Daily practice of Deepakam Class 6 Solutions and Unseen Passage Apathit Gadyansh in Sanskrit with Answers Class 6 संस्कृत अपठित गद्यांश कक्षा 6 builds a strong language foundation over time.
संस्कृत अपठित गद्यांश कक्षा 6
Sanskrit Unseen Passage for Class 6 – Apathit Gadyansh Sanskrit Class 6
Apathit Gadyansh in Sanskrit for Class 6
अधोलिखितान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत-
1. मम विद्यालयः भारतस्य राजधान्याम् अस्ति । अयं मम गृहस्य समीपे अस्ति । अस्य भवनम् अति विशालं रमणीयम् च अस्ति । मम विद्यालये पंचदश अध्यापकाः सन्ति। ते छात्रान् स्नेहेन पाठयन्ति । महानगरे मम विद्यालयस्य अतीव प्रतिष्ठा अस्ति । अस्य क्रीडाक्षेत्रम् अपि विशालम् अस्ति। एकः पुस्तकालयः अपि अस्ति ।
I. एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए)
- अध्यापकाः कान् पाठयन्ति ?
- विद्यालयस्य भवनं कीदृशम् अस्ति ?
- विद्यालये कति अध्यापकाः सन्ति?
- क्रीडाक्षेत्रं कीदृशम् अस्ति ?
उत्तर:
- छात्रान्
- विशालम् रमणीयं च
- पंचदश
- विशालम्
II. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर -दीजिए |)
(i) विद्यालयः कुत्र अस्ति ?
उत्तर:
विद्यालयः भारतस्य राजधान्याम् अस्ति ।
III. निर्देशानुसारम् उत्तरत- (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘अस्ति’ इत्यत्र कः धातुः ?
(क) अस्
(ख) आस्
(ग) अस्त
(घ) अस
उत्तर:
(क) अस्
(ii) ‘स्नेहेन’ अस्मिन् पदे का विभक्तिः ?
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) चतुर्थी
उत्तर:
(ग) तृतीया
2. संसारे अनेकानि धनानि सन्ति । परम् विद्याधनम् प्रमुखतमम् अस्ति। विद्या गुप्तधनम् अस्ति । चौरः अपि विद्याधनम् चोरयितुम् न शक्नोति । विद्यां प्राप्य नरः विनम्रः भवति। विद्या एव सुखस्य साधनम् अस्ति । विद्या अज्ञानस्य अन्धकारम् दूरी करोति । विद्वान् सर्वत्र पूज्यते । विद्यां विना मनुष्यः पशुतुल्यः भवति ।
I. एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए)
- गुप्तधनम् किम् अस्ति ?
- विद्याधनम् कः चोरयितुम् न शक्नोति ?
- अज्ञानस्य अन्धकारम् का दूरी करोति ?
- विद्यां प्राप्य नरः कीदृशः भवति ?
उत्तर:
- विद्याधनम्
- चौर:
- विद्या
- विनम्र:
II. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर दीजिए।)
(i) विद्या कस्य साधनम् अस्ति ?
उत्तर:
विद्या सुखस्य साधनम् अस्ति ।
III. निर्देशानुसारम् उत्तरत – (निर्देशानुसार उत्तर दीजिए)
(i) ‘अनेकानि धनानि’ अत्र विशेषणपदं किम् ?
(क) अनेकानि
(ख) अनेक
(ग) धनानि
(घ) धनं
उत्तर:
(क) अनेकानि
(ii) ‘भवति’ इति क्रियापदे कः धातुः ?
(क) भव्
(ख) भू
(ग) भवन्
(घ) भूव
उत्तर:
(ख) भू
3. अस्माकं देशे अनेके उत्सवाः सन्ति । भारतीयानाम् दीपावलिः प्रमुखः उत्सवः अस्ति । एषः कार्तिकमासस्य अमावस्यायाम् तिथौ भवति । अस्मिन् दिने श्रीरामः रावणं हत्वा अयोध्यां आगतः । जनाः गृहाणि सुधया लिम्पन्ति । बालाः चाकचिक्यं दहन्ति । गृहेषु दीपमाला: प्रज्वाल्यते । जनाः मिष्ठान्नं भक्षयन्ति, नवानि वस्त्राणि धारयन्ति । रात्रौ लक्ष्मीपूजनं कुर्वन्ति ।
I. एकपदेन उत्तरत – (एक पद से उत्तर दीजिए)
- रावणं कः अमारयत् ?
