Through DAV Sanskrit Book Class 8 Solutions Pdf and DAV Class 8 Sanskrit Book Solutions Chapter 9 अविश्वस्ते न विश्वसेत्, students can easily access answers to the questions presented in the textbook.
DAV Class 8 Sanskrit Chapter 9 Solutions – अविश्वस्ते न विश्वसेत्
DAV Class 8 Sanskrit Ch 9 Solutions – अविश्वस्ते न विश्वसेत्
1. एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा वदन्तु लिखन्तु च-
i. शृगाल: मूषकसमूहं दृष्ट्वा दूरं गच्छति।
ii. शृगालः सूर्यं प्रति उद्घाटितेन मुखेन तिष्ठति।
iii. मूषका: शृगालं दृष्ट्वा चकिता: भवन्ति।
iv. मूषका: सूर्य पूजयितुम् तत्र आगच्छन्ति स्म।
v. विडाल: प्रतिदिन मूषकं खादति।
vi. सर्वे मूषका: शृगालस्य नाशम् अकुर्वन्।
उत्तराणि :
i. अशुद्धम्
ii. शुद्धम्
iii. शुद्धम्
iv. अशुद्धम्
v. अशुद्धम्
v. शुद्धम्
2. मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-
i. शृगाल: भोजनं भ्रमति स्म्।
ii. स: मूषकान् बिलस्य समीपम् आगच्छत्।
iii. वायुं
iv. सूर्यं तस्य मुखम् उद्घाटितम् आसीत्।
v. मूषका: श्रृगालं तस्य मुखं सूर्यं प्रति आसीत्।
i. प्राप्तुम्
ii. खादितुम् तत्र आगच्छन्ति स्म।
उत्तराणि :
iii. भक्षयितुम्
iv. पूजयितुम्
v. सेवितुम्
3. मज्जूषायाः उचितं पर्यायपदं चित्वा लिखन्तु-
i. नत्वा ____
ii. मूषकवृन्दम् ____
iii. चकिता: ____
iv. पृथ्वी ____
v. दृष्ट्वा ____
उत्तराणि
i. प्रणम्य
ii. मूषकवृन्दम्
iii. विस्मिता:
iv. धरा
4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. शृगाल: कम् अनुसरति?
ii. शृगाल: कम् प्रति मुखं कृत्वा तिष्ठति?
iii. मूषका: कं सेवन्ते?
iv. हृष्ट: पुष्ट: कः अभवत्?
v. केषां सड्ख्या न्यूनतरा अभवत्?
vi. ‘एक: श्रृगालः’ अनयो: पदयो: विशेष्यपद किम्?
उत्तराणि :
i. मूषकसमूहम्
ii. सूर्यम्
iii. शृगालम्
iv. शृगाल:
v. मूषकाणाम्
iv. शृगाल:
5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
प्रश्न i.
शृगाल: भोजनाय कुत्र श्रमति स्म?
उत्तरम् :
शृगाल: भोजनाय इतस्ततः भ्रमति स्म।
प्रश्न ii.
मूषकराज: शृगालं कि पृच्छति?
उत्तरम् :
मूषकराजः शृगालं पृच्छति यत् ‘भवान् एवं किमर्थ स्थितः अस्ति’।
प्रश्न iii.
श्रृगाल: किम् अवद्?
उत्तरम् :
शृगालः अवदत-“यदि अहं चतुरः पादान् धरायां स्थापयिष्यामि तदा पृथ्वी अधः गमिष्यति। अतः अहम् एवं स्थितः अस्मि”।
प्रश्न iv.
अवसर प्राप्य धूर्तः शृगाल: किं करोति स्म?
उत्तरम् :
अवसरं प्राप्य धूर्तः शृगालः प्रतिदिनम् एकं मूषकं खादति स्म।
प्रश्न v.
मूषकराजः मूषकान् किम् अवदत्?
उत्तरम् :
मूषकराजः मूषकान् अवदत्- “अहम् अपि एवं चिन्तयामि। मम शड्का शृशालस्य उपरि अस्ति”।
प्रश्न vi.
‘मूषकराजः तान् अवदत्’ अत्र ‘तान्’ इति पदं के भ्य: प्रयुक्तम्?
उत्तरम् :
‘मूषकराजः तान् अवदत्’ अत्र ‘तान्’ इति पद ‘भूषकेष्यः’ प्रयुक्तम्।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
प्रश्न i.
शृगाल: भोजनाय भ्रमति स्म।
उत्तरम् :
क: भोजनाय भ्रमति स्म?
प्रश्न ii.
मूषका: बिलं प्रविशन्ति।
उत्तरम् :
के बिलं प्रविशन्ति?
प्रश्न iii.
मूषका: बिलात् बहि: आगच्छन्ति।
उत्तरम् :
मूषका: कस्मात् बहि: आगच्छन्ति?
प्रश्न iv.
मूषकराजः शृगालं कथयति।
उत्तरम् :
मूषकराजः कम् कथयति?
प्रश्न v.
मूषका: शृगालस्य उपरि आक्रमणम् अकुर्वन्।
उत्तरम् :
मूषकाः कस्य उपरि आक्रमणम् अकुर्वन्?
प्रश्न vi.
मूषकाः तीक्ष्णदन्तैः शृगालस्य नाशम् अकुर्वन्।
उत्तरम् :
मूषका: कै: शृगालस्य नाशम् अकुर्वन्?
7. अधोलिखित वाक्यानि कथाक्रमानुसारं लिखन्तु-
प्रश्न i.
शृगालः सूर्यं प्रति मुखं कृत्वा तिष्ठति।
उत्तरम् :
शृगाल: मूषकवृन्दं दृष्टवान्।
प्रश्न ii.
शृगाल: मूषकवृन्दं दृष्टवान्।
उत्तरम् :
शृगालः सूर्यं प्रति मुखं कृत्वा त्तिष्ठति।
प्रश्न iii.
सर्वे मूषका: चकिता: अभवन्।
उत्तरम् :
सर्वे मूषका: चकिता: अभवन्।
प्रश्न iv.
