DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

Through DAV Sanskrit Book Class 8 Solutions Pdf अपठित गद्यांशाः, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Solutions अपठित गद्यांशाः

घ्रूल अधिखितान् गद्यांशान् पठित्वा गद्यांशाधारितानां प्रश्नानाम् उत्तराणि लिखन्तु-

I. एक: कर्तव्यपरायणः नगररक्षक: आसीत् यदा स: इतस्ततः अभ्रमत् तदा एकम् वृद्धम् महापुरुषम् अपश्यत्। स: वृद्ध: आम्रवृक्षस्य आरोपणे संलगनः आसीत्? इदं दृष्ट्वा सः नगररक्षकः तं वृद्धम् अकथयत्-भवान् किमर्थम् वृथा परिश्रमं करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। वृद्धः अवदत्-भवान् पश्यतु एतान् वृक्षान्। एतेषाम् आरोपणं मया न कृतम् परम् अहं फलानि खादामि। एवमेव मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति। तदा रक्षक: अचिन्तयत्-‘अहम् अपि वृक्षान् आरोपयिष्यामि।’

1. एकपदेन उत्तरत-

i. कः अचिन्तयत् यत् सः अपि वृक्षान् आरोपयिष्यति? ____________
ii. नगररक्षक: कीदृशः आसीत्? ____________
उत्तराणि :
i. नगररक्षक:
ii. कर्तव्यपरायण:

2. पूर्णवाक्येन उत्तरत-

i. नगरक्षक: वृद्ध किम् अकथयत्? ____________
ii. वृद्धः कस्मिन् कार्ये संलग्नः आसीत्? ____________
उत्तराणि :
i. नगररक्षक: वृद्धम् अकथयत्-भवान् किमर्थम् वृथा परिश्रमं करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति।
ii. वृद्ध: आम्रवृक्षस्य आरोपणे संलग्नः आसीत्।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘अवलोक्य’ इति पदस्य पर्यायपदं गद्यांशात् चित्वा लिखन्तु-
(क) अचिन्तयत्
(ख) दृष्ट्वा
(ग) संलग्न:
(घ) अकथयत्
उत्तरम् :
(ख) दृष्ट्वा

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न ii.
‘यदा एषः वृक्षः फलिष्यति’ अस्मिन् वाक्ये अव्ययपदं किम्?
(क) एषः
(ख) वृक्षः
(ग) फलिष्यति
(घ) यदा
उत्तरम् :
(घ) यदा

प्रश्न iii.
‘महापुरुषम्’ इति पदस्य विशेषणपद् किम्?
(क) अपश्यत्
(ख) नगररक्षक:
(ग) वृद्धम्
(घ) स:
उत्तरम् :
(ग) वृद्धम्

प्रश्न iv.
‘वृद्धः’ इति कर्तृपदस्य क्रियापद किम्?
(क) अवदत्
(ख) भविष्यति
(ग) फलिष्यति
(घ) अपश्यत्
उत्तरम् :
(क) अवदत्

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

4. अस्य अनुच्छेस्य कृते उचित शीर्षकं लिखत-
उत्तराणि :
कर्तव्यस्य प्रधानता।

II गड्गा भारतस्य प्रमुखा नदी अस्ति। गड्गा हिमालयात् निस्सरति। मूलरूपेण अस्याः स्रोतः लघुः अस्ति परं पश्चात् अनेके निर्झराः आगत्य गङुगयां मिलन्ति तदा अस्या: स्नोतः दीर्घः भवति। भारतीयजनाः गड्गां मातेव पूजयन्ति। गङ्गाजलस्य प्रयोग: अनेकेषु कृषिक्षेत्रेषु धार्मिककार्येषु च भवति। एतस्याः जलम् ‘पवित्रम्’ इति एतत् जनानां विश्वासः अस्ति। किन्तु अद्यत्वे जना: गड्गां दूषितां कुर्वन्ति। एतत् तु न करणीयम्। भारतीयः सर्वकारः अपि एतां निर्मलीकर्तुम् अभियानं चालयति। प्रधानमन्त्री श्री नरेन्द्र: मोदी अपि एतस्य कृते जनानाम् आह्वानम् अकरोत्। अस्माकं कर्त्तव्यम् अस्ति यत् वयम् अपि गङ्गायाः स्वच्छतायै प्रयत्नं कुर्मः जनान् च प्रेरयामः।

1. एकपदेन उत्तरत-

i. अस्माकं प्रमुखा नदी का अस्ति? ____________
ii. गङ्गा कुतः निस्सरति? ____________
उत्तराणि :
i. गंगा
ii. हिमालयात्

