संवादपूर्तिः संस्कृत में संवाद लेखन Class 9

Daily practice of Sharda Sanskrit Book Class 9 Solutions and Samvad Lekhan in Sanskrit for Class 9 संवादपूर्तिः builds a strong language foundation over time.

Samvad Purti in Sanskrit Class 9 – Samvad Lekhan Class 9 Sanskrit

Samvad Lekhan in Sanskrit Class 9

Class 9 Sanskrit Samvad Lekhan – Sanskrit Vartalap Class 9

दो या दो से अधिक लोगों के बीच विचारों और सूचनाओं का आदान-प्रदान वार्तालाप कहलाता है। वार्तालाप लिखने से पहले निम्न बातों का ध्यान रखना चाहिए-

  • संवाद की भाषा सरल एवं स्पष्ट होनी चाहिए तथा संवाद छोटे, सरल और सीधे होने चाहिए।
  • संवाद वास्तविक जीवन की बातचीत जैसे लगने चाहिए।
  • चाहे कोई जानकारी देना हो या किसी पात्र की भावना को व्यक्त करना; संवाद का कोई-न-कोई उद्देश्य होना चाहिए ।
  • मंजूषा में दिए गए शब्दों को ध्यान से पढ़ें, अर्थ पहचानें तथा उसके बाद ही रिक्त स्थानों की पूर्ति करें।
  • वार्तालाप में वाक्यों में परस्पर संबंध होना परमावश्यक है।
  • काल का ध्यान अवश्य रखना चाहिए। काल का ध्यान न रखने पर आपका उत्तर गलत हो सकता है।

उदाहरणम् –

सवांद

प्रश्न 1.
कनिका – त्वं कुत्र गमिष्यसि।
मणिका – अहं (i) …… गमिष्यामि ।
कनिका – तत्र किमर्थं गमिष्यसि ?
मणिका – तत्र अहं तु (ii) …… कर्तुं गच्छामि।
कनिका – त्वं किं खेलं खेलासि ?
मणिका – अहं तु (iii) …… अस्मि ।
कनिका – किं त्वं प्रतिदिनं अभ्यासं करोषि ?
मणिका – आम्, अहं (iv) …….. अभ्यासं करोमि।
कनिका – किं अहम् अपि आगच्छानि ?
मणिका – आम्, त्वम् अपि (v) …….।

मञ्जूषा – धाविका, प्रतिदिनं, अभ्यासं, क्रीडाक्षेत्रं, आगच्छ
उत्तर:
(i) क्रीडाक्षेत्रम्
(ii) अभ्यासं
(iii) धाविका
(iv) प्रतिदिनम्
(v) आगच्छ ।

प्रश्न 2.
मेधा – तव वस्त्राणि तु अतीव शोभन्ते ।
जियाना – अये! अद्य तु मम (i) ……. एतत् परिधानं तु मम माता मह्यं क्रीतवती ।
मेधा – तव पार्श्वे कति परिधानानि सन्ति?
जियाना – मम समीपे तु बहूनि नूतनपरिधानानि वर्तन्ते तथापि अहं विशेष – अवसरेषु (ii) ……. क्रयं करोमि ।
मेधा – किं करिष्यसि एभिः परिधानैः ?
जियाना – अत्र-तत्र यदा-कदा (iii) …… धारयिष्यामि। तव समीपे कति (iv) ….. सन्ति?
मेधा – मम समीपे केवल पञ्च परिधानानि सन्ति । अहं तैः सन्तुष्टाः अस्मि । अहं तु पुस्तकप्रिया अस्मि ।
जियाना – (v) …… किं करिष्यसि ?
मेधा – पुस्तकानि एव अस्माकं (vi) …… सन्ति । अहं तु पुस्तकानि एव क्रेष्यामि ।
जियाना – किं पुस्तकैः परिधानस्य (vii) …… नीयते ?
मेधा – परिधानेभ्यः किं भवति ? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति । पुस्तकानि तु आजीवनम् (viii) ……।
जियाना – साधु! एतत् तु मया न (ix) …….। अद्य प्रभृति अहम् अपि धनस्य सदुपयोगं करणार्थं (x) ……. एव क्रेष्यामि न तु परिधानेभ्यः।