शृगालं ह्ष्ट पुष्टं दृष्ट्वा मूषका: चिन्तितवन्तः।
उत्तरम् :
शृगालः प्रतिदिनम् एकं मूषकं खादति।
प्रश्न v.
शृगाल: प्रतिदिनम् एकं मूषकं खादति।
उत्तरम् :
शृगालं हृष्ट पुष्ट दृष्ट्वा मूषकाः चिन्तितवन्तः।
प्रश्न vi.
मूषकाः स्वतीक्ष्णदन्तै:शृगालस्य नाशम् अकुर्वन्।
उत्तरम् :
मूषका: स्वतीक्ष्णदन्तै: शृगालस्य नाशम् अकुर्वन्।
मूल्यात्मक: प्रश्न:
अस्याम् कथायां भवान्/भवती अपठत् यत् यदा मूषक: एकाकी श्रुगालं सेवितुं तदा सः भृगालः मूषकं खदति स्म किन्तु अन्ते मूषका: मिलित्वा श्रृगालस्य नाशम् अकुर्वन्।
i. अनेन भवान्/भवती किम् अवागच्छत्?
ii. भवान/भवती मित्रै: सह मिलित्वा किं किं करोति?
उत्तराणि :
i. अनेन अहम् अवागच्छम् यत् ‘संघे शक्तिः कलौयुगे’ अर्थात् अस्मिन् समये संगठने एव शक्तिः अस्ति। अतः सर्व मिलित्वा समस्याया: समाधानं कुर्यः।
ii. अहम् मित्रै: सह मिलित्वा खादामि, पठामि अन्येषाम् च सहायतां करोमि। यत्र अस्माकम् आवश्यकता भवति तत्र अहं सहायतां करोमि।
गतिविधि:
अधोलिखिते विषयेषु कमपि एकं विषयम् आधृत्य एकां कथां लिखित्वा तस्या: उचितं शीर्षकं लिखन्तु कक्षायां च वाचन कुर्वन्तु।
i. परोपकार:
ii. संघे शक्तिः
iii. बुद्धि:
iv. प्रियमित्रम्
उत्तराणि :
ii. संघे शक्तिः एकदा वने अनेके कपोताः आखेटकस्य जाले अबहतन्। तदा ते दुःखिनः भूत्वा स्व स्वामिनं चित्रगीवम् अपृच्छन्। तदा चित्रगीव: अवदत्-” एकत्री भूय जालंनीत्वा उड्डयत। तदा ते तस्य वाता मत्वा एकत्रीभूत्वा ओड्डयन्। वनस्य एव एकस्मिन् स्थाने तेषां मित्र सबलः मूषकः अवसत्। तत्रैव गत्वा ते मूषकं सबलं न्यवेदयत्। सबलः तेषां जालम् अकृन्तत्। सर्व कपोताः मुक्ताः भूत्वा प्रासीदम्। अतः कथ्यते-” संघे शक्तिः कलौयुगे “।
व्याकरणम् :
अव्ययपदानि
अस्मिन् पाठे आगतानि एतानि पदानि पठन्तु लिखन्तु च-
यथा-
i. एकदा __________
ii. एवम् __________
iii. अधुना __________
iv. तदैव __________
v. एव __________
vi. तत्र __________
vii. बहि: __________
viii. यदि __________
ix. परस्परम् __________
x. प्रति __________
xi. परन्तु __________
xii. अपि __________
xiii. अध: __________
xiv. अत्र __________
xv. उपरि __________
एतानि अव्ययपदानि सन्ति। एतेषाम् भिन्न-भिन्न रूपाणि न भवन्ति।
उत्तराणि :
i. एकदा
ii. एवम्
iii. अधुना
iv. तदैव
v. एव
vi. तत्र
vii. बहिः
viii. यदि
ix. परस्परम्
x. प्रति
xi. परन्तु
xii. अपि
xiii. अधः
xiv. अत्र
xv. उपरि
कानिचित् अन्यानि अव्ययपदानि अत्र लिखितानि सन्ति। पठन्तु लिखन्तु चयथा-
i. उच्चै: __________
ii. पुरा __________
iii. नीचै: __________
iv. ऋते __________
v. श्व: __________
vi. विना __________
vii. ह्य __________
viii. नत: __________
उत्तराणि :
i. उच्चै:
ii. पुरा
iii. नीचै:
iv. ऋते
v. श्वः
vi. विना
vii. हय:
viii. नम:
अभ्यास:
1. मज्जूषायाः समुचितम् अव्ययं चित्वा रिक्तस्थानानि पूरयन्तु-
i. _____ दशरथः नाम नृप: अभवत्।
ii. ईश्वरात् _____ क: अस्माकं रक्षक:?