2. पूर्णवाक्येन उत्तरत-

i. गङ्गाया: जलस्य प्रयोग: कुत्र भवति? ____________
ii. जनानां क: विश्वास: अस्ति? ____________
उत्तराणि :
i. गङ्गाया: जलस्य प्रयोगः अनेकेषु कृषिक्षेत्रेषु धार्मिककार्येषु च भवति।
ii. गड्ग्गाया: जलं ‘पवित्रम्’ इति जनानां विश्वास: अस्ति।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘पूजयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) नदी
(ख) भारतीयजनाः
(ग) गड्गां
(घ) मातेव
उत्तरम् :
(ख) भारतीयजनाः

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न ii.
‘तदा अस्याः स्रोतः दीर्घः भवति’ अस्मिन् वाक्ये अव्ययपद किम्?
(क) तदा
(ख) अस्या:
(ग) स्रोत:
(घ) दीर्घ:
उत्तरम् :
(क) तदा

प्रश्न iii.
‘लघुः’ इति पदस्य विलोमपदं किम्?
(क) निईरा:
(ख) स्रोत:
(ग) दीर्घ:
(घ) तदा
उत्तरम् :
(ग) दीर्घ:

प्रश्न iv.
‘प्रमुखा’ इति पदस्य विशेष्यपदं किम्?
(क) अवदत्
(ख) भविष्यति
(ग) फलिष्यति
(घ) अपश्यत्
उत्तरम् :
(ग) नदी

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

4. गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तराणि :
भारतस्य प्रमुखा नदी गड्ग्रा।

III सायंकालः भवति। सूर्यः तु अस्तम् गच्छति। खगाः स्वनीडानि गच्छन्ति। कमलानि म्लानानि भवन्ति कुमुदानि च विकसन्ति। सर्वें जनाः स्वगृहम् आगच्छन्ति। रात्रौ उलूका: इतस्ततः भ्रमन्ति। पथिका: विश्रामाय तिष्ठन्ति। बालका: क्रीडाक्षेत्रात् स्वं गृहम् आगच्छन्ति। गृहम् आगत्य विविधान् आहारान् खादन्ति। रात्रौ सर्वत्र अन्धकारस्य राज्यम् भवति।

1. एकपदेन उत्तरत-

i. कः अस्तं गच्छति? _____________
ii. के स्वनीडानि गच्छन्ति? _____________
iii. कानि म्लानानि भवन्ति? _____________
iv. रात्रौ कस्य राज्यम् भवति? _____________
उत्तराणि :
i. सूर्य:
ii. खगा:
iii. कमलानि
iv. अन्धकारस्य

2. पूर्णवाक्येन उत्तरत-

i. बालकाः कुतः गृहम् आगच्छन्ति? _____________
ii. रात्रौ उलूका: कुत्र श्रमन्ति? _____________
उत्तराणि :
i. बालकाः क्रीडाक्षेत्रात् स्वं गृहम् आगच्छन्ति।
ii. रात्रौ उलूकाः इतस्ततः भ्रमन्ति।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘भ्रमन्ति’ इति क्रियापदस्य कर्तृपदं?
(क) खगा:
(ख) जनः
(ग) बालका:
(घ) उलूका:
उत्तरम् :
(घ) उलूका:

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न ii.
‘ते विविधन् आहारान् खादन्ति’ इति वाक्ये ‘विविधान्’ इति विशेषपदस्य विशेष्यपद किम्?
(क) ते
(ख) खादन्ति
(ग) आहारान्
(घ) आगत्य
उत्तरम् :
(ग) आहारान्

प्रश्न iii.
‘सूर्यः तु अस्तं गच्छति’ अस्मिन् वाक्ये अव्ययपदं किम्?
(क) सूर्य:
(ख) अस्तम्
(ग) तु
(घ) गच्छति
उत्तरम् :
(ग) तु

प्रश्न iv.
‘पथिका:’ इति कर्तृपदस्य क्रियापदं किम्?
(क) तिष्ठन्ति
(ख) गच्छन्ति
(ग) खादन्ति
(घ) विकसन्ति
उत्तरम् :
(क) तिष्ठन्ति

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

4. अस्य गद्यांशस्य उचितं शीर्षकं लिखत –
उत्तराणि :
सायंकालः/सायंकालस्य सौन्द्र्यम्

