Through DAV Class 7 Sanskrit Book Solutions Chapter 1 बुद्धिः एव अस्माकं बलम्, students can easily access answers to the questions presented in the textbook.
DAV Class 7 Sanskrit Chapter 1 Solutions – बुद्धिः एव अस्माकं बलम्
Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 1 बुद्धिः एव अस्माकं बलम्
1. पाठं पाठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-
i. सिंह: वनस्य राजा आसीत्। – _____
ii. पशवः सिहात् भीताः न आसन्। – _______
iii. सिंह: पशून् मारयति स्म। – ________
iv. सिह: बुभुक्षितः न आसीत्। – ______
v. गुहायाः स्वामी एक: शृगाल: आसीत्। – _______
vi. शृगाल: मार्ग सिहस्य चरण-चिह्नम् न अपश्यत्। – ______
उत्तराणि :
i. सिंह: वनस्य राजा आसीत्। – आम्
ii. पशवः सिहात् भीताः न आसन्। – नहि
iii. सिंह: पशून् मारयति स्म। – आम्
iv. सिह: बुभुक्षितः न आसीत्। – नहि
v. गुहायाः स्वामी एक: शृगाल: आसीत्। – आम्
vi. शृगाल: मार्ग सिहस्य चरण-चिह्नम् न अपश्यत्। – नहि
2. उचितपदेन रिक्तस्थान पूरयन्तु-
i. ________ पशून् मारयति। (सिंहः/ शृगाल:)
ii. _______ बलवान् आसीत्। (शृगाल :/सिंह:)
iii. ________ भीताः आसन्।(पशवः/ शृगाल:)
iv. _______ बुभुक्षितः आसीत्। (सिंह :/ शृगाल:)
v. ______ बुद्धिमान् आसीत्। (सिंह :/ शृगाल:)
उत्तराणि :
i. सिंहः
ii. सिंह:
iii. पशवः
iv. सिंह:
v. शृगालः।
3. विशेषणं विशेष्येण सह योजयन्तु-
विशेषणानि | विशेष्या: |
i. भीता: | सिंह: |
ii. बुद्धिमान् | गुहाम् |
iii. बलवान् | पशवः |
iv. न्यूनतरा | संख्या |
v. एकाम् | श्रृगाल: |
उत्तराणि :
विशेषणानि | विशेष्या: |
i. भीता: | पशव: |
ii. बुद्धिमान् | शृगालः |
iii. बलवान् | सिंह: |
iv. न्यूनतरा | संख्या |
v. एकाम् | गुहाम् |
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. क: वनस्य राजा आसीत्? ___________
ii. पशवः कस्मात् भीताः आसन्? ___________
iii. सिह: कान् मारयति स्म? ___________
iv. पशवः कुत्र वसन्ति स्म? ___________
v. क: बुभुक्षितः आसीत्? ___________
उत्तराणि :
i. क: वनस्य राजा आसीत्? – सिंह:
ii. पशवः कस्मात् भीताः आसन्? – सिंहात्
iii. सिहः कान् मारयति स्म? – पशून्
iv. पशवः कुत्र वसन्ति स्म? – गुहासु
v. क: बुभुक्षितः आसीत्? – सिंह:
5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
i. केषाम् सड्ख्या न्यूनतरा अभवत्?
ii. शृगाल: मार्ग किम् अपश्यत्?
iii. गुहाया: समीपं गत्वा शृगालः किम् अवदत्?
iv. सत्यं ज्ञात्वा शृगाल: किम् अकरोत्?
v. क: पश्चात्तापम् अकरोत?
उत्तराणि :
i. पशूनाम् सङ्ख्या न्यूनतरा अभवत्।
ii. शृगाल: मार्ग सिंहस्य चरण-चिह्नानि अपश्यत्।
iii. गुहायाः समीपं गत्वा शृगालः अवदत्-‘अयि गुहे! अहम् आगच्छम्, प्रतिदिनम् इव कथय-सर्वत्र कुशलम् अस्ति न वा?