- रात्रौ जनाः किम् कुर्वन्ति ?
- दीपावलिः केषाम् प्रमुखः उत्सवः अस्ति ?
- के गृहाणि सुधया लिम्पन्ति ?
उत्तर:
- श्रीरामः
- लक्ष्मीपूजनम्
- भारतीयानाम्
- जना:
II. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) दीपावलिः कदा भवति ?
उत्तर:
दीपावलिः कार्तिकमासस्य अमावस्यायाम् तिथौ भवति ।
III. निर्देशानुसारम् उत्तरत – (निर्देशानुसार उत्तर दीजिए)
(i) ‘नवानि वस्त्राणि’ अत्र विशेषणपदं किम् ?
(क) नव
(ख) नवानि
(ग) वस्त्र
(घ) वस्त्राणि
उत्तर:
(ख) नवानि
(ii) ‘गृहेषु’ इति पदे का विभक्तिः ?
(क) सप्तमी
(ग) षष्ठी
(ख) प्रथमा
(घ) तृतीया
उत्तर:
(क) सप्तमी
4. भारतदेशे बहवः उत्सवाः भवन्ति । तेषु होलिका नाम प्रमुखः उत्सवः अस्ति। एषः फाल्गुनमासस्य शुक्लपक्षस्य पूर्णिमायां तिथौ भवति । प्राचीनकाले हिरण्यकश्यपुः नाम नृपः आसीत् । तस्य पुत्र प्रह्लादः विष्णुभक्तः आसीत्। नृपः प्रह्लादं मारयितुम् ऐच्छत् । नृपस्य भगिनी होलिका अस्मिन् प्रयासे नष्टा अभवत्। प्रह्लादः सुरक्षितः आसीत् । अतः जनाः इदं पर्व मन्यन्ते । जनाः नृत्यन्ति, गायन्ति । मिष्ठान्नं च खादन्ति । गुलालम् परस्परं लिम्पन्ति ।
I. एकपदेन उत्तरत – (एक पद से उत्तर दीजिए ।)
- होलिका कीदृशः उत्सवः अस्ति ?
- जनाः परस्परम् किम् लिम्पन्ति ?
- नृपस्य नाम किम् आसीत्?
- नृपः कम् मारयितुम् ऐच्छत् ?
उत्तर:
- प्रमुखः
- गुलालम्
- हिरण्यकश्यपु
- प्रह्लादम्
II. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर दीजिए।)
(i) होलिका का आसीत्?
उत्तर:
होलिका नृपस्य भगिनी आसीत् ।
III. निर्देशानुसारम् उत्तरत – (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘गायन्ति ‘ अत्र कः लकारः ?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट्
उत्तर:
(क) लट्
(ii) ‘प्रयासे’ इति पदे का विभक्तिः ?
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) सप्तमी
उत्तर:
(घ) सप्तमी
(iii) ‘जनाः नृत्यन्ति’ अत्र कर्त्ता क: ?
(क) जना:
(ख) नृत्यन्ति
(ग) जन:
(घ) नृत्यः
उत्तर:
(क) जना:
(iv) ‘प्रमुखः उत्सवः’ अत्र विशेषणपदं किम् ?
(क) उत्सवः
(ख) उत्सवाः
(ग) प्रमुखः
(घ) मुखः
उत्तर:
(ग) प्रमुखः
Unseen Passage in Sanskrit for Class 6
Class 6 Sanskrit Apathit Gadyansh
5. एकदा एकस्मिन् उपवने एकः पिपासितः काकः जलम् अन्वेष्टुम् इतस्तत: अभ्रमत् । तत्र सः एकं घटम् अपश्यत्। तस्मिन् घटे स्वल्पं जलम् आसीत् । अतः काकः जलम् पातुम् असमर्थः अभवत् । सः एकम् उपायम् अचिन्तयत्। काकः पाषाण – खण्डानि आनीय घटे अक्षिपत् । जलम् उपरि आगच्छत् । अतः सः काकः जलं पीत्वा सन्तुष्टः अभवत्। परिश्रमेण काकः सफलः अभवत्।
I. एकपदेन उत्तरत – (एक पद से उत्तर दीजिए।)
- घटे स्वल्पं किम् आसीत्?