iii. _____ जलं एव वहति।
iv. भगवते _____
v. गायक: _____ गायति।
vi. लोके सत्यम् _____ जयते।
vii. गुरुं _____ विद्यां न लभते।
viii. _____ यूयं पाठं स्मरत।
ix. _____ अहं जन्तुशालाम् अगच्छम्।
x. _____ मम परीक्षा भविष्यति।
उत्तराणि :
i. पुरा
ii. ऋते
iii. नीचै:
iv. नम:
v. उच्चै:
vi. एव
vii. विना
viii. अधुना
ix. हय:
x. श्वः।
‘तुमुन्’ प्रत्ययः
अभ्यास:
1. संवादात् ‘तुमुन्’ प्रत्यययुक्तानि पदानि चित्वा लिखत-
उत्तराणि :
प्राप्तुम्, खादितुम्, पूजयितुम्, भक्षयितुम्, सेवितुम्
2. एतेथ्य: वाक्येभ्य: ‘तुमुन् प्रत्ययान्तानि पदानि रेखाक्कितानि कृत्वा उदाहरणानुसारं धातु-प्रत्ययौविभज्य लिखन्तु-
i. छात्रा: पठितुं विद्यालयं गच्छन्ति।
ii. शिक्षिकाः विद्यालयं गन्तुं बसयानम् आरोहन्ति।
iii. लिपिक: विद्यालयस्य आय-व्ययं कर्तुं विद्यालयं गच्छन्ति।
iv. पुस्तक-विक्रेता पुस्तकानि विक्रेतु विद्यालयं गच्छति।
v. पत्रवाहक: पत्राणि दातुं विद्यालयं गच्छति।
vi. जनः नाटकं द्रष्टुम् विद्यालयं गच्छति।
vii. भृत्यः कार्य करुं विद्यालयं गच्छति।
उत्तराणि :
i. पठ् + तुमुन्
ii. गम् + तुमुन्
iii. कृ + तुमुन्
iv. वि + क्री + तुमुन्
v. दा + तुमुन्
vi. दृश् + तुमुन्
vii. कृ + तुमुन्
3. मज्जूषायाः चित्वा एतां कथां ‘तुमुन्’ प्रत्ययान्तपदै: पूरयत-
एक: कृपणः आसीत्। सः केवलं धनं _________ (सम् + ग्रह् + तुमुन) एव जानाति। स: धनं _________ (व्यय् + तुमुन) न जानाति। स: कस्मै अपि धनं _________ (दा + तुमुन) न इच्छति। स: सर्वम् _________ (वि + स्मृ + तुमुन्) शक्नोति पर कदापि धनं _________ (त्यज् + तुमुन्) न शक्नोति। स: प्रतिदिनम् अधिक धनं _________ (प्र + आप् + तुमुन्) इच्दति। एकदा एक: जनः तं पृच्छति। “त्वं किमर्थ पृथिव्याम् आगतः असि?” स: कथयति-” धनं _________ (लभ् + तुमुन्। कोऽपि जनः तम् सन्मार्ग _________ (आ + नी + तुमुन्) समर्थः न अभवत्।”
उत्तराणि :
i. सड्ग्रहीतुम्
ii. व्ययितुम्
iii. दातुम्
iv. विस्मत्रुम्
v. त्यक्तुम्
vi. प्राप्तुम्
vii. लब्धुम्
viii. आनेतुम्
4. अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा लिखन्तु-
i. जना: भ्रमितुम् उद्यानं गच्दन्ति।
ii. सैनिका: देश रक्षितुम् सीमाक्षेत्रे वसन्ति।
iii. रमेशः गृहकार्य कृ + तुमुन् अगच्छत्।
iv. बाल: जल पातुम् इच्छति।
v. छात्र: पुस्तकं क्री + तुमुन् आपणं गच्छति।
vi. वयं कथां श्रु + तुमुन् द्वालय गच्छामः।
vii. जनाः उपवनस्य शोभां द्रष्टुम् आगच्छन्ति।
viii. ते ‘हॉकी’ इति खेल खेल् + तुमुन् इच्छन्ति।
ix. छात्रा: पाठं पठ् + तुमुन् इच्छन्ति।
x. ते पुरस्कार ग्रहीतुम् अत्र आगच्छन्।
उत्तराणि :
i. भ्रम + तुमुन्
ii. रक्ष् + तुमुन्
iii. कर्तुम्
iv. पा + तुमुन्
v. क्रेतुम्
vi. श्रोतुम्
vii. दृश् + तुमुन्
viii. खेलितुम्
ix. पठितुम्
x. ग्रह् + तुमुन्
1. एकदा एकस्मिन् वने एक: शृगाल: भोजनं प्राप्तुम् इतस्ततः भ्रमति स्म। तदैव स: मूषकाणां समूहं दृष्ट्वा तान् खाबितुं चिन्तयति। तस्य मूषकसमूहस्य राजा हुष्टः पुष्टः आसीत्। शृगालः मूषकसमूहम् अनुसरति। तान् मूषकान् खादितुम् इच्छन् सः मूषकाणां बिलस्य समीपं गच्छति। सः शृगालः किक्चित् चिन्तयित्वा मूषकाणां बिलात् बहि: सूर्य प्रति उद्घाटितेन मुखेन तिष्ठति।
हिन्दी अनुवाद-एक बार एक वन में एक सियार (गीदड़) भोजन (खाना) प्राप्त करने के लिए इधर-उधर घूम रहा था। तभी वह चूहों के समूह (झुंड) को देखकर उन्हें खाने के लिए सोचता है। उस चूहा (मूषक) समूह का राजा तंदुरुस्त था। गीदड़ (सियार) चूहों के झुंड की पीछा करता है। उन चूहों को खाने की इच्छा करता हुआ वह चूहों के बिल के पास जाता है। वह गीदड़ (सियार) कुछ सोचकर चूहों के बिल के बाहर सूरज की ओर खुले हुए मुख से (मुँह खोलकर) खड़ा हो जाता है।
शब्दार्था:-शृगालः-सियार (गीदड़)। खादितुम्-खाने के लिए। इच्छन्-चाहता हुआ। किज्चित्-कुछ। बहि:-बाहर। उद्घाटितेन-खुले हुए मुँह से।
2. अन्यस्मिन् दिवसे प्रातः मूषका: शृगालं दृष्ट्वा चकिताः भवन्ति। मूषकराजः तं पृच्छति-भवान् एवम् किमर्थ स्थितः अस्ति? शृगालः अवदत्-यदि अहं चतुरः पादान् धरायां स्थापयिष्यामि तदा पृथ्वी अधः गमिष्यति। अतः अहम् एवं स्थितः अस्मि। अन्यः मूषकः पृच्छति-भवतः मुखं सूर्यं प्रति किमर्थम् अस्ति? मुखं च किमर्थ उद्घाटितम् अस्ति? श्रुगाल: वदति-सूर्यं पूजयितुं मम मुखं सूर्यं प्रति अस्ति। वायुं च भक्षयितुम् उद्घाटितम् अस्ति। वायुः एव मम भोजनम् अस्ति।