iv. सत्यं ज्ञात्वा शृगालः तत्क्षणम् एव अधावत्।
v. सिंह: पश्चात्तापम् अकरोत।
6. स्थूलपदस्य स्थाने समुचितं प्रश्नवाचकपदं चित्वा प्रश्ननिर्माणं कुर्वन्तु-
i. सिंहः बलवान् आसीत्। ___________ (कौ/क:/के)
ii. पशवः सिंहात् भीताः आसन्। ___________ (कस्या:कस्मात्केण्य:)
iii. पशवः गुहासु वसन्ति स्म। ___________ (के/का:क:)
iv. सिंहः गुहाया: समीपम् आगच्छत्। ___________ (क:/का/के)
v. पशूनाम् संख्या न्यूनतरा अभवत् ___________ (केषाम्कस्य/कासाम्)
vi. शृगाल: उच्चै: अवद्त्। ___________ (का/कः के)
उत्तराणि :
i. क: बलवान् आसीत्?
ii. पशव: कस्मात् भीताः आसन्
iii. के गुहासु वसन्ति स्म?
iv. क: गुहायाः समीपम् आगच्छत्?
v. केषाम् संख्या न्यूनतरा अभवत्?
vi. क: उच्चै: अवदत्।
7. अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-
i. सिंहः वनस्य राजा आसीत्। – _________________
ii. भीताः पशवः गुहासु वसन्ति स्म। – _________________
iii. एकदा सिंहः बुभुक्षितः आसीत्। – _________________
iv. सिंहः पशून् मारयति स्म। – _________________
v. सः गुह्रायाः समीपम् आगच्छत्। – _________________
उत्तराणि :
i. सिंहः वनस्य राजा आसीत्। – सिंहः वनस्य राजा आसीत्।
ii. भीताः पशवः गुहासु वसन्ति स्म। – सिंह: पशून् मारयति स्म।
iii. एकदा सिंहः बुभुक्षितः आसीत्। – भीताः पशवः गुहासु वसन्ति स्म।
iv. सिंहः पशून् मारयति स्म। – एकदा सिंहः बुभुक्षितः आसीत्।
v. सः गुह्रायाः समीपम् आगच्छत्। – स: गुहायाः समीपम् आगच्छत्।
मूल्यात्मक: प्रश्न:-
भवन्तः पाठे अपठन् यत् एकः भृगालः सिंहात् स्वप्राणान् अरक्षत्। वदन्तु सः कथम् स्वप्राणान् अरक्षत्-बलस्य प्रयोगं कृत्वा, बुद्धेः प्रयोगं कृत्वा अथवा मित्राणाम् सहायतया।
उत्तराणि :
शृगालः बुद्धेः प्रयोगं कृत्वा सिंहात् स्वप्राणाम् अरक्षत्। यत् सिंहस्य अपेक्षा सः बलशाली नासीत्। अतः बलप्रयोगे समर्थः न आसीत्।
गतिविधि:-
‘बुद्धिः एव उत्तमा’ इति विषयम् अधिकृत्य पुस्तिकायाम् एकाम् अन्यां कथां लिखन्तु।
उत्तराणि :
एकदा वने एक: निर्दयः सिंहः भासुरकः आसीत्। स: प्रतिदिनं वनस्य पशून् अमारयत्। सर्वे पशवः भयभीता: भूत्वा तस्य समीपं गत्वा अवदन्- वनराज! वयं प्रतिदिनं भवतः भोजनाय एकं पशुं प्रेषयिष्यामः। भवान् सर्वान् पशून् मा मारयतु।”
इद श्रुत्वा भासुरकः स्वीकृतवान्। ततः तस्मै एक: पशुः प्रतिदिनम् आगच्छत्। एकदा एकस्य शशकस्य वारम् आसीत्। स: चिरम् अगच्छत्। तं दृष्ट्वा क्रोधितः सिंहः तं विलम्बस्य कारणम् अपृच्छत्। सः अवदत्-” मार्ग एक: अन्यः सिंहः अस्ति सः मां खादितुम् एच्छत्। अतः कथज्चित् अहम् अत्र आगच्छम्।” इदं श्रुत्वा भासुरक: क्रोधेन अगर्जत्। स: अवदत् मां तं चौर सिंहं दर्शय।
सः शशक: भासुरकं सिंहम् एकस्मिन् कूपे अनयत्। यदा सः कूपे अपश्यत् तदा स्वं-प्रतिबिम्बम् एव अन्यं सिंहं मत्वा कूपे तं हन्तुम् अकूर्दत् अनश्यत् च।