- जलं पीत्वा कः सन्तुष्टः अभवत्?
- काकः घटे कानि अक्षिपत् ?
- उपवने काकः किम् अपश्यत् ?
उत्तर:
- जलम्
- काकः
- पाषाण- खण्डानि
- घटम्।
II. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर दीजिए।)
पिपासितः काकः किमर्थम् इतस्ततः अभ्रमत् ?
उत्तर:
होलिका नृपस्य भगिनी आसीत् ।
III. निर्देशानुसारम् उत्तरत – (निर्देशानुसार उत्तर दीजिए।)
(i) ‘उपवने’ अत्र का विभक्तिः ?
(क) प्रथमा
(ख) सप्तमी
(ग) षष्ठी
(घ) पञ्चमी
उत्तर:
(ख) सप्तमी
(ii) ‘असन्तुष्टः’ इति पदस्य विलोमपदं गद्यांशे किम् ?
(क) सफलः
(ख) सन्तुष्टः
(ग) असमर्थः
(घ) जलम्
उत्तर:
(ख) सन्तुष्टः
6. एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत् । तस्य नाम धनपालः आसीत् । सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म। प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। सः घटं नागदन्ते अवलम्ब्य खट्वायां शयनं करोति स्म ।
I. एकपदेन उत्तरत-
(i) निर्धनः कः आसीत् ?
उत्तर:
युवकः ।
(ii) युवकः कुत्र आसीत् ?
उत्तर:
ग्रामे ।
(iii) सः किमर्थं ग्रामं ग्रामं प्रति भ्रमति स्म ?
(क) भिक्षायै
(ख) अन्नाय
(ग) जलाय
(घ) वस्त्राय।
उत्तर:
(क) भिक्षायै
(iv) सक्तुभिः कः पूर्णः आसीत्?
(क) घटः
(ख) प्रकोष्ठः
(ग) जलाशयः
(घ) गर्तः ।
उत्तर:
(क) घटः
II. पूर्णवाक्येन उत्तरत- युवकस्य नाम किम् आसीत् ?
उत्तर:
युवकस्य नाम धनपालः आसीत् ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘आसीत्’ इत्यत्र कः लकारः ?
उत्तर:
लङ् ।
(ii) ‘भिक्षायै इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी
उत्तर:
(ख) चतुर्थी
7. स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः । व्यायामेन शरीरं स्वस्थं भवति । रक्तस्य सञ्चारः सम्यग् भवति । जठराग्निः दीप्तः भवति । उदरं न परिवर्धते । मस्तिष्कम् उर्वरं भवति ।
I. एकपदेन उत्तरत-
(i) प्रतिदिनं किं करणीयम् ?
उत्तर:
व्यायामः ।
(ii) व्यायामेन किं स्वस्थं भवति ?
उत्तर:
शरीरम् ।
(iii) कस्य सञ्चारः सम्यग् भवति ?
उत्तर:
रक्तस्य।
(iv) व्यायामेन किं न परिवर्धते ?
(क) उदरम्
(ख) हस्त:
(ग) पादः
(घ) नासिका ।
उत्तर:
(क) उदरम्
II. पूर्णवाक्येन उत्तरत-
व्यायामेन किम् उर्वरं भवति ?
उत्तर:
व्यायामेन मस्तिष्कम् उर्वरं भवति ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘भवति’ इत्यत्र को लकारः ?
उत्तर:
लट् ।
(ii) ‘व्यायामेन’ इत्यत्र का विभक्तिः ?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी ।
उत्तर:
(ख) तृतीया
8. पुरा अयोध्यायाः राजा दशरथः आसीत्। तस्य चत्वारः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः आसीत्। श्रीरामस्य पत्नी सीता आसीत् । सत्यस्य पालनाय दशरथः श्रीरामं वनं प्रैषयत्। वने रावणः सीताम् अपाहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान् ।
I. एकपदेन उत्तरत-
(i) अयोध्यायाः राजा कः आसीत्?