हिन्दी अनुवाद-दूसरे दिन सुबह चूहे गीदड़ (सियार) को देखकर हैरान हो जाते हैं। चूहों का राजा उससे पूछता है-” आप इस प्रकार किसलिए खड़े हैं?” गीदड़ (सियार) बोला-” “अगर मैं चारों पैरों को धरती पर (जमीन पर) रख दूँगा तो धरती (जमीन) नीचे चली जाएगी। इसलिए मैं ऐसे खड़ा हूँ।” अन्य (दूसरा) चूहा पूछता है- ” आपका मुँह सूर्य की ओर क्यों है? और मुँह क्यों खुला है?” गीदड़ (सियार) बोलता है-” सूर्य को पूजने के लिए मेरा मुँह सूरज की ओर है और हवा खाने के लिए खुला है। हवा (वायु) ही मेरा भोजन है।”
शब्दार्था:-अन्यस्मिन्-दूसरे। एवम्-इस तरह से। स्थितः-खड़े। चतुरः पादान्-चारों पैरों को। स्थापयिष्यामि-रखूँगा। अधः-नीचे। भवतः-आपका। किमर्थम्-क्यों (किसलिए)। उद्घाटितम्-खुला हुआ। पूजयितुम्-पूजने के लिए। सूर्यं प्रति-सूरज की ओर।
3. मूषका: तं श्रृगालं नत्वा परस्परं वदन्ति-एषः शृगाल: कश्चन महात्मा एव। वयम् प्रतिदिनम् अत्र आगत्य अस्य सेवां कृत्वा पुण्यं प्राप्यामः। मूषकाः प्रतिदिन तं श्रृगालं सेवितुं तत्र आगच्छन्ति स्म। अवसरं च प्राप्य स: धूर्तः शृगालः प्रतिदिनम् एक मूषक खादति स्म। केषुचित् दिवसेषु सः शृगालः हषष्टः पुष्टः अभवत्। इदं दृष्ट्वा मूषका: परस्पर वार्तालापं कुर्वन्ति।
हिन्दी अनुवाद-चूहे उस गीदड़ को प्रणाम करके आपस में बोलते हैं-” यह गीदड़ (सियार) कोई महात्मा ही है। हम सब हर दिन यहाँ आकर इसकी सेवा करके पुण्य को प्राप्त करेंगे।” चूहे हर दिन उस गीदड़ (सियार) की सेवा करने के लिए वहाँ आते थे। और मौका (अवसर) पाकर वह चालाक सियार (गीदड़) हर दिन एक चूहे को खा जाता था। कुछ दिनों में वह गीदड़ (सियार) सबल तथा तन्दुरुस हो गया। यह देखकर चूहे आपस में बातचीत करने लगे।
शब्दार्थाः-नत्वा-नमस्कार करके (प्रणाम करके)। आगत्य-आकर। प्राप्य-पाकर। मूर्त:-चालाक (मक्कार)। हुष्ट: पुष्ट:-तन्दुरुस्त।
4. एक: मूषक: मूषकराजं प्रणम्य अवदत्-महाराज! स: शृगाल: वायुं भक्षयित्वा अपि हृष्टः पुष्टः अभवत्। परन्तु अस्माकं सड्ख्या न्यूना जाता। वयं शड्काशीलाः स्मः। मूषकराजः तान् अवदत्-अहम् अपि एवं चिन्तयामि। मम शड्का शृगालस्य उपरि एव अस्ति। अहम् अवश्यम् एव अस्य कारण ज्ञास्यामि। भवन्त: अधुना गच्छन्तु। अग्रिमे दिवसे योजनानुसार सर्वे मूषकाः दूर गच्छन्ति। मूषकराजः तत्र एकाकी एव तिष्ठति। इदं दृष्ट्वा शृगालः तं मूषकराज प्रहरति। सावधानः मूषकराजः कूर्दित्वा शृगालं प्रहरति। तदैव सर्वे मूषका: तत्र आगच्छन्ति। शृगालं च आक्रम्य तीक्ष्णदन्तः तस्य नाशम् कुर्वन्ति। सत्यम् एव कथ्यते यत्-‘अविश्वस्ते न विश्वसेत्।’
हिन्दी अनुवाद-एक चूहा चूहों के राजा को प्रणाम करके बोला-” महाराज! वह गीदड़ (सियार) हवा खाकर भी तन्दुरुस्त हो गया है। परन्तु (लेकिन) हमारी संख्या तो कम हो गयी है। हमें संदेह (शक) है।” चूहों का राजा उनको बोला-” मैं भी ऐसा सोचता हूँ। मेरी शंका गीदड़ (सियार) के ऊपर ही है। मैं अवश्य ही इसका कारण जानूँगा। आप सभी अब जाएँ।” अगले दिन योजना के अनुसार सारे चूहे दूर चले जाते हैं। चूहों का राजा वहाँ अकेले ही ठहरता है। यह देखकर गीदड़ (सियार) उस मूषकराजा पर झपटता है। सावधान चूहों का राजा कूदकर गीदड़ पर प्रहार (चोट) करता है। तभी सभी चूहे वहाँ आते हैं और गीदड़ पर आक्रमण करके (झपटकर) तेज (धारवाले) दाँतों से उसका नाश कर देते हैं।
सच ही कहा जाता है कि- “विश्वास न करने योग्य पर विश्वास नहीं करना चाहिए।” शब्दार्था:-न्यूना-कम। एकाकी-अकेला। अक्रम्य-आक्रमण करके।
Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 9 अविश्वस्ते न विश्वसेत्
1. निम्नलिखितान् गद्यांशान् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
(क) एकदा एकस्मिन् वने एक: भृगाल: भोजनं प्राप्तुम् इतस्ततः भ्रमति स्म। तदैव स: मूषकाणां समूहं दृष्ट्वा तान् खादितुं चिन्तयति। तस्य मूषक-समूहस्य राजा हृष्टः पुष्टः आसीत्। शृगालः मूषकसमूहम् अनुसरति। तान् मूषकान् खदितुम् इच्छन् स: मूषकाणां बिलस्य समीपं गच्छति। स: शृगालः किज्चित् चिन्तयित्वा मूषकाणां बिलात् बहिः सूर्यं प्रति उद्घाटितेन मुखेन तिष्ठति।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
क: मूषकान् खादितुम् चिन्तयति?