अतः कथितम् अस्ति-“बुद्धिः एव बलाद् उत्तमा।”
व्याकरणम् :
1. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयन्तु-
उत्तराणि :
2. अधोलिखित-वाक्यानि उचितधातुरूपै: पूरयन्तु-
i. सिंह: _____ गर्जति _____ (गर्जति/गर्जन्ति)
ii. वयम् _______ (लिखथ/लिखाम:)
iii. तौ कौ _______ (अस्ति/स्तः)
iv. लते ________ (नमतः/नमथ)
v. छात्रौ ________ (लिखति/लिखतः)
vi. युवाम् _________ (पश्यथः/पश्यावः)
उत्तराणि :
i. गर्जति
ii. लिखामः
iii. स्तः
iv. नमतः
v. लिखतः
vi. पश्यथः
3. उदाहरणानुसारं वाक्यानि पूरयन्तु-
उत्तराणि :
लट्लकार: | लड्लकारः |
i. स: पुस्तकं पठति। | स: पुस्तकम् अपठत्। |
ii. त्वम् गच्छसि। | त्वम् अगच्छः। |
iii. अहं चलामि। | अहम् अचलम्। |
iv. ते बालिके गच्छतः। | ते बालिके अगच्छताम्। |
v. यूयं नमथ। | यूयम् अनमत। |
4. निम्नलिखितानि वाक्यानि लड्लकारे परिवर्तयन्तु-
उत्तराणि :
लट्लकारे (वर्तमानकाले) | लड्लकारे (भूतकाले) |
i. तौ पठतः। | तौ अपठताम्। |
ii. ते चलन्ति। | ते अचलन्। |
iii. ता: लिखन्ति। | ताः अलिखन्। |
iv. सा गच्छति। | सा अगच्छत्। |
v. त्वं नमसि। | त्वम् अनमः। |
vi. अहं भ्रमामि। | अहम् अभ्रमम्। |
vii. युवां नमथः। | युवाम् अनमतम्। |
viii. आवां धावामः। | आवाम् अधावाव। |
ix. यूयम् वदथ। | यूयम् अवदत्। |
x. वयं चलामः। | वयम् अचलाम्। |
5. निम्नलिखितानि वाक्यानि ‘स्म’ इति अव्ययपदस्य प्रयोगेण भूतकाले परिवर्तयन्तु-
उत्तराणि :
लट्लकारे | भूतकाले |
i. सिंह: गर्जति। | सिंह: गर्जति स्म। |
ii. शुकौ वदतः। | शुकौ वदतः स्म। |
iii. त्वम् धावसि। | त्वम् धावसि स्म। |
iv. आवाम् चलावः। | आवाम् चलावः स्म। |
v. यूयं गच्छथ। | यूयम् गच्छथ स्म। |
vi. वयं नमामः। | वयम् नमाम: स्म। |
6. निम्नलिखितानि वाक्यानि लृट्लकारे परिवर्तयन्तु-
i. त्वं खेलसि। – _________________
ii. गजाः चलन्ति। – _________________
iii. युवां पठथः। – _________________
iv. ताः नमन्ति। – _________________
v. छात्रौ पठतः। – _________________
vi. त्वं लिखति। – _________________
उत्तराणि :
i. त्वं खेलसि। – त्वं खेलिष्यसि।
ii. गजाः चलन्ति। – गजाः चलिष्यन्ति।
iii. युवां पठथः। – युवां पठिष्यथः।
iv. ताः नमन्ति। – ताः नंस्यन्ति।
v. छात्रौ पठतः। – छात्रौ पठिष्यतः।
vi. त्वं लिखति। – त्वं लिखिष्यसि।
कश्चित् बलवान् सिंहः : आसीत्। सः वनस्य राजा आसीत्। सर्वे पशव: सिंहात् भीताः आसन्। सिंहः प्रतिदिनं पशून् मारयति स्म। पशूनाम् संख्या न्यूनतरा अभवत्, सिंहात् भीताः पशवः गुहासु वसन्ति स्म। एकदा सिंहः बुभुक्षितः आसीत्। इतस्ततः भ्रमन् स: एकां गुहाम् अपश्यत्। सः अचिन्तयत् – अत्र अवश्यम् एव पशुः भविष्यति। अहं तम् खादित्वा तृप्तः भविष्यामि। एवम् एषा गुहा अपि मम भविष्यति। पर गुहायाः स्वामी एक: शृगाल: आसीत्। स: अतीव बुद्धिमान् आसीत्। सायड्काले यदा स: गुहां प्रति आगचत् तदा मार्ग स: सिंहस्य चरण-चिह्नानि अपश्यत् शृगालः अचिन्तयत्-सिंहः तु अवश्यम् एव गुहायाः अभ्यन्तरं भवेत्।
