Sanskrit Anuched Lekhan Class 9 with Answers

Daily practice of Sharda Sanskrit Book Class 9 Solutions and Sanskrit Anuched Lekhan Class 9 with Answers अनुच्छेदलेखनम् builds a strong language foundation over time.

Anuched Lekhan in Sanskrit for Class 9

Anuched Lekhan Class 9 Sanskrit

संस्कृत में अनुच्छेद लेखन कक्षा 9

अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय में ये वाक्य पढ़े-
दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते । दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासस्य अमावस्यायां भवति । जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति । ते परस्परं उपहारान् अपि प्रयच्छन्ति । केचित् जनाः विस्फोटक पदार्थान प्रज्वाल्य पर्यावरण प्रदूषयन्ति ।
ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है ।

प्रमुखबिन्दवः –

  • अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
    (अनुच्छेद लेखन में भूमिका या उपसंहार नहीं होता है ।)
  • अनुच्छेदे एक एव भावः प्रस्तोतव्यः ।
    (अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए ।)
  • अनुच्छेदलेखने विषयस्य सद्यः एव आरंभः क्रियते ।
    (अनुच्छेद लेखन में विषय तुरंत आरंभ किया जाता है।)
  • रोचकतागुणः अनुच्छेदस्य विशिष्टता ।
    (रोचकता का गुण अनुच्छेद की विशेषता है ।)
  • अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः।
    (अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।)
  • अस्य भाषा सरला सुबोधा च भवेत् ।
    (इसकी भाषा सरल और सुबोध होनी चाहिए ।)
  • अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
    (अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।)

उदाहरणम्-

प्रश्न 1.
‘मम विद्यालय:’ इति विषयम् अधिकृत्य मञ्जूषातः शब्दान् चित्वा संस्कृतभाषया पञ्चवाक्यानि लिखत-

मञ्जूषा-राजधान्याम्, स्थितः, समुचिता व्यवस्था, सुयोग्या:, स्नेहेन, क्रीडाक्षेत्रम्, प्रसीदन्ति, मनोयोगेन, पाठयन्ति, मृदुस्वभावाः
उत्तर:

  1. मम विद्यालयः भारतस्य राजधान्यां स्थितः अस्ति ।
  2. मम विद्यालये प्रथम कक्षायाः आरभ्य द्वादशकक्षापर्यन्तम् शिक्षायाः समुचिता व्यवस्था वर्तते ।
  3. मम विद्यालयस्य प्रधानाचार्य:, अध्यापकाः अध्यापिकाः च सुयोग्याः मृदुस्वभावाः च सन्ति ।
  4. ते मनोयोगेन स्नेहेन च सर्वान् छात्रान् पाठयन्ति ।
  5. मम विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति यत्र छात्रा: यथासमयं क्रीडन्ति प्रसीदन्ति च ।

प्रश्न 2.
‘विद्यालयस्य क्रीडा दिवस:’ इति विषयम् अधिकृत्य मञ्जूषायाः पदानि नीत्वा पञ्चवाक्यमितम् एकम् अनुच्छेदं रचयत-

मञ्जूषा-क्रीडा दिवसः प्रमुदिताः प्रधानाचार्य:, मार्गदर्शनं, क्रीडासु, स्वशरीराणि, पुरस्काराणि, अध्यक्षमहोदयः, ग्रहीत्वा
उत्तर:
प्रायः सर्वेषु विद्यालयेषु क्रीडा दिवसः भवति । अस्मिन् अवसरे बालकाः बालिकाश्च प्रमुदिताः सन्ति । अध्यक्षमहोदयः प्रधानाचार्य : वा छात्रेभ्य: पुरस्काराणि यच्छति । अध्यापकाः अध्यापिकाश्च क्रीडकानाम् मार्गदर्शनं कुर्वन्ति । क्रीडा-दिवसे छात्रा : विविधासु क्रीडासु भागं ग्रहीत्वा स्वशरीराणि स्वस्थानि कुर्वन्ति ।

प्रश्न 3.
‘भारतस्य राजधानी’ इति विषये मञ्जूषायाः सहायतया पञ्च वाक्यानि युक्तम् एकम् अनुच्छेदं लिखत-