(क) सिंह:
(ख) गर्दभः
(ग) शृगाल:
(घ) व्याघ्र:
उत्तरम् :
(ग) शृगाल:
प्रश्न ii.
शृगालः कं प्रति उद्घाटितेन मुखेन तिष्ठति?
(क) चन्द्रम्
(ख) सूर्यम्
(ग) धराम्
(घ) वृक्षम्
उत्तरम् :
(ख) सूर्यम्
II. पूर्णवाक्येन उत्तरत-
i. मूषक-समूहस्य राजा कीदृशः आसीत्?
ii. शृगाल: मूषकान् खादितुम् इच्छन् कुत्र गच्छति?
उत्तरम् :
i. मूषक-समूहस्य राजा हुष्ट: पुष्ट: आसीत्।
ii. श्रृगालः मूषकान् खादितुम् इच्छन मूषकाणां बिलस्य समीपं गच्छति।
III. भाषिक कार्यम्-
प्रश्न i.
‘भ्रमति स्म’ इत्यस्य क्रियापदस्य कर्तृपद किं गद्यांशे लिखितम्?
(क) एकदा
(ख) एक:
(ग) मूषक:
(घ) शृगाल:
उत्तरम् :
(घ) शृगाल:
प्रश्न ii.
अनुच्छेदे ‘दुर्बल:’ इत्यस्य पदस्य कः विपर्यय: आगतः?
(क) सबल:
(ख) बलवान्
(ग) हृष्टः पुष्ट:
(घ) निर्बल:
उत्तरम् :
(ग) हृष्ट: पृष्ट:
प्रश्न iii.
‘एकस्मिन् वने’ अनयो: विशेषणं किम्?
(क) एकस्मिन्
(ख) एकम्
(ग) वनम्
(घ) वने
उत्तरम् :
(क) एकस्मिन्
प्रश्न iv.
‘दिनकरम्’ इति पदस्य क: पर्यायः अत्र लिखित:?
(क) द्विकरम्
(ख) सूर्यम्
(ग) दिनेशम्
(घ) दिवापतिम्
उत्तरम् :
(ख) सूर्यम्
(ख) अन्यस्मिन् दिवसे प्रातः मूषका: शृगालं दृष्ट्वा चकिताः भवन्ति। मूषकराजः तं पृच्छति-भवान् एवम् किमर्थं स्थितः अस्ति? शृगालः अवदत्-यदि अहं चतुरः पादान् धरायां स्थापयिष्यामि तदा पृथ्वी अधः गमिष्यति। अतः अहम् एवं स्थितः अस्मि। अन्यः मूषकः पृच्छति-भवतः मुखं सूर्यं प्रति किमर्थम् अस्ति? मुखं च किमर्थ उद्घाटितम् अस्ति? शृगाल: वदति-सूर्यं पूजयितुं मम मुखं सूर्यं प्रति अस्ति। वायुं च भक्षयितुम् उद्घाटितम् अस्ति। वायुः एव मम भोजनम् अस्ति।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
मूषका: शृगालं दृष्ट्वा कीदृशा: भवन्ति?
(क) चकिता:
(ख) आश्चर्यचकिताः
(ग) दु:रिन :
(घ) हर्षिता:
उत्तरम् :
(क) चकिता:
प्रश्न ii.
यदि शृगाल: स्व चतुरः पादान् धरायां स्थापयिष्यति तदा पृथिवी कुत्र गमिष्यति?
(क) उपरि
(ख) नीचै:
(ग) अध:
(घ) गगने
उत्तरम् :
(ग) अध:
II. पूर्णवाक्येन उत्तरत-
i. शृगालस्य मुखं कीदृशम् अस्ति?
ii. शृगालस्य मुखं कथं सूर्यं प्रति अस्ति?
उत्तरम् :
i. शृगालस्य मुखं सूर्य प्रति उद्घाटितम् अस्ति।
ii. शृगालस्य मुखं सूर्य पूजयितुं सूर्य प्रति अस्ति।
III. भाषिक कार्यम्-
प्रश्न i.
‘मूषकराज: तं पृच्छति।’ अत्र ‘तम्’ पदं कस्मै आगतम्?
(क) मूषकाय
(ख) जीवाय
(ग) शृगालाय
(घ) पशवे
उत्तरम् :
(ग) शृगालाय
प्रश्न ii.
‘वायु: एव मम भोजनम् अस्ति।’ अत्र क्रियापदं किम्?
(क) वायु:
(ख) अस्ति
(ग) मम्
(घ) एव
उत्तरम् :
(ख) अस्ति
प्रश्न iii.
‘वायुं च भक्षयितुम् उद्घाटितम् अस्ति।’ अत्र ‘भक्षयितुम्’ पदे क: प्रत्ययः प्रयुक्तः?
(क) ल्यप्
(ख) क्त्वा
(ग) क्त
(घ) तुमुन्
उत्तरम् :
(घ) तुमुन्
प्रश्न iv.
अनुच्छेदे ‘उपरि’ पदस्य क: विपर्ययः प्रयुक्तः?
(क) अधः
(ख) नीचै:
(ग) अधस्तात्
(घ) उपरिस्तात्
उत्तरम् :
(क) अध:
(ग) मूषकाः तं शृगालं नत्वा परस्परं वदन्ति-एष: श्रृगालः कश्चन महात्मा एव। वयम् प्रतिदिनम् अत्र आगत्य अस्य सेवां कृत्वा पुण्यं प्राफ्यामः। मूषकाः प्रतिदिनं तं शृगालं सेवितुं तत्र आगच्छन्ति स्म। अवसरं च प्राप्य स: धूर्तः शृगालः प्रतिदिनम् एक मूषक खादति स्म। केषुचित् दिवसेषु स: श्रृगालः हृष्टः पुष्टः अभवत्। इदं दृष्ट्वा मूषका: परस्परं वार्तालापं कुर्वन्ति।
प्रश्नाः I. एकपदेन उत्तरत-
प्रश्न i.
मूषका: कस्य सेवां कृत्वा पुण्यं प्राप्तुवन्ति?