तदा किं करणीयम्? इति विचार्य स: एकम् उपायम् अचिन्तयत्। गुहायाः समीप गत्वा स: शृगालः उच्चैः अववत्-अयि गुहे! अहम् आगच्छम्, प्रतिदिनम् इव कथय-सर्वत्र कुशलम् अस्ति न वा? सिंहः अचिन्तयत्-यदि अहम् उत्तरं न दास्यामि तदा तु शृगालः गमिष्यति। अतः सः अकथयत्-आगच्छ। अत्र सर्वम् कुशलम् अस्ति। भृगालः सत्यं ज्ञात्वा तत्क्षणम् एव अधावत्। किज्चित् कालं प्रतीक्षां कृत्वा सिंहः गुहायाः बहि: आगच्छत् तदा इतस्ततः पश्यन् सिंहः पश्चात्तापं कृत्वा बुभुक्षितः एव अतिष्ठत्। उचितम् एव कथितम्-सर्वाणि कार्याणि बुद्ध्या एव सिध्यन्ति। अतः बुद्धि: एव अस्माकम् बलम् अस्ति।
हिंदी अनुवाद – कोई बलशाली (बलवान्) सिंह (शेर) था। वह वन (जंगल) का राजा था। सभी पशु (जानवर) शेर से डरते थे। शेर हर रोज (प्रतिदिन) पशुओं को मार डालता था। पशुओं की संख्या कम हो रही थी। शेर से डरे हुए पशु गुफाओं में रहते थे। एक बार शेर भूखा था (एक बार शेर को भूख लगी)। इधर-उधर घूमते हुए उसने एक गुफा देखी। वह सोचने लगा (उसने सोचा)-‘ यहाँ निश्चित ही पशु होगा। मैं उसे खाकर संतुष्ट होऊँगा (हो जाऊँगा)। इस तरह यह गुफा भी मेरी हो जाएगी।’ परंतु गुफा का मालिक (स्वामी) एक गीदड़ था। वह बहुत बुद्धिमान था। शाम को जब वह गुफ़ा की ओर आया तब रास्ते में उसने शेर के पैरों के निशान देखे।
गीदड़ ने सोचा-‘ शेर तो अवश्य ही (इस) गुफा के अंदर होगा। तो क्या करना चाहिए?’ ऐसा विचार करके (सोचकर) उसने एक उपाय सोचा। गुफा के पास जाकर वह गीदड़ जोर से बोला-” “अरी गुफा! मैं आया हूँ, हर रोज़ (प्रतिदिन) की तरह बोल-सब जगह कुशल (ठीक-ठीक) है अथवा नहीं?” शेर ने सोचा अगर मैं उत्तर नहीं दूँगा तब तो गीदड़ चला जाएगा। इसलिए उसने कहा-” आओ। यहाँ सब कुशल (ठीक) है।” गीदड़ सच जानकर उसी समय वहाँ से भाग गया। कुछ समय तक इंतज़ार करके शेर गुफा के बाहर आया। तब इधर-उधर देखता हुआ शेर पश्चात्ताप (पछतावा) करके भूखा ही रहा। ठीक (उचित) ही कहा गया है-” ‘सारे काम बुद्धि से ही सिद्ध होते हैं। इसलिए बुद्धि ही हमारा बल है।”
शब्दार्था: – अस्माकम्-हमारा। भीता:-डरे हुए। पशून्-पशुओं को। न्यूनतरा-काफी कम। गुहासु-गुफाओं में। वसन्ति स्म-रहते थे। इतस्ततः-इधर-उधर। गुहाया:-गुफा का। गुहां प्रति-गुफा की ओर। चरण-चिह्नानि-पैरों के निशान। अभ्यन्तरम्-अन्दर। उच्चै:-जोर से। सर्वत्र-सब जगह (सब ओर)। किज्चित्-कुछ।
DAV Class 7 Sanskrit Ch 1 Solutions – बुद्धिः एव अस्माकं बलम्
1. निम्न अनुच्छेद पठित्वा तदनुसारं प्रश्नानाम् उत्तरं लिखत-
(क) कश्चित् बलवान् सिंहः आसीत्। सः वनस्य राजा आसीत्। सर्वे पशवः सिंहात् भीताः आसन्। सिंहः प्रतिदिन पशून् मारयति स्म। पशूनाम् संख्या न्यूनतरा अभवत्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
क: बलवान् आसीत्?
