Sanskrit Apathit Gadyansh Class 7 with Answers

Daily practice of Deepakam Class 7 Solutions and Unseen Passage Apathit Gadyansh in Sanskrit Class 7 with Answers संस्कृत अपठित गद्यांश कक्षा 7 builds a strong language foundation over time.

संस्कृत अपठित गद्यांश कक्षा 7 – Apathit Gadyansh Sanskrit Class 7

Sanskrit Unseen Passage for Class 7

Apathit Gadyansh in Sanskrit Class 7 – Unseen Passage in Sanskrit Class 7

अपठितांश-अवबोधनम्

  1. अपठित गद्यांश को सर्वप्रथम दो-तीन बार अच्छी तरह पढ़कर उत्तर लिखना चाहिए ।
  2. जिन शब्दों का अर्थ स्पष्ट न हो उन वाक्यों को ध्यान से पढ़ना चाहिए और शब्द का भाव ग्रहण करने का प्रयत्न करना चाहिए ।
  3. अपठित गद्यांश में दिए गए अव्ययों और विभक्तियों को विशेष ध्यान से पढ़ें, क्योंकि इनका अर्थ पता न होने पर उत्तर गलत हो सकता है।

अभ्यास प्रश्नाः (Exercise)

अधोलिखितम् अनुच्छेदद्वयं पठित्वा प्रश्नानाम् उत्तराणि प्रदत्तस्थानेषु लिखत-

1. महर्षिणा वाल्मीकिना विरचितं रामायणं विश्वसाहित्येऽद्वितीया रचनाऽस्ति । अस्मिन् महाकाव्ये समस्ता भारतीया – संस्कृति: प्रतिबिम्बिता वर्तते । अस्मिन्नेव महाकाव्ये अस्माकं पारिवारिकाः सामाजिकाश्च आदर्शाः विद्यन्ते । रामस्य पितृभक्तिः भरतस्य त्यागः दशरथस्य पुत्रवात्सल्यम् अन्ये च एतादृशाः बहवः आदर्शा: रामायणे प्राप्यन्ते ।

(I) एकपदेन उत्तरत-

  1. रामायणं केन विरचितम् ?
  2. विश्वसाहित्ये का अद्वितीया रचना अस्ति ?
  3. अस्मिन् महाकाव्ये का प्रतिबिम्बिता वर्तते ?
  4. अस्मिन् महाकाव्ये अस्माकं के आदर्शा: विद्यन्ते ?

उत्तर:

  1. वाल्मीकिना
  2. रामायणं
  3. भारतीया-संस्कृति:
  4. सामाजिका: ।

(II) पूर्णवाक्येन उत्तरत-

  1. रामायणे कीदृशा: आदर्शा: विद्यन्ते ?
  2. रामायणं विश्व – साहित्ये कीदृशी रचना अस्ति ?

उत्तर:

  1. रामायणे रामस्य पितृभक्तिः भरतस्य त्यागः दशरथस्य पुत्रवात्सल्यम् एतादृशाः आदर्शाः विद्यन्ते।
  2. रामायणं विश्व साहित्ये अद्वितीया रचना अस्ति ।

(III) निर्देशानुसारम् उत्तरत/ भाषिक कार्यम् –

  1. ‘अस्माकम् ‘ अत्र कः शब्दः
  2. ‘महर्षि:’ इति कस्य शब्दस्य विशेषणम् ?

उत्तर:

  1. अस्मद्,
  2. वाल्मीकि : इत्यस्य ।

2. चण्डीगढ़स्य समीपे ‘पिञ्जौर’ नामकं स्थानमपि दर्शनीयमस्ति । अस्य प्राचीनं नाम पञ्चपुरम् आसीत्। कथ्यते यत् पाण्डवाः अत्र द्वादश-वर्षाणि यावत् अवसन् वनवासकालं च अयापयन्। अधुना अस्मिन् क्षेत्रे मनोरमा वाटिका वर्तते । अस्य उद्यानस्य पुष्पाणां सुगन्धिः धारायन्त्राणां च शोभा रात्रिकाले रमणीया भवति ।

(I) एकपदेन उत्तरत-

  1. किम् स्थानम् दर्शनीयम् अस्ति ?
  2. ‘अस्य’ प्राचीनं नाम किम् आसीत् ?
  3. अत्र के द्वादश वर्णाणि यावत् अवसन्?
  4. ‘पिञ्जौर’ नामकं स्थानं कस्य समीपे अस्ति ?

उत्तर:

  1. पिञ्जौर
  2. पञ्चपुरम्
  3. पाण्डवा:
  4. चण्डीगढ़स्य ।

(II) पूर्णवाक्येन उत्तरत-

  1. रात्रिकाले का रमणीया भवति ?
  2. वाटिका कीदृशी वर्तते ?