(क) मूषकराजस्य
(ख) श्रृगालस्य
(ग) व्याघ्रस्य
(घ) सिंहस्य
उत्तरम् :
(ख) शृगालस्य
प्रश्न ii.
कीदृश: शृगालः प्रतिदिन मूषक खादति स्म?
(क) साधुः
(ख) श्रेष्ठ:
(ग) दुष्टः
(घ) धूर्त:
उत्तरम् :
(घ) धूर्त:
II. पूर्णवाक्येन उत्तरत-
i. मूषकाः प्रतिदिन कथं तत्र आगच्छन्ति स्म?
ii. अवसरं प्राप्य श्रृगालः किं करोति स्म?
उत्तरम् :
i. मूषका: प्रतिदिनं तं शृगालं सेवितुं तत्र आगच्छन्ति स्म।
ii. अवसर प्राप्य शृगाल: प्रतिदिनम् एकं मूषकं खादति स्म।
III. भाषिक कार्यम्-
प्रश्न i.
अनुच्छेदे ‘धूर्तः’ इति विशेषणस्य विशेष्य: क:?
(क) शृगाल:
(ख) मूषक:
(ग) मूषकराज:
(घ) व्याघ्रः
उत्तरम् :
(क) शृगाल:
प्रश्न ii.
‘वदन्ति’ इत्यस्या: क्रियाया: कर्तृपदं किम्?
(क) जना:
(ख) मूषका:
(ग) पशव :
(घ) सिंहा:
उत्तरम् :
(ख) मूषका:
प्रश्न iii.
‘दुरात्मा’ इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे आगतः?
(क) सत्यात्मा
(ख) पुण्यात्मा
(ग) पापात्मा
(घ) महात्मा
उत्तरम् :
(घ) महात्मा
प्रश्न iv.
अनुच्छेदे ‘प्रणम्य’ इत्यस्य पदस्य क: पर्यायः लिखितः?
(क) नत्वा
(ख) नमित्वा
(ग) नेत्वा
(घ) नीत्वा
उत्तरम् :
(क) नत्वा
(घ) एक: मूषक: मूषकराजं प्रणम्य अवदत्-महाराज! सः शृगालः वायुं भक्षयित्वा अपि हृष्टः पुष्टः अभवत्। परन्तु अस्माकं सड्ख्या न्यूना जाता। वयं शड्काशीलाः स्मः। मूषकराजः तान् अवदत्-अहम् अपि एवं चिन्तयामि। मम शड्का शृगालस्य उपरि एव अस्ति। अहम् अवश्यम् एव अस्य कारण ज्ञास्यामि। भवन्तः अधुना गच्छन्तु। अग्रिमे दिवसे योजनानुसारं सर्वें मूषकाः दूरं गच्छन्ति। मूषकराजः तत्र एकाकी एव तिष्ठति। इदं दृष्ट्वा धृगालः तं मूषकराज प्रहरति। सावधान: मूषकराजः कूर्दित्वा श्रृगालं प्रहरति। तदैव सर्वे मूषकाः तत्र आगच्छन्ति। श्रृगालं च आक्रम्य तीक्ष्णदन्तः तस्य नाशम् कुर्वन्ति। सत्यम् एव कथ्यते यत्- ‘अविश्वस्ते न विश्वसेत्।’
प्रश्नाः I. एकपदेन उत्तरत-
प्रश्न i.
क: मूषकराजं प्रहरति?
(क) मूषक:
(ख) शृगाल:
(ग) जीवः
(घ) पशु:
उत्तरम् :
(ख) शृगाल:
प्रश्न ii.
कस्मिन् न विश्वसेत्?
(क) अविश्वस्ते
(ख) विश्वासिनि
(ग) अविश्वासिनि
(घ) विश्वासघातिनि
उत्तरम् :
(क) अविश्वस्ते
II. पूर्णवाक्येन उत्तरत-
i. योजनानुसारं मूषका: अग्रिमे दिवसे कुत्र गच्छन्ति?
ii. क: कूर्दित्वा शृगालं प्रहरति?
उत्तरम् :
i. योजनानुसारं मूषकाः अग्रिमे दिवसे दूर गच्छन्ति।
ii. मूषकराजः कूर्दित्वा शृगालं प्रहरति।
III. भाषिक कार्यम्-
प्रश्न i.
“तदैव सर्वे मूषकाः तत्र आगच्छन्ति।” अत्र कर्तृपद किम् अस्ति?
(क) तदैव
(ख) सर्व
(ग) आगच्छन्ति
(घ) मूषका:
उत्तरम् :
(घ) मूषका:
प्रश्न ii.
‘समीपम्’ इत्यस्य पदस्य क: विपर्यय: अत्रागतः?
(क) दूरम्
(ख) निकषा
(ग) क्षिप्रम्
(घ) निकटम्
उत्तरम् :
(क) दूरम्
प्रश्न iii.
‘परन्तु अस्माकं सड्ख्या न्यूना जाता।’ अत्र ‘अस्माकम्’ पदं के भ्य: आगतम्?
(क) शृगालेभ्य:
(ख) व्यांरेभ्य:
(ग) मूषकेभ्य:
(घ) जीवेभ्य:
उत्तरम् :
(ग) मूषकेभ्य:
प्रश्न iv.
अनुच्छेदे ‘अवलोक्य’ इति पदस्य कः पर्यायः प्रयुक्तः?
(क) निरीक्ष्य
(ख) पश्चित्वा
(ग) दृष्ट्वा
(घ) विलोक्य
उत्तरम् :
(ग) दृष्ट्वा
2. निम्नलिखितस्य सुवाक्यस्य समुचितं भावं मज्जूषया: पदानां सहायतया लिखत-
‘अविश्वस्ते न विश्वसेत्।’
अस्य भावोऽस्ति यत् अस्मिन् संसारे ये ___i___ दुष्टाः कपटिनः च सन्ति ते कदापि ___ii___ न भवन्ति। सज्जनाः कदापि ___iii___ उपरि विश्वासं न कुर्युः अन्यथा तेषां ___iv___ नाशं वा भविष्यति एव।
मज्जूषा-तेषाम्, जनाः, हानि:, विश्वासयोग्या:
उत्तराणि :
i. जनाः
ii. विश्वासयोग्या:
iii. तेषाम्
iv. हानि:
3. निम्न वाक्येषु रेखाड्कितानां पदानां स्थाने प्रश्नवाचकं पद लिखित्वा प्रश्ननिर्मार्ण कुरुत-
प्रश्न i.