(क) सिंह:
(ख) पशु:
(ग) एक:
(घ) मृग:
उत्तरम् :
(क) सिह:
प्रश्न ii.
सर्व पशवः कस्मात् भीताः आसन्?
(क) मृगात्
(ख) जीवात्
(ग) सिंहात्
(घ) वनात्
उत्तरम् :
(ग) सिहात्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
i. सिंह: प्रतिदिन कान् मारयति स्म?
ii. क: वनस्य राजा आसीत्?
उत्तरम् :
i. सिंह: प्रतिदिनं पशून् मारयति स्म।
ii. सिंह: वनस्य राजा आसीत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘स: वनस्य राजा आसीत्।’-अस्मिन् वाक्ये क्रियापदं किम् अस्ति?
(क) स:
(ख) राजा
(ग) वनस्य
(घ) आसीत्
उत्तरम् :
(घ) आसीत्
प्रश्न ii.
‘बलवान् सिंह:’-अत्र विशेषणं किम्?
(क) सिंह :
(ख) बलवान्
(ग) बली
(घ) सिहम्
उत्तरम् :
(ख) बलवान्
(ख) सिंहात् भीताः पशवः गुहासु वसन्ति स्म। एकवा सिंहः बुभुक्षितः आसीत। इतस्ततः भ्रमन् सः एकां गुहाम् अपश्यत्। स: अचिन्तयत्-अत्र अवश्यम् एव पशुः भविष्यति। अहं तम् खादित्वा तृप्तः भविष्यामि। एवम् एषा गुहा अपि मम भविष्यति।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
इतस्ततः भ्रमन् सिंहः किम् अपश्यत् ?
(क) गुहाम्
(ख) पशुम्
(ग) मृग्
(घ) जीवम्
उत्तरम् :
(क) गुहाम्
प्रश्न ii.
पशुं खादित्वा क: तृप्तः भविष्यति?
(क) मृगः
(ख) जीवः
(ग) सिहः
(घ) गुहा
उत्तरम् :
(ग) सिह:
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
सिंहः गुहां दृष्ट्वा किम् अचिन्तयत् ?
उत्तरम् :
सिंहः गुहां दृष्ट्वा अचिन्तयत्- “अत्र अवश्यम् एव पशुः भविष्यति। अहं तम् खादित्वा तृप्तः भविष्यामि। एवम् एषा गुहा अपि मम भविष्यति।”
III. भाषिक कार्यम्-
प्रश्न i.
‘एकां गुहाम्’ अनयो: पदयो: विशेषणपदं किम अस्ति?
(क) गुहा
(ख) गुहाम्
(ग) एकाम्
(घ) एका
उत्तरम् :
(ग) एकाम्
प्रश्न ii.
‘भविष्यामि’ इति क्रियायाः कर्तृपदं (कता) किम् अस्ति?
(क) त्वम्
(ख) स:
(ग) तम्
(घ) अहम्
उत्तरम् :
(घ) अहम्
(ग) परं गुहायाः स्वामी एक: शृगालः आसीत्। सः अतीव बुद्धिमान् आसीत्। सायड्काले यदा सः गुहां प्रति आगच्छत् तदा मार्गें स: सिंहस्य चरण-चिह्नानि अपश्यत्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
शृगालः कीदृशः आसीत्?
(क) मूखः
(ख) विद्वान्
(ग) बुद्धिमान्
(घ) निर्भय:
उत्तरम् :
(ग) बुद्धिमान्
प्रश्न ii.
शृगालः कुत्र सिंहस्य चरण-चिह्नानि अपश्यत्?
(क) वने
(ख) मार्ग
(ग) गृहे
(घ) गुहायाम्
उत्तरम् :
(ख) मार्ग
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
i. गुहाया: स्वामी क: आसीत्?
ii. शृगाल: कदा गुहां प्रति आगच्छत्?
उत्तरम् :
i. गुहायाः स्वामी एक: शृगालः आसीत्।
ii. शृगाल: सायङ्काले गुहां प्रति आगच्छत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘स: गुहां प्रति’-अत्र ‘स:’ पद कस्मै आगच्छत्?
