक: बालक: इदं दृश्यम् दृष्ट्वा अचिन्तयत्।
iv. यदि चित्रकारः एकमपि पदं पृष्ठे चलिष्यति तदा अधः पतित्वा मृत्युं प्राप्स्यति।
v. स: धावित्वा चित्रं छिन्नम् अकरोत्।
vi. चित्रकारः क्रुद्धः भूत्वा तं प्रति अधावत् अतः तस्य जीवनरक्षा अभवत्।
6. निम्नपदानां विपरीत (विलोम) पदानि चित्वा तेषां समक्षे लिखत-
पदानि | विपरीता: |
i. बुद्धिमान् | (क) न्यून |
ii. जीवनम् | (ख) अग्रतः |
iii. अतीव | (ग) अपूर्णम् |
iv. नीचै: | (घ) दक्षिणत: |
v. क्रोधित: | (ङ) निर्बुद्धि: |
vi. पृष्ठात् | (च) शनै:-शनै: |
vii. सहसा | (छ) अशोभनम् |
viii. एक: | (ज) मरणम् |
ix. विस्मृतवान् | (झ) शोभारहितानि |
x. बहि: | (ञ) अत्र |
xi. शोभनम् | (ट) अवरुह्य |
xii. वामत: | (ठ) स्मृतवान् |
xiii. शोभनानि | (ड) उपरि |
xiv. आरुह्य | (ढ) अनेक: |
xv. पूर्णम् | (ण) प्रसन्न: |
xvi. तत्र | (त) अन्तः |
उत्तराणि :
पदानि | विपरीता: |
i. बुद्धिमान् | (ङ) निर्बुद्धि: |
ii. जीवनम् | (ज) मरणम् |
iii. अतीव | (क) न्यून |
iv. नीचै: | (ड) उपरि |
v. क्रोधित: | (ण) प्रसन्न: |
vi. पृष्ठात् | (ख) अग्रतः |
vii. सहसा | (च) शनै:-शनै: |
viii. एक: | (ढ) अनेक: |
ix. विस्मृतवान् | (ठ) स्मृतवान् |
x. बहि: | (त) अन्तः |
xi. शोभनम् | (छ) अशोभनम् |
xii. वामत: | (घ) दक्षिणतः |
xiii. शोभनानि | (झ) शोभारहितानि |
xiv. आरुह्य | (ट) अवरुह्य |
xv. पूर्णम् | (ग) अपूर्णम् |
xvi. तत्र | (ञ) अत्र |