उत्तर:
दशरथः
(ii) दशरथस्य कति पुत्राः आसन् ?
(क) चत्वारः
(ख) त्रयः
(ग) द्वौ
(घ) पञ्च ।
उत्तर:
(क) चत्वारः
(iii) श्रीरामस्य पत्नी का आसीत्?
(क) सुमित्रा
(ख) कौसल्या
(ग) सीता
(घ) दमयन्ती।
उत्तर:
(ग) सीता
(iv) क: सीताम् अपाहरत् ?
(क) रावणः
(ख) मेघनादः
(घ) भरतः ।
(ग) लक्ष्मणः
उत्तर:
(क) रावणः
II. पूर्णवाक्येन उत्तरत-
दशरथः कं वनं प्रैषयत् ?
उत्तर:
दशरथः श्रीरामं वनं
III. निर्देशानुसारम् उत्तरत-
(i) ‘हत्वा’ इत्यत्र कः प्रत्ययः ?
(क) क्त्वा
(ख) आ
(ग) ता
(घ) वा।
उत्तर:
(क) क्त्वा
(ii) ‘अपाहरत्’ इत्यत्र को लकारः ?
(क) लट्
(ख) लोट्
(ग) लङ्
(घ) लृट्।
उत्तर:
(ग) लङ्
9. आकाशे बहव: ग्रहाः सन्ति । सूर्यः विशालं नक्षत्रम् अस्ति । चन्द्रः एकः उपग्रहः अस्ति । पृथिवी सूर्यं परितः प्रतिदिनं भ्रमति । सौरमण्डले नव ग्रहाः सन्ति । बृहस्पतिः विशालतमः अस्ति। सूर्यः प्रकाशं यच्छति । सूर्यः उष्णताम् अपि यच्छति ।
I. एकपदेन उत्तरत-
(i) आकाशे के सन्ति?
उत्तर:
ग्रहाः
(ii) विशालं नक्षत्रं कः अस्ति ?
उत्तर:
सूर्य:
(iii) उपग्रहः कः अस्ति ?
(क) पृथिवी
(ख) चन्द्रः
(ग) शनिः
(घ) गुरुः ।
उत्तर:
(ख) चन्द्रः
(iv) कः प्रकाशं यच्छति?
(क) शुक्रः
(ख) सूर्य:
(घ) बुधः ।
(ग) गुरुः
उत्तर:
(ख) सूर्य:
II. पूर्णवाक्येन उत्तरत-
विशालतमः ग्रहः कः अस्ति ?
उत्तर:
विशालतमः ग्रहः बृहस्पतिः अस्ति ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘यच्छति’ इत्यत्र कः धातुः ?
(क) यत्
(ख) यच्छ्
(ग) दा
(घ) छा।
उत्तर:
(ग) दा
(ii) ‘आकाशे’ इत्यत्र का विभक्तिः ?
(क) प्रथमा
(ख) सप्तमी
(ग) अता
(घ) आता।
उत्तर:
(ख) सप्तमी
10. मोक्ष: चतुर्थ: पुरुषार्थः । प्रथमः पुरुषार्थः धर्मः अस्ति । मोक्षो नाम दुःखेभ्यः सर्वथा मुक्तिः । ‘निर्वाणम्’ इति मोक्षस्य अपरनाम। धर्मेण एव मोक्षः लभ्यते । संसारे धर्मः एव जीवनस्य सारः अस्ति ।
I. एकपदेन उत्तरत-
- चतुर्थः पुरुषार्थः कः अस्ति ?
- प्रथमः पुरुषार्थः कः अस्ति ?
- मोक्षस्य अपरनाम किम् अस्ति ?
- धर्मेण कः लभ्यते?
उत्तर:
- मोक्षः
- धर्म:
- निर्वाणम्
- मोक्षः ।
II. पूर्णवाक्येन उत्तरत- जीवनस्य सारः किम् अस्ति ?
उत्तर:
जीवनस्य सारः धर्मः एव अस्ति ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘अस्ति’ इत्यत्र कः धातुः ?
(क) भू
(ख) अस्
(ग) नम्
(घ) अस्त ।
उत्तर:
(ख) अस्
(ii) ‘धर्मेण’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) पञ्चमी ।
उत्तर:
(क) तृतीया