(क) शृगालाय
(ख) सिंहाय
(ग) वनाय
(घ) चरण-चिह्नाय
उत्तरम् :
(क) शृगालाय
प्रश्न ii.
अनुच्छेदे ‘बुद्धिमान्’ विशेषणस्य विशेष्य: क: लिखितः?
(क) स:
(ख) सिंह:
(ग) शृगाल:
(घ) मार्ग:
उत्तरम् :
(ग) शृगाल:
(घ) शृगालः अचिन्तयत्-सिंहः तु अवश्यम् एव गुहायाः अभ्यन्तरं भवेत्। तदा कि करणीयम्? इति विचार्य स: एकम् उपायम् अचिन्तयत्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
क: गुहाया: अभ्यन्तरं आसीत्?
(क) शृगाल:
(ख) सिंह:
(ग) जीव:
(घ) स्वामी
उत्तरम् :
(ख) सिंह:
प्रश्न ii.
स: शृगाल: अन्ते किम् अचिन्तयत्?
(क) एकम्
(ख) कल्पनाम्
(ग) कथाम्
(घ) उपायम्
उत्तरम् :
(घ) उपायम्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
शृगालः किम् अचिन्तयत् ?
उत्तरम् :
शृगालः अचिन्तयत्- “सिंहः तु अवश्यमेव गुहायाः अभ्यन्तरं भवेत्। तदा कि करणीयम्?” इति विचार्य स: एकम् उपायम् अचिन्तयत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘एकम् उपायम्’ अनयो: पदयो: विशेष्यपद् किम् अस्ति?
(क) एकम्
(ख) उपाय:
(ग) उपायम्
(घ) एक:
उत्तरम् :
(ग) उपायम्
प्रश्न ii.
‘शृगालः अचिन्तयत्’ अत्र क्रियापदं किम्?
(क) अचिन्तयत्
(ख) शृगाल:
(ग) शृगाल
(घ) चिन्त्
उत्तरम् :
(क) अचित्तयत्
(ङ) गुहायाः समीपं गत्वा स: श्रृगाल: उच्चैः अवदत्-अयि गुहे! अहम् आगच्छम् प्रतिदिनम् इव कथय-सर्वत्र कुशलम् अस्ति न वा?
प्रश्नाः
I. एकपदेन उत्तरत-
प्रश्न i.
क: उच्चै: अवदत्?
(क) शृगाल:
(ख) स:
(ग) सिह :
(घ) गुहा
उत्तरम् :
(क) शृगाल:
प्रश्न ii.
क: अवदत्?-‘अहम् आगच्छम्’।
(क) सिंह :
(ख) गुहा
(ग) शृगाल:
(घ) जीव:
उत्तरम् :
(ग) शृगाल:
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
i. कुत्र गत्वा स: शृगालः उच्चैः अवदत्?
ii. स: शृगालः उच्चैः किम् अवदत्?
उत्तरम् :
i. गुहायाः समीपं गत्वा स: शृगालः उच्चै: अवदत्।
ii. स: शृगालः उच्चैः अवदत्-” अयि गुहे! अहम् आगच्छम् प्रतिदिनम् इव कथय-सर्वत्र कुशलम् अस्ति न वा?”
III. भाषिक कार्यम्-
प्रश्न i.
अनुच्छेदे ‘दूरम्’ पदस्य किं विपरीत पदं (विपर्ययं) लिखितम्?
(क) समीपम्
(ख) निकटम्
(ग) प्रतिदिनम्
(घ) कुशलम्
उत्तरम् :
(क) समीपम्
प्रश्न ii.
‘स:’ शृगाल: उच्चै: अवदत्।’-अत्र वाक्ये क्रियापद किम्?
(क) उच्चै:
(ख) अवदत्
(ग) स:
(घ) शृगाल:
उत्तरम् :
(ख) अवदत्
(च) सिंहः अचिन्तयत्-यदि अहम् उत्तरं न दास्यामि तदा तु शृगालः गमिष्यति। अतः सः अकथयत्-आगच्छ। अत्र सर्वम् कुशलम् अस्ति।
प्रश्नाः
I. एकपदेन उत्तरत-
प्रश्न i.
क: अचिन्तयत्?
(क) शृगाल:
(ख) सिंह :
(ग) गुहा
(घ) जीव:
उत्तरम् :
(ख) सिंह:
प्रश्न ii.
अत्र सर्व किम् अस्ति?