एकस्मिन् वने एक: शृगालः योजनार्थं भ्रमति स्म।
(क) कुत्र
(ख) कदा
(ग) क:
(घ) किमर्थम्
उत्तरम् :
(ग) क:
प्रश्न ii.
मूषकसमूहस्य राजा हृष्टः पुष्टः आसीत्।
(क) क:
(ख) कीदृश:
(ग) कथम्
(घ) किमर्थम्
उत्तरम् :
(ख) कीदृश:
प्रश्न iii.
शृगालः मूषकान् खादितुम् इच्छति स्म।
(क) क:
(ख) कम्
(ग) कथम्
(घ) कान्
उत्तरम् :
(घ) कान्
प्रश्न iv.
शृगाल: मूषकाणां बिलस्य समीपम् गच्छति।
(क) कान्
(ख) केषाम्
(ग) कम्
(घ) कानि
उत्तरम् :
(ख) केषाम्
प्रश्न v.
शृगाल: बिलस्य समीपं तिष्ठति।
(क) कम्
(ख) किम्
(ग) कुत्र
(घ) कदा
उत्तरम् :
(ग) कुत्र
प्रश्न vi.
शृगाल: सूर्यं प्रति उद्घाटितेन मुखेन तिष्ठति।
(क) क:
(ख) काम्
(ग) किम्
(घ) कम्
उत्तरम् :
(घ) कम्
प्रश्न vii.
अन्यस्मिन् दिवसे मूषकाः शृगालं दृष्ट्वा चकिताः भवन्ति।
(क) कदा
(ख) कुत्र
(ग) कथम्
(घ) कस्मिन्
उत्तरम् :
(क) कदा
प्रश्न viii.
भवान् एवं किमथं स्थितः?
(क) के
(ख) कम्
(ग) क:
(घ) का
उत्तरम् :
(ग) क:
प्रश्न ix.
यदि अहम् चतुरः पादान् धारायां स्थापयिष्यामि।
(क) क:
(ख) कति
(ग) के
(घ) कथम्
उत्तरम् :
(ख) कति
प्रश्न x.
तदा पृथिवी अध: गमिष्यति।
(क) क:
(ख) किम्
(ग) कुत्र
(घ) का
उत्तरम् :
(ग) कुत्र
प्रश्न xi.
शृगालस्य मुखं सूर्य प्रति आसीत्।
(क) क:
(ख) कस्य
(ग) कस्या:
(घ) कस्याम्
उत्तरम् :
(ख) कस्य
प्रश्न xii.
सूर्यं पूजयितुं मम मुखम् सूर्यं प्रति अस्ति।
(क) कम्
(ख) कस्य
(ग) क:
(घ) कस्या
उत्तरम् :
(ख) कस्य
प्रश्न xiii.
वायु: एव मम भोजनम् अस्ति।
(क) कः
(ख) का
(ग) किन्
(घ) कम्
उत्तरम् :
(क) क:
प्रश्न xiv.
मूषका: शृगालं नत्वा परस्परं वदन्ति।
(क) का
(ख) का:
(ग) के
(घ) क:
उत्तरम् :
(ग) के
प्रश्न xv.
वयम् प्रतिदिनम् अत्र आगत्य अस्य सेवां करिष्यामः।
(क) के
(ख) किम्
(ग) कम्
(घ) कदा
उत्तरम् :
(घ) कदा
प्रश्न xvi.
अवसरं प्राप्य स: धूर्त: शृगाल: एकं मूषकं खादति स्म।
(क) क:
(ख) कीदृश:
(ग) कीदृशन्
(घ) कति
उत्तरम् :
(ख) कीदृशः
प्रश्न xvii.
स: श्रृगाल: शनै: शनै: हृष्टः पुष्टः अभवत्।
(क) कीदृश:
(ख) क:
(ग) का:
(घ) कदा
उत्तरम् :
(क) कीदृश:
प्रश्न xviii.
एक: मूषक: मूषकराजं प्रणम्य अवदत्।
(क) कान्
(ख) किम्
(ग) कम्
(घ) कथम्
उत्तरम् :
(ग) कम्
प्रश्न xix.
वयं शंकाशीला: स्मः।
(क) कथम्
(ख) काः
(ग) के
(घ) कीदृशा:
उत्तरम् :
(घ) कीदृशा:
प्रश्न xx.