मञ्जूषा-यमुनातटे, अन्तरा, राजधानी, ऐतिहासिक – भवनानि, भारतद्वारम् रक्तदुर्ग:, दिल्ली, सर्वोच्च न्यायालयः, राष्ट्रपतिभवनम्, प्राचीना
उत्तर:
‘दिल्ली’ भारतस्य राजधानी अस्ति । इयं प्राचीना ऐतिहासिकी च नगरी यमुनातटे अस्ति । इयं नगरी उत्तरप्रदेशं, हरियाणा प्रदेशं राजस्थान प्रदेशं च अन्तरास्थिता अस्ति । अत्र अनेकानि ऐतिहासिक – भवनानि विराजन्ते । भारतं सर्वकास्य सर्वे मुख्यालयाः अत्र एव वर्तन्ते। राष्ट्रपतिभवनम्, संसदभवनम्, भारतद्वारम्, सर्वोच्चन्यायालयः कुतुबमीनार स्मारकम्, रक्तदुर्ग:, जन्तुशाला, शक्तिस्थलम्, राजघाटम्, शान्तिवनम्, बिरलामन्दिरम्, कमलदेवालयम्, मुगल- उद्यानम् इति अत्र अनेकानि दर्शनीयस्थलानि सन्ति ।

प्रश्न 4.
‘मम प्रियः अध्यापकः’ इति विषये मञ्जूषातः पदानि नीत्वा सरल संस्कृते पञ्चवाक्यानाम् एकम् अनुच्छेदं लिखत-

मञ्जूषा-मुनीन्द्रः, आर्यः, मार्गदर्शनं, पाठयति, विनी:, सभ्यः, पर्वतारोहणाय, संस्कृतं, सामान्यज्ञाने, अन्येषु विषयेषु
उत्तर:
मम प्रियः अध्यापकः ‘श्री मुनीन्द्रः आर्यः’ अस्ति । सः मां स्नेहेन संस्कृतं पाठयति। सः अन्येषु विषयेषु, विविधक्रीडासु सामान्यज्ञाने च अपि छात्राणां मार्गदर्शनं करोति । सः एकः अनुशासनप्रियः, विनीतः, सहृदयः, शिष्टः, सभ्यः विद्वान् च अस्ति । यदा-कदा सः अस्माभिः सह पर्वतारोहणाय अपि गच्छति ।

प्रश्न 5.
‘मम प्रियः कविः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत-

मञ्जूषा-कालिदासः, सप्तरचनाः, श्रेष्ठं, राजसभायाः शेक्सपियर :, सुरक्षिता, विक्रमादित्यस्य, कविः
उत्तर:
मम प्रियः कविः कालिदासः अस्ति । सः सप्तरचना : कृतवान् । तस्य सर्वासु रचनासु ‘अभिज्ञानशाकुन्तलम्’ नाटकं श्रेष्ठं मन्यते । सः चन्द्रगुप्त विक्रमादित्यस्य राजसभायाः कविः आसीत् । अस्य सर्वासु रचनासु प्राचीन भारतीया संस्कृतिः सुरक्षिता अभवत् । असौ भारतस्य ‘शेक्सपियर:’ इति मन्यते ।

प्रश्न 6.
‘पुस्तकालय:’ इति विषयमाधृत्य मञ्जूषाया: सहायतया संस्कृते पञ्चवाक्यानां निर्माणं करोतु भवान्-

मञ्जूषा-पुस्तकालयः, अमूल्याः, आज्ञया, अभीष्टानि, आलय:, अध्यक्षस्य, तूष्णीम्, विद्यालयेषु, स्थातव्यम्
उत्तर:
पुस्तकानाम् आलय: इति पुस्तकालयः कथ्यते । प्रायः सर्वेषु विद्यालयेषु पुस्तकालयः भवति । पुस्तकालये अनेकानि पुस्तकानि नाना च अमूल्याः ग्रन्थाः अपि भवन्ति । छात्राः अध्यापकाः च यथासमयं तत्र गत्वा अभीष्टानि पुस्तकानि प्राप्य पठन्ति ज्ञानं च अर्जन्ति । अस्माभिः पुस्तकालये तूष्णीम् स्थातव्यम् पुस्तकालयस्य अध्यक्षस्य च आज्ञया एव पुस्तकानि ग्रहीतव्यानि ।