(क) कृपा
(ख) अकुशलम्
(ग) शान्ति:
(घ) कुशलम्
उत्तरम् :
(घ) कुशलम्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
सिंहः किम् अचिन्तयत्?
उत्तरम् :
सिह: अचिन्तयत्- “यदि अहम् उत्तरं न दास्यामि तदा तु शृगालः गमिष्यति।”
III. भाषिक कार्यम्-
प्रश्न i.
‘यदि अहम् उत्तरं न दास्यामि।’-अस्मिन् वाक्ये क्रियापदं किम्?
(क) दास्यामि
(ख) उत्तरम्
(ग) अहम्
(घ) यदि
उत्तरम् :
(क) दास्यामि
प्रश्न ii.
‘अहम्’ पदस्य बहुवचने किं भवति?
(क) आवाम्
(ख) वयम्
(ग) युवाप्
(घ) यूयम्
उत्तरम् :
(ख) वयम्
(छ) शृगाल: सत्यं ज्ञात्वा तत्क्षणम् एव अधावत्। किश्रित् कालं प्रतीक्षां कृत्वा सिंहः गुहायाः बहि: आगच्छत्। तदा इतस्ततः पश्यन् सिंहः पश्चात्तापं कृत्वा बुभुक्षितः एव अतिष्ठत्। उचितम् एव कथितम्-सर्वांणि कार्याणि बुद्ध्या एव सिध्यन्ति। अतः बुद्धि: एव अस्माकं बलम् अस्ति।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
क: तत्क्षणम् एव अधावत्?
(क) सिह:
(ख) जीव:
(ग) श्रृगाल:
(घ) पशु:
उत्तरम् :
(ग) शृगाल:
प्रश्न ii.
कः पश्चात्तापं कृत्वा बुभुक्षितः एव अतिष्ठत्?
(क) जीव:
(ख) सिंह:
(ग) पशु:
(घ) शृगाल:
उत्तरम् :
(ख) सिंह:
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
i. उचितं किं कथितम्?
ii. कदा सिंह: गुहाया: बहि: आगच्छत्?
उत्तरम् :
i. उचितम् एव कथितम्- “सर्वाणि कार्याणि बुद्ध्या एव सिध्यन्ति।”
ii. किज्चित् कालं प्रतीक्षां कृत्वा सिहः गुहाया: बहि: आगच्छत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘अन्तः’ पदस्य कः विपर्ययः (विलोमः) अत्र लिखितः?
(क) एव
(ख) तदा
(ग) बहि:
(घ) अपि
उत्तरम् :
(ग) बहिः
प्रश्न ii.
‘सर्वाणि कार्याणि’ अनयो: पदयोः विशेषण पदं किम्?
(क) सर्वांणि
(ख) कार्यांि
(ग) सर्वम्
(घ) कार्यम्
उत्तरम् :
(क) सर्वाणि
2. मज्जूषायाः उचितैः पदै: रिक्त स्थान पूर्ति कृत्वा भावं लिखत-
‘बुद्धि: एव अस्माकं बलम् अस्ति।’ अस्य भावोऽस्ति यत् बुद्धिः संसारे मनुष्याणां सर्वोत्तमं i…… अस्ति। अनेन विना तेषां ii…… प्रगतिः उन्नतिः शोभादयः न भवन्ति। बुद्धिहीना: जनाः संसारे तथैव ..iii…… भवन्ति यथा हंसानां मध्ये iv……. शोभाहीन: भवति।
मज्जूषा-बलम् शोभाहीनाः काक: संसारे
उत्तराणि :
i. बलम् ii. संसारे iii. शोभाहीनाः iv. काक:
3. निम्न पदानां रिक्त स्थान पूर्ति-माध्यमेन वर्ण वियोजन वर्ण संयोजनं वा कृत्वा लिखत –
वर्ण वियोजनम्-
उत्तराणि :
i. आ, ii. उ, क्, iii. ए, iv. श्, v. त्, vi. न्, र, vii. इ, viii. ज्, ix. उ, x. ल्।
वर्ण संयोजनम्-
उत्तराणि
i. ध् (ध), ii. स् (स), iii. ती, iv. ल, v. क, vi. र्व।
4. रेखाड्कित पदानां स्थानेषु प्रश्नवाचकं पद रचित्वा लिखत-
i. बुद्धि: एव अस्माकं बलं वर्तते।
ii. सायङ्काले शृगालः गुहां प्रति आगच्छत्।
iii. सिंह: अवश्यमेव गुहायाः अभ्यन्तरं भवेत्।
iv. शृगालः गुहायाः समीपं गत्वा उच्चैः अवदत्।
v. अत्र सर्वत्र कुशलम् अस्ति।
vi. सिंहः पश्चात्तारं कृत्वा बुभुक्षितः एव अतिष्ठत्।
vii. सर्वाणि कार्याणि बुद्ध्या एव सिध्यन्ति।
viii. शृगालः एकम् उपायम् अचिन्तयत्।
ix. शृगालः अतीव बुद्धिमान् आसीत्।
x. एषा गुहा अपि मम भविष्यति।
उत्तराणि :
i. का एव अस्माकं बलं वर्तते?