उत्तर:

  1. धारायन्त्राणां शोभा रात्रिकाले रमणीया भवति ।
  2. वाटिका मनोरमा वर्तते ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘सर्वोत्तमः कविः’ इत्यनयोः पदयोः विशेष्यः कः ?
  2. ‘भवति’ अत्र कः लकारः प्रयुक्तः ?

उत्तर:

  1. कवि:,
  2. लट्लकारः ।

Apathit Gadyansh in Sanskrit for Class 7 with Answers

Class 7 Sanskrit Apathit Gadyansh – अपठित गद्यांश संस्कृत में कक्षा 7

3. दीपोत्सवः भारतीयानां प्रसिद्धं पर्व अस्ति । अस्य प्रारम्भः रामायणकालात् अभवत् । यदा श्री रामचन्द्रः रावणं निहत्य अयोध्यायाम् आगच्छत्, तदा जनाः स्व-स्वगृहेषु मंगलसूचकान् दीपकान् प्राज्वालयन् अस्मिन् उत्सवे जनाः लक्ष्मीपूजां कुर्वन्ति । बंगप्रदेशे अस्मिन् अवसरे दुर्गापूजा भवति । अयम् उत्सवः कार्तिकमासस्य अमावस्यायाम् भवति ।

(I) एकपदेन उत्तरत-

  1. कः भारतीयानां प्रसिद्धं पर्व अस्ति ?
  2. रामः कुत्र आगच्छत् ?
  3. जनाः कान् प्राज्वालयन् ?
  4. अयम् उत्सवः कदा भवति ?

उत्तर:

  1. दीपोत्सवः,
  2. अयोध्यायाम्,
  3. दीपकान्,
  4. कार्तिकमासस्य अमावस्यायाम् ।

(II) पूर्णवाक्येन उत्तरत-

  1. बंगप्रदेशे का भवति ?
  2. जनाः अस्मिन् उत्सवे कस्याः पूजां कुर्वन्ति ?

उत्तर:

  1. बंगप्रदेशे दुर्गापूजा भवति ।
  2. जनाः अस्मिन् उत्सवे लक्ष्मीपूजां कुर्वन्ति ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘दीपोत्सव’ अत्र सन्धिविच्छेदं कुरुत ।
  2. ‘अयम्’ इति कस्य शब्दस्य रूपम् ।

उत्तर:

  1. दीप + उत्सव:,
  2. इदम् शब्दस्य ।

4. मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले स्थितः अस्ति । प्राङ्गणस्य मध्ये एकं सुन्दरम् उद्यानम् वर्तते। अत्र अध्यापकानां संख्या सप्ततिः, छात्राणां च सहस्रद्वयं वर्तते। अध्यापकाः अतीव निपुणाः योग्याः च सन्ति । शिक्षा – क्षेत्रे अस्य ख्यातिः सम्पूर्ण – देशे अस्ति । अतः दूरतः पठनाय अत्र छात्राः प्रवेशं लभन्ते । क्रीडाक्षेत्रे सदा प्रमुखं स्थानं प्राप्नुवन्ति । अहं गर्वित : भाग्यशाली च यः एतादृशे अत्युत्तमे विद्यालये शिक्षां लभे ।

(I) एकपदेन उत्तरत-

  1. क: नगरस्य सुरम्ये स्थले स्थितः अस्ति ?
  2. सुन्दरम् उद्यानम् कुत्र वर्तते ?
  3. मम विद्यालये अध्यापकानां संख्या कति वर्तते ?
  4. सहस्रद्वयं केषां संख्या वर्तते ?

उत्तर:

  1. मम विद्यालय
  2. प्राङ्गणस्य मध्ये,
  3. सप्ततिः,
  4. छात्राणाम् ।

(II) पूर्णवाक्येन उत्तरत-

  1. कस्मिन् मम विद्यालयः प्रथमं स्थानं प्राप्नोति ?
  2. भाग्यशाली कः अस्ति ?

उत्तर:

  1. क्रीडा क्षेत्रे मम विद्यालयः प्रथमं स्थानं प्राप्नोति ।
  2. भाग्यशाली अहम् अस्मि ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘अत्र’ इति अव्ययस्य कः अर्थः ?
  2. ‘अस्ति’ इत्यत्र कः धातु ?