प्रश्न 7.
‘गङ्गा नदी’ इत्यस्मिन् विषये मञ्जूषायाः पदानि नीत्वा संस्कृते पञ्चवाक्यानि लिखत-

मञ्जूषा-हिमालयात्, पवित्रा, नदी, हरिद्वारात्, सागरे, बंगप्रान्तं, शस्यश्यामलं, कृषिक्षेत्रं, धार्मिकं
उत्तर:
गङ्गा नदी भारतस्य पवित्रा नदी मन्यते । एषा उत्तरे हिमालयात् निर्गत्य पूर्वदिशि बंगप्रान्तं गत्वा सागरे मिलति । इयं भारतस्य कृषिक्षेत्रं सिञ्चति तत् शस्यश्यामलं च करोति । भारतीयाः हरिद्वारात् गङ्गाजलम् आनीय स्व- स्व गृहेषु रक्षन्ति । गङ्गायाः धार्मिकं महत्त्वम् अपि अस्ति ।

प्रश्न 8.
‘मम गृहोद्यानम्’ इति विषयमुपरि मञ्जूषातः पदानि चित्वा सरल संस्कृते पञ्च वाक्यानि रचयत-

मञ्जूषा-पादपान्, गृहस्य, पश्चिमे भागे, पारिवारिक सदस्याः, परिवर्धनं, फलवृक्षाः स्वच्छं, तरवे, जीवनं
उत्तर:
मम गृहस्य पश्चिमे भागे अस्माकं लघुद्यानम् वर्तते । वयं सर्वे पारिवारिक- सदस्याः यथाकालम् तस्य रक्षणं परिवर्धनं च कुर्मः । अत्र अनेके पुष्प – पादपाः फलवृक्षाः च सन्ति । अहम् नित्यं तत्र भ्रमामि पादपान् सिञ्चामि तत् स्वच्छम् च करोमि । अस्माभिः सर्वैः अपि पादपा: रोपणीया: रक्षणीया: च यतोहि ते एव अस्माकं जीवनं संरक्षन्ति । तरवे नमोऽस्तु ।

प्रश्न- अभ्यासः

1. मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘विद्यायाः महत्त्वम्’ इत्यस्य विषयस्य उपरि पञ्चवाक्यानि रचयत-
मञ्जूषा-विद्याधनं, व्यये कृते वर्धते, सञ्चयात् क्षयम् आयाति, सर्वोत्तमं मन्यते, जीवनं सुखमयं भवति, धनेन विद्यां क्रेतुं न शक्यते, नरः शोभते

2. मञ्जूषायां शब्दानां सहायतया ‘भारतीय संस्कृतिः’ इत्यस्य विषयस्य उपरि संस्कृते पञ्चानाम् वाक्यानां निर्माणं कुरुत-
मञ्जूषा-अन्तः करणस्य अलङ्करणम्, संस्कृतिः संस्कारेण जायते, भारतीया संस्कृतिः, विश्वे सर्वोच्चं स्थानं धारयति, ज्ञान वर्धिका, महापुरुषाणां ऋषीणाञ्च जीवनीशक्तिः, आत्मनः, शोभा, जीवनमूल्यस्य रक्षणं, परोपकारिका

3 मञ्जूषाया: सहायतया ‘शाकाहार भोजनस्य महत्त्वम्’ इत्यस्मिन् विषये पञ्चानाम् वाक्यानां संस्कृते निर्माणं कुरुत-
मञ्जूषा-जीवनरक्षा, शाकाहार भोजनेन, पशूनाम् मांसेन, निर्दयता भवति, सुपाच्यं स्वास्थ्यं वर्धते, कृषिकर्मणा अन्नस्य प्राप्तिः भवति, पर्यावरणस्य सुरक्षा भवति, व्यवहारशुद्धिः विचारशुद्धिः अपि भवति