सावधान: मूषकराजः कूर्दित्वा श्रृगालं प्रहरति।
(क) क:
(ख) कीदृश:
(ग) कथम्
(घ) कदा
उत्तरम् :
(ख) कीदृशः।
4. निम्नलिखितानि वाक्यानि कथाक्रमानुसारं पुनः संयोजयत्-
(क) i. भृगालः प्रतिदिनम् एकम् मूषकम् अखादत्।
ii. सः भोजन प्राप्तुम् इतस्ततः अभ्रमत्।
iii. मूषकराजः शृगालस्य उपरि स्थित्वा स्वतीक्षणदन्तैः तम् अनाशयत्।
iv. अतः स: हृष्ट: पुष्टः अभवत्।
v. एकदा स: मूषकान् दृष्ट्वा प्रसन्नः अभवत्।
vi. मूषका: मूषकराजं शृगालस्य विषये स्वशंकाम् अकथयन्।
vii. एकस्मिन् वने एक: श्रृगाल: आसीत्।
viii. मूषकाणां संख्या न्यूना अभवत्।
उत्तराणि :
i. एकस्मिन् वने एक: शृगालः आसीत्।
ii. स: भोजनं प्राप्तुम् इतस्ततः अभ्रमत्।
iii. एकदा सः मूषकान् दृष्ट्वा प्रसन्नः अभवत्।
iv. शृगालः प्रतिदिनम् एकम् मूषकम् अखादत्।
v. अतः स: हृष्ट: पुष्टः अभवत्।
vi. मूषकाणां संख्या न्यूना अभवत्।
vii. मूषका: मूषकराजं शृगालस्य विषये स्वशंकाम् अकथयन्।
viii. मूषकराजः श्रृगालस्य उपरि स्थित्वा स्वतीक्षणदन्तैः तम् अनाशयत्।
(ख) i. शृगालः मूषकवृन्दम् अवलोक्य तं खादितुम् अचिन्तयत्।
ii. मूषका: तमुपरि विश्वासं कृत्वा तं सेवितुं प्रारभन्त।
iii. अन्ते मूषकराजः स्वतीक्ष्णदन्तैः तस्य नाशम् अकरोत्।
iv. एकदा वने एक धूर्तः शृगालः आसीत्।
v. मूषकाणां न्यूनां संख्यां दृष्ट्वा मूषकराजः अचिन्तयत्।
vi. स: द्वयो: पादयो: स्थित्वा सूर्यपूजां कर्तुम् आरभत्।
vii. स: धूर्तः प्रतिदिन एकान्ते एकं मूषकम् अखादत्।
viii. स: बुभुक्षितः भोजनार्थम् वने अभ्रमत्।
उत्तराणि
i. एकदा वने एक धूर्तः शृगालः आसीत्।
ii. स: बुभुक्षितः भोजनार्थम् वने अभ्रमत्।
iii. श्रृगालः मूषकवृन्दम् अवलोक्य तं खादितुम् अचिन्तयत्।
iv. स: द्वयो: पादयोः स्थित्वा सूर्यपूजां कर्तुम् आरभत्।
v. मूषकाः तमुपरि विश्वासं कृत्वा तं सेवितुं प्रारभन्त।
vi. स: धूर्तः प्रतिदिन एकान्ते एकं मूषकम् अखादत्।
vii. मूषकाणां न्यूनां संख्यां दृष्ट्वा मूषकराजः अचिन्तयत्।
viii. मूषकराजः शृगालस्य उपरि स्थित्वा स्वतीक्षणदन्तैः तम् अनाशयत्।
(ग) i. तस्मिन् वने मूषकराजस्य नेतृत्वे अनेके मूषकाः अवसन्।
ii. स: सूर्यपूजनस्य पाखण्डम् अकरोत्।
iii. मूषका: मूषकराजेन सह मिलित्वा तस्य नाशम् अकरोत्।
iv. एकदा एक: बुभुक्षितः शृगालः वने अभ्रमत्।
v. श्रृगालः दृष्ट्वा मूषकान् खादितुम् ऐच्छत्।
vi. सः समयं प्राप्य प्रतिदिनम् एकं मूषकं अधिगृह्य खादति स्म।
vii. मूषकाः तस्य सेवां करणाय तत्र आगच्छन्ति स्म।
viii. स: अतीव बुभुक्षितः आसीत्।
उत्तराणि :
i. एकदा एक: बुभुक्षितः शृगालः वने अभ्रमत्।
ii. स: अतीव बुभुक्षित: आसीत्।
iii. तस्मिन् वने मूषकराजस्य नेतृत्वे अनेके मूषकाः अवसन्।
iv. शृगालः दृष्ट्वा मूषकान् खादितुम् ऐच्छत्।
v. सः सूर्यपूजनस्य पाखण्डम् अकरोत्।
vi. मूषका: तस्य सेवां करणाय तत्र आगच्छन्ति स्मा।
vii. सः समयं प्राप्य प्रतिदिनम् एकं मूषकं अधिगृह्य खादति स्म।
viii. मूषका: मूषकराजेन सह मिलित्वा तस्य नाशम् अकरोत्।
5. निम्नलिखितानाम् शब्दानाम् उचितान् विपर्ययान् चित्त्वा लिखत-
शब्दा: | विपर्यया: |
(क) एकदा | दूरम् |
(ख) राजा | सायम् |
(ग) हृष्ट: पुष्ट: | अनिच्छन् |
(घ) समीपम् | अन्तः |
(ङ) इच्छन् | प्रजा |
(च) बहि: | बद्धेन |
(छ) उद्घाटितेन | कदाचित् |
(ज) प्रातः | दुर्बल: |
(झ) अध: | चरित्रवान्/शुद्ध: |
(ञ) पृथ्वी | अध:/नीचै: |
(ट) पुण्यम् | बहुसंख्य: |
(ठ) सेवाम् | आश्वस्ता: |
(ड) धूर्तः | असावधानः |
(ढ) शंकाशीला: | अविश्वसेत् |
(ण) न्यूना | आकाश: |
(त) उपरि | अपमानम् |
(थ) एकाकी | जन्म |
(द) सावधान: | उपरि |
(ध) नाशम् | अधिका |
(न) विश्वसेत् | पापम् |
उत्तराणि :
शब्दा: | विपर्यया: |
(क) एकदा | कदाचित् |
(ख) राजा | प्रजा |
(ग) हृष्ट: पुष्ट: | दुर्बल: |
(घ) समीपम् | दूरम् |
(ङ) इच्छन् | अनिच्छन् |
(च) बहि: | अन्तः |
(छ) उद्घाटितेन | बद्धेन |
(ज) प्रातः | सायम् |
(झ) अध: | उपरि |
(ञ) पृथ्वी | आकाश: |
(ट) पुण्यम् | पापम् |
(ठ) सेवाम् | अपमानम् |
(ड) धूर्तः | चरित्रवान्/शुद्धः |
(ढ) शंकाशीला: | आश्वस्ता: |
(ण) न्यूना | अधिका |
(त) उपरि | अध:/नीचै: |
(थ) एकाकी | बहुसंख्यक: |
(द) सावधान: | असावधान: |
(ध) नाशम् | जन्म |
(न) विश्वसेत् | अविश्वसेत् |