मञ्जूषा-चिन्तितम्, जन्मदिवसः, अवसरेषु, पुस्तके:, परिधानानि, मित्राणि, पुस्तकेभ्यः, नवीन – परिधानानां स्थानं, उपकुर्वन्ति
उत्तर:
(i) जन्मदिवसः
(ii) नवीन परिधानानां
(iii) अवसरेषु
(iv) परिधानानि
(v) पुस्तकै:
(vi) मित्राणि
(vii) स्थानं
(viii) उपकुर्वन्ति
(ix) चिन्तितम्
(x) पुस्तकेभ्यः ।

संवाद-लेखनस्य अन्य उदाहरणम्

अधोलिखित-संवादान् मञ्जूषापद – सहायतया पूरयत। (नीचे लिखे संवादों को मञ्जूषापद की सहायता से पूरा कीजिए ।)
पिंकी – जानासि अद्य कः उत्सवः अस्ति ?
गौरवः – आम्, अद्य तु (i) …….. अस्ति ।
पिंकी – तदा तु अद्य वयं नवीनानि (ii) …….. धारयिष्यामः ।
गौरवः – मम भगिनी अपि (iii) …..-शाटिकाम् धारयिष्यति ।
पिंकी – अहं मात्रा सह आपणं गत्वा क्रीडनकानि (iv) ……. च क्रेष्यामि।
गौरवः – त्वं मिष्ठान्नं क्रीत्वा किं करिष्यसि ?
पिंकी – वयं मिष्ठान्नं (v) …… बान्धवेभ्यः च दास्यामः ।
गौरवः – किं मित्रेभ्यः किञ्चित् न दास्यसि ?
पिंकी – वयं (vi) …… अपि मिष्ठान्नं वितरिष्यामः।
गौरव: – रात्रौ वयं सर्वे बालकाः मित्राणि च मिलित्वा विस्फोटकपदार्थान् (vii) …….।
पिंकी – अहं तु (viii) …….. बहिष्कारं करिष्यामि ।
गौरव: – किमर्थम्?
पिंकी – यतः विस्फोटक पदार्थेभ्य: धूम्रः ध्वनिना च (ix) …… अपि प्रसरति ।
गौरव: – सम्यक् वदति। इदानीं अहम् अपि रात्रौ लक्ष्मीपूजनं तु करिष्यामि परं (x) ……… न चालयिष्यामि ।

मञ्जूषा- चालयिष्यामः, मिष्ठान्नं, वस्त्राणि, विस्फोटकपदार्थान् मित्रेषु, नवीन, वस्त्राणि, विस्फोटक पदार्थानां प्रदूषणं, दीपावली
उत्तर:
(i) दीपावली
(ii) वस्त्राणि
(iii) नवीन
(iv) मिष्ठान्नं
(v) परिवाराय
(vi) मित्रेषु
(vii) चालयिष्यामः
(viii) विस्फोटक पदार्थानां
(ix) प्रदूषणं
(x) विस्फोटकपदार्थान्।

प्रश्न 2.
बक: – अयि भो मत्स्याः । शृणुत अस्य (i) …….. जलं शीघ्रमेव शुष्कं भविष्यति ।
मत्स्याः – हा हन्त। कथम् अस्माकं (ii) ….. भविष्यति ?
बकः – इदानीं भवत: (iii) ……. एक एव उपाय: ।
मत्स्याः – शीघ्रं कथय, अस्माकं प्राणा: (iv) …….. भवन्ति ।
बकः – अत्र समीपे एव एक: (v) ……. जलाशयः अस्ति । तस्य जलं कदापि न शुष्यति । तत्र गन्तव्यम् ।
मत्स्याः – भो मित्र ! वयं तत्र कथं (vi) ……..।
बकः – मित्रस्य कर्तव्यम् आपदि (vii) ……। अतः अहम् एव युष्मान् तत्र नेष्यामि ।
मत्स्याः – ननु सत्यं किम्। वयं बहवः त्वम् (viii) ……. एव
बक: – अलं चिन्तया । अहं द्वि-त्रिवारं गमन- आगमनम् करिष्यामि । एक वारं (ix) …….. मत्स्यान् एव नेष्यामि ।
मत्स्याः – नूनं भवान् अतीव (x) ……. अस्ति। एवं कृत्वा बकेन शनै: शनैः पर्वतशिखरे उपविश्य सर्वे मत्स्यान् भक्षिता। अतः अविश्वस्ते न अति विश्वसेत् ।