उत्तर:

  1. यहाँ,
  2. अस्।

5. वाल्मीकि रामायणस्य सप्त-काण्डानि सन्ति । एतेषां काण्डानां नामानि तत् कथामाश्रित्यैव कल्पितानि । परम् पञ्चमस्य काण्डस्य ‘सुन्दर काण्डम्’ इति नाम कथाऽनुसारि नास्ति । कथानुसारेण तस्य नाम ‘हनुमत्काण्डम्’ ‘सीताऽन्वेषणकाण्ड’ वा स्यात् । परम् आदिकविना तस्य सुन्दरत्वात् ‘सुन्दरकाण्डम्’ इति नाम निर्धारितम् । तत्र हि सुन्दराणि छन्दांसि सुन्दर भाषा, सुन्दराः एव च वर्णनीयाः विषयाः कविना उपन्यस्ताः । अत एव “सुन्दरे किं न सुन्दरम्’ इत्यभियुक्तोक्तिर्लोके प्रचलिता ।

(I) एकपदेन उत्तरत-

  1. वाल्मीकि रामायणस्य कति काण्डानि सन्ति ?
  2. सुन्दरकाण्डः कतमः काण्डः अस्ति ?
  3. कथानुसारेण तस्य नाम किम् स्यात् ?
  4. सुन्दरत्वात् तस्य किम् नाम निर्धारितम् ?

उत्तर:

  1. सप्त,
  2. पञ्चमः,
  3. हनुमत्काण्डम्- सीताऽन्वेषणकाण्डं
  4. सुन्दरकाण्डम् ।

(II) पूर्णवाक्येन उत्तरत-

  1. सुन्दरकाण्डे कानि सुन्दराणि सन्ति ?
  2. लोके का उक्तिः प्रचलिता ?

उत्तर:

  1. सुन्दरकाण्डे छन्दांसि सुन्दराणि सुन्दर भाषा, सुन्दरा एव च वर्णनीयाः विषयाः कविना उपन्यस्ताः सन्ति ।
  2. ‘सुन्दरे किं न सुन्दरम्’ इति लोके उक्तिः प्रचलिता ।

(III) निर्देशानुसारम् उत्तरत-

अर्थों लिखत –

  1. सप्त ……..,
  2. अतः – ……….

उत्तर:

  1. सात,
  2. इस प्रकार ।

6. युवक: अचिन्तयत् – अयं घटः सक्तुभिः पूर्णः अस्ति । अनेन दुर्भिक्षे शतं रूप्यकाणि भविष्यन्ति । तैः अहम् अजाद्वयं क्रेष्यामि । शनैः शनैः अजानां समूहः भविष्यति । तेन अहम् क्रमशः गाः, महिषी:, वडवा: च क्रेष्यामि । तेन बहुसुवर्णं प्राप्स्यामि ।

(I) एकपदेन उत्तरत-

  1. क: अचिन्तयत् ?
  2. घट: कैः पूर्णः अस्ति ?
  3. कदा शतं रूप्यकाणि भविष्यन्ति ?
  4. युवक: रूप्यकैः किं क्रेष्यति ?

उत्तर:

  1. युवक:,
  2. सक्तुभि:,
  3. दुर्भिक्षे,
  4. अजाद्वयं ।

(II) पूर्णवाक्येन उत्तरत-

  1. शनैः शनैः कः भविष्यति ?
  2. केन प्राप्स्यामि ?

उत्तर:

  1. शनै: शनै: अजानां समूहः भविष्यति ।
  2. तेन बहुसुवर्णं प्राप्स्यामि ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘भविष्यन्ति’ इति पदे कः लकारः ?
  2. ‘सक्तुभिः’ इति पदे का विभक्तिः ?

उत्तर:

  1. लृट्लकारः,
  2. तृतीया विभक्तिः ।

7. एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः । सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान् । अन्ते एका गोलिका अवशिष्टा स तया स्वयमेव आत्मानं वीरगतिं प्रापयत् ।

(I) एकपदेन उत्तरत-

  1. चन्द्रशेखरः कै आक्रान्तः ?
  2. सः कति सैनिकान् हतवान् ?
  3. अन्ते कति गोलिकाः अवशिष्टाः ?
  4. चन्द्रशेखरः कीदृशः आसीत् ?

उत्तर:

  1. आंग्लशासकै:,
  2. बहून्,
  3. एका,
  4. निर्भयः ।

(II) पूर्णवाक्येन उत्तरत-

  1. चन्द्रशेखरः कथं वीरगतिं प्रापयत् ?
  2. कः निर्भयः आसीत् ?

उत्तर:

  1. अन्ते एका गोलिका अवशिष्टा, तया सः आत्मानं वीरगतिं प्रापयत् ।
  2. चन्द्रशेखरः निर्भयः आसीत् ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘आसीत्’ इति पदे कः लकारः ?
  2. ‘सैनिकान्’ इति पदे का विभक्तिः ?