IV स्वच्छ भारतं प्रायः अधिकांशानां भारतीयानां स्वप्न: अस्ति परं स्वप्नमात्रेण तु स्वच्छता न भविष्यति। वयं सर्वे मिलित्वा अस्यां दिशायां प्रयासं कुर्याम। वयं पश्याम: यत् जनाः मार्गेषु अथवा सार्वजानिकेषु स्थानेषु यत्र कुत्रापि अवकरं क्षिपन्ति, किम् इदम् उचितम् अस्ति? एतत् न करणीयम् यतः सर्वकारः एकाकी एव इदं कार्यं सफलं कर्तुं न शक्नोति। यदि वयम् अपि सहायतां करिष्यामः जागरुकाः च भविष्यामः तदा अयं स्वजः अवश्यमेव पूर्णः भविष्यति।

1. एकपदेन उत्तरत-

i. जनाः मार्गयु किं क्षिपन्ति? _____________
ii. स्वच्छं भारतं केषां स्वप्नः अस्ति? _____________
उत्तराणि :
i. अवकरम्
ii. भारतीयानाम्

2. पूर्णवाक्येन उत्तरत-

i. अयं स्वप्नः कदा पूर्णः भविष्यति? _____________
ii. वयं किं पश्याम:? _____________
उत्तराणि :
i. यदि वयम् अपि स्वच्छतायां सहायतां करिष्यामः जागरुकाः च भविष्यामः तदा अयं स्वप्नः पूर्णः भविष्यति।
ii. वयं पश्यामः यत् जनाः मार्गेषु अथवा सार्वजिकेषु स्थानेषु यत्र कुत्रापि अपकरं क्षिपन्ति।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘स्वच्छ भारतं भारतीयानां स्वप्नः अस्ति’ इति वाक्ये ‘भारतम्’ इति पदस्य विशेषणपदं किम्?
(क) भारतीयानाम्
(ख) स्वप्न:
(ग) अस्ति
(घ) स्वच्छम्
उत्तरम् :
(ख) स्वच्छम्

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न ii.
‘कुर्याम’ इति क्रियापदस्य कर्तृपद किम्?
(क) स्वच्छता
(ख) जना:
(ग) वयम्
(घ) सर्वकार:
उत्तरम् :
(ग) वयम्

प्रश्न iii.
‘एतत् न करणीयम्’ इति वाक्ये अव्ययपदं किम्?
(क) एतत्
(ख) न
(ग) कार्यम्
(घ) करणीयम्
उत्तरम् :
(ख) न

प्रश्न iv.
‘स्वच्छता’ इति कर्तृपदस्य क्रियापदं गद्यांशे किं प्रयुक्तम्?
(क) भविष्यति
(ख) क्षिपन्ति
(ग) अस्ति
(घ) करिष्याम:
उत्तरम् :
(क) भविष्यति

4. अस्य गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तराणि :
“स्वच्छं भारतम्”/ “भारतीयानां स्वप्नः-स्वच्छं भारतम्”।

V एकस्मिन् वने एक: आश्रमः आसीत्। तस्मिन् आश्रमे एक: महातपा नाम मुनिः वसति स्म। तत्र एकः मूषक अपि वसति स्म। एकदा कुक्कुरात् भीतः मूषकः मुनेः समीपम् आगच्छत्। मुनिः तं मूषकं विडालम् अकरोत्। तदा विडालः कुक्कुरात् भीतः अभवत्। मुनिः तं कुक्कुरम् अकरोत्। पुनः कुक्कुरः सिंहात् भीतः अभवत्। मुनेः प्रभावात् सः सिंहः अभवत्। सिंहः भूत्वा स: गर्वितः अभवत्। स: मुनिं मारयितुम् अचिन्तयत्। मुनिः तस्य विचारं ज्ञात्वां तं पुनः मूषकम् अकरोत्।

1. एकपदेन उत्तरत-

i. मुने: नाम किम् असीत्?
ii. कः विडालात् भीतः अभवत्?
उत्तराणि :
i. महात्मा
ii. मूषक:

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

2. पूर्णवाक्येन उत्तरत-

i. मूषक: सिंहः भूत्वा किम् अचिन्तयत्?
ii. मुनि: कुत्र वसति स्म?
उत्तराणि :
i. मूषकः सिंहः भूत्वा मुनिं मारयितुम् अचिन्तयत्
ii. मुनिः एकस्मिन् आश्रमे वसति स्म।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘अचिन्तयत्’ इति क्रियापदस्य कर्तृपद किम्?
(क) मूषक:
(ख) स:
(ग) मुनि:
(घ) विडाल:
उत्तरम् :
(ख) स:

प्रश्न ii.
‘तं पुनः मूषकम् अकरोत्’ अस्मिन् वाक्ये अव्ययपदं किम्?
(क) तं
(ख) मुनि:
(ग) पुन :
(घ) अकरोत्
उत्तरम् :
(ग) पुन:

प्रश्न iii.
‘आश्रम’ इति पदस्य विशेषणपदं किम्?
(क) एक:
(ख) एका
(ग) अनेका:
(घ) एकस्य
उत्तरम् :
(क) एक:

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न iv.
‘विज्ञाय’ इति पदस्य पर्यायपद गद्यांशे किं प्रयुक्तम्?
(क) पुन:
(ख) ज्ञात्वा
(ग) महातपा
(घ) भीत:
उत्तरम् :
(ख) ज्ञात्वा

4. अस्य अनुच्छेदस्य उचितं शीर्षकं लिखतउत्तराणि “पुनःमूषको भव”/ “मुने: तपस: प्रभाव:”

VI अधुना सम्पूर्णों भारतेदेशे प्रदूषणम् एका गभीरा समस्या वर्तते। प्रदूषणस्य त्रयः प्रकाराः सन्ति। जलप्रदूषणं, वायुप्रदूषणं ध्वनिप्रदूषणं च। अद्यत्वे जनाः भौतिकसाधनैः सम्पन्नं जीवनं जीवितुम् इच्छन्ति। एतस्य कृते ते निर्भीका: भूत्वा प्रकृतिं प्रति अत्याचारं कुर्वन्ति। जनाः वृक्षारोपणं तु न कुर्वन्ति परन्तु वृक्षाणां छेदनं अवश्यम् एवं कुर्वन्ति। यन्नालयानां निर्माणं तीव्रगत्या भवति। वाहनानां सड्ख्या अपि प्रतिदिनं वर्धते एव। यस्मात् कारणात् यन्नालयेभ्यः, वाहनेभ्यः निर्गताः विषमिश्रितरसायनपदार्थाः, धूमाः ध्वनयः च सम्पूर्ण वातावरणं प्रदूषित कुर्वन्ति। प्रदूषण-कारणात् बालाः वृद्धा: युवान: युवतयः च रोगग्रस्ताः भूत्वा समयात् पूर्वमेव मृत्युं प्रापुवन्ति वयम् एतस्याः समस्यायाः समाधानं मिलित्वा एव कुर्याम्। अस्माकं मनसि ‘सर्वे भवन्तु सुखिन:’ इति भावना भवेत्।

1. एकपदेन उत्तरत-
i. केषां निर्माणं तीव्रगत्या भवति? _____________
ii. के प्रकृति प्रति अत्याचारं कुर्वन्ति? _____________
उत्तराणि :
i. यन्त्रालयानाम्
ii. जना:

2. पूर्णवाक्येन उत्तरत-
i. जनाः कीदृशं जीवनं जीवितुम् इच्छन्ति? _____________
ii. के वातावरण प्रदूषित कुर्वन्ति? _____________
उत्तराणि :
i. जनाः भौतिक साधनैः सम्पन्नं जीवनं जीवितुम् इच्छन्ति।
ii. यन्त्रालयेभ्यः वाहनेभ्यः निर्गताःविष मिश्रितरसायनपदार्थाः, धूमाः ध्वनयः च सम्पूर्ण वातावरणं प्रदूषित कुर्वन्ति।

3. निर्देशानुसारम् उत्तरत-

प्रश्न i.
‘निर्भीकाः’ इति पदस्य विशेष्यपद किम् अस्ति?
(क) प्रकृति
(ख) सर्वे
(ग) जना:
(घ) भूत्वा
उत्तरम् :
(ग) जना:

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

प्रश्न ii.
‘कुर्याम’ इति क्रियापदस्य कर्तृपदं किम्?
(क) जनाः
(ख) वयम्
(ग) अस्माकं
(घ) समाधानं
उत्तरम् :
(ख) वयम्

प्रश्न iii.
‘जना: वृक्षारोपणं न कुर्वन्ति’ अस्मिन् वाक्ये अव्ययपदं किम्?
(क) न
(ख) जना:
(ग) वृक्षारोपणं
(घ) कुर्वन्ति
उत्तरम् :
(क) न

प्रश्न iv.
‘दुखिन:’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्त?
(क) युवान :
(ख) ध्वनय:
(ग) सुखिन:
(घ) निर्भीका:
उत्तरम् :
(ग) सुखिन:

DAV Class 8 Sanskrit Book Solutions अपठित गद्यांशाः

4. अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत-
उत्तराणि :
“भारतदेशेप्रदूषणं एका गम्भीरा समस्या”। / “प्रदूषणस्य दुष्प्रभाव:”।