ii. कदा शृगालः गुहां प्रति आगच्छत्?
iii. क: अवश्यमेव गुहाया: अभ्यन्तर भवेत्?
iv. शृगालः कस्या: समीपं गत्वा उच्चै: अवदत्?
v. अत्र सर्वत्र किम् अस्ति?
vi. सिंह पश्चात्तापं कृत्वा कीदृशः एव अतिष्ठत्?
vii. सर्वाणि कार्याणि कया एव सिध्यन्ति?
viii. शृगाल: किम् अचिन्तयत्?
ix. शृगालः कीदृशः आसीत्?
x. एषा गुहा अपि कस्य भविष्यति?
5. कथाक्रमानुसारं पड्क्ती: संयोज्य पुनर्लिखत-
i. इतस्ततः भ्रमन् सिहः एकां गुहाम् अपश्यत्।
ii. एक: बलवान् सिंह: आसीत्।
iii. भृगालः सत्यं ज्ञात्वा तत्क्षणम् एव अधावत्।
iv. गुहाया: समीपं गत्वा शृगालः उच्चैः अवदत्।
v. स: अचिन्तयत्-नूनं सिंहः गुहाया: अभ्यन्तरे भवेत्।
vi. सिंहः पश्चात्तापं कृत्वा बुभुक्षितः एव अतिष्ठत्।
vii. सायङ्काले सिंहस्य चरण-चिह्नानि शृगालः मार्ग अपश्यत्।
viii. आगच्छ, सर्व कुशलम् अस्ति।
उत्तराणि :
i. एक: बलवान् सिंह: आसीत्।
ii. इतस्ततः भ्रमन् सिंह: एकां गुहाम् अपश्यत्।
iii. सायङ्काले सिहस्य चरण-चिह्नानि शृगालः मार्गे अपश्यत्।
iv. स: अचिन्तयत्-नूनं सिंह: गुहायाः अभ्यन्तरे भवेत्।
v. गुहाया: समीपं गत्वा शृगालः उच्चैः अवदत्।
vi. आगच्छ, सर्व कुशलम् अस्ति।
vii. शृगालः सत्यं ज्ञात्वा तत्क्षणम् एव अधावत्।
viii. सिहः पश्चातापं कृत्वा बुभुक्षितः एव अतिष्ठत्।
6. निम्न पदानां विपरीतं पदं चित्वा लिखत-
(क) बलवान् | i. निर्बुद्धि: |
(ख) भीता: | ii. अकुशलम् |
(ग) बहि: | iii. असन्तुष्ट: (बुभुक्षितः) |
(घ) राजा | iv. अनुचितम् |
(ङ) कुशलम् | v. अधिकतरा |
(च) न्यूनतरा | vi. शनै: |
(छ) बुद्धिमान् | vii. निर्बल: |
(ज) उचितम् | viii. निर्भया: |
(झ) सन्तुष्ट: | ix. प्रजा |
(ञ) उच्चै: | x. अन्त: |
उत्तराणि :
(क) बलवान् | vii. निर्बल: |
(ख) भीता: | viii. निर्भया: |
(ग) बहि: | x. अन्त: |
(घ) राजा | ix. प्रजाii. अकुशलम् |
(ङ) कुशलम् | ii. अकुशलम् |
(च) न्यूनतरा | v. अधिकतरा |
(छ) बुद्धिमान् | i. निर्बुद्धि: |
(ज) उचितम् | iv. अनुचितम् |
(झ) सन्तुष्ट: | iii. असन्तुष्टः (बुभुक्षितः) |
(ञ) उच्चै: | vi. शनै: |