उत्तर:

  1. लङ्लकार:,
  2. द्वितीया विभक्तिः ।

8. पुरा बोधिसत्वः वणिकपुत्रः बभूव। सः नदीतटम् अगच्छत् । सः एकं धीवरम् अपश्यत् । धीवरस्य समीपे एकः मृत्तिकाया: घटः आसीत्। धीवरः जालेन मत्स्यान् निगृह्य घटे निक्षिपति स्म । तैः सः स्वकुटुम्बस्य पालनं करोति स्म ।

(I) एकपदेन उत्तरत-

  1. बोधिसत्वः कुत्र अगच्छत् ?
  2. बोधिसत्वः किम् अपश्यत् ?
  3. धीवरस्य समीपे कः आसीत् ?
  4. धीवर घटे कान् निक्षिपति स्म ?

उत्तर:

  1. नदीतटम्,
  2. धीवरम्,
  3. घट:,
  4. मत्स्यान् ।

(II) पूर्णवाक्येन उत्तरत-

  1. धीवर: कै: कुटुम्बपालनम् अकरोत् ?
  2. बोधिसत्वः कः पुत्रः बभूव ?

उत्तर:

  1. धीवर: मत्स्यान् निगृह्य तैः स्वकुटुम्बस्य पालनम् अकरोत् ।
  2. बोधिसत्त्वः वाणिकपुत्रः बभूव ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘अपश्यत्’ इति पदे कः धातुः ?
  2. ‘मृत्तिकाया:’ इति पदे का विभक्तिः ?

उत्तर:

  1. दृश् धातु:,
  2. षष्ठी विभक्तिः ।

9. चन्द्रः सूर्य इव दृश्यते । परम् चन्द्रः सूर्यवत् विशालः न अस्ति । अयं तु पृथिव्याः अपि लघुः अस्ति । चन्द्रमाः एव धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती अस्ति । अयं पृथिवीं प्रति अष्टाविंशतितमे दिवसे परिक्रमां पूरयति ।

(I) एकपदेन उत्तरत-

  1. चन्द्रः कः इव दृश्यते ?
  2. चन्द्रः किंवत् विशालः न अस्ति ?
  3. चन्द्रः कस्या अपि लघुः अस्ति ?
  4. चन्द्रः कस्याः समीपवर्ती अस्ति ?

उत्तर:

  1. सूर्य:,
  2. सूर्यवत्,
  3. पृथिव्याः,
  4. धरायाः ।

(II) पूर्णवाक्येन उत्तरत-

  1. चन्द्रः पृथिव्याः परिक्रमां कतमे दिवसे पूरयति ?
  2. पृथिव्याः लघुः कः अस्ति ?

उत्तर:

  1. चन्द्रः पृथिव्याः परिक्रमां अष्टाविंशतितमे दिवसे पूरयति ।
  2. पृथिव्याः लघु चन्द्रः अस्ति ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘लघुः’ इति पदं कस्य विशेषणम् अस्ति ?
  2. ‘दिवसे’ इति पदे का विभक्तिः ?

उत्तर:

  1. चन्द्रस्य,
  2. सप्तमी विभक्तिः ।

10. स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। यः व्यायामं करोति, सः आपात्काले साहसं न त्यजति । रक्तसञ्चारः अपि सम्यग् भवति । इन्द्रियाणि स्वस्थानि भवन्ति । जठराग्निः दीप्तः भवति । उदरं न परिवर्धते । मस्तिष्कम् उर्वरं भवति ।

(I) एकपदेन उत्तरत-

  1. स्वास्थ्यलाभाय किं करणीयः ?
  2. रक्तसञ्चार: केन सम्यग् भवति ?
  3. व्यायामेन कः दीप्तः भवति ?
  4. व्यायामेन किं न परिवर्धते ?

उत्तर:

  1. व्यायाम:,
  2. व्यायामेन,
  3. जठराग्निः,
  4. उदरम् ।

(II) पूर्णवाक्येन उत्तरत-

  1. केन मस्तिष्कम् उर्वरं भवति ?
  2. केन उदरं न परिवर्धते ?

उत्तर:

  1. व्यायामेन मस्तिष्कम् उर्वरं भवति ।
  2. व्यायामेन उदरं न परिवर्धते ।

(III) निर्देशानुसारम् उत्तरत-

  1. ‘यः व्यायामं करोति’ इत्यत्र क्रियापदं लिखत ।
  2. ‘लाभ:’ इत्यस्य विलोमपदं लिखत ।

उत्तर:

  1. करोति,
  2. हानि: ।