मञ्जूषा – परोपकारी, बृहदाकारः, प्राणरक्षा, मित्ररक्षा, एक:, जलाशयस्य, पञ्च, गमिष्यामः, व्याकुलाः, प्राणरक्षार्थम्
उत्तर:
(i) जलाशयस्य
(ii) प्राणरक्षा
(iii) प्राणरक्षार्थम्
(iv) व्याकुलाः
(v) बृहदाकार:
(vi) गमिष्यामः
(vii) मित्ररक्षा
(viii) एक:
(ix) पञ्च
(x) परोपकारी

प्रश्न 3.
(गंगातटे तपः कुर्वन्तं एकं योगिनं दृष्ट्वा परमहंसः रामकृष्णः तस्य समीपं अगच्छत् अपृच्छत् च)
रामकृष्णः – किं भवान् योगी ?
योगी – आम्, अहं (i) ……. अस्मि ।
रामकृष्णः – तपस्यां कुर्वन् कति (ii) …… व्यतीतानि ?
योगी – पञ्चाशत् इति मान्ये ।
रामकृष्णः – तु अनुभवी भवान् का: का: (iii) …… भवता अधिगता?
योगी – तदा (साभिमानम्) इयं विस्तृता गंगा मदर्थे साधारण – सरणि इव अस्ति । अहं (iv) …… अस्याः पारं गन्तुं समर्थः ।
रामकृष्णः – किं (v) …… अपि समर्थः ?
योगी – अथ किम्?
रामकृष्णः – शोभनम् । अन्याः का: का: (vi) …… भवत: ?
योगी – इयम् उपलब्धिः न्यूना किम् ?
रामकृष्णः – न केवलं न्यूना। अतिन्यूना इयं (vii) ………। पञ्चाशतवर्षाधिकयावत् प्रयत्नं कृत्वा भवता यत् गंगापारगमनं साधितम् तत् तु द्विपणकैः एव भविष्यति । नरः तु (viii) ………. विद्यां साधयितुं प्रयतेत या परेभ्यः (ix) …… आत्मार्थम् च मुक्तिदायिनी भवतु । वस्तुतः ‘सा विद्या या विमुक्तये’ योगी (x) ……. अभवत्।

मञ्जूषा- तूष्णीम्, आगन्तुम्, सिद्धयः, हितकारिणी, वर्षाणि, उपलब्धयः, तादृशी, योगी, सरलतया, उपलब्धिः
उत्तर:
(i) योगी
(ii) वर्षाणि
(iii) सिद्धयः
(iv) सरलतया
(v) आगन्तुम्
(vi) उपलब्धयः
(vii) उपलब्धिः
(viii) तादृशी
(ix) हितकारिणी
(x) तूष्णीम्।

प्रश्न 4.
एकदा बहवः मित्राणि समुद्रतटं गच्छन्ति । ते सर्वे समुद्रस्य जन्तवः विषये वार्तालापं कुर्वन्ति । मञ्जूषापदैः तेषां वार्तालापं सम्पूरयत-

अर्णवः – तत्र पश्यत। जले बहव: विचित्रा: (i) ……….. सन्ति।
कार्तिकेयः – आम्। अहं (ii) …….।
तानिष्कः – अरे ! तत्र एकः मत्स्य: (iii) …….।
सार्थकः – सः कः मत्स्यः अस्ति ?
कार्तिकेयः – अयं (iv) ……… मत्स्यः अस्ति । अस्य वर्ण: स्वर्ण- सदृशः भवति ।
सार्थकः – अतः सः (v) …… दीव्यति ।
अर्णवः – टर्र-टर्र इति कस्य ध्वनि: (vi) ……. आगच्छति।
कार्तिकेयः – अयं तु मण्डूकः अस्ति ।
तानिष्कः – किम् (vii) ……… जले वसति ?
अर्णवः – अरे! मण्डूकः तु जले भूमौ च उभयत्र वसति ।
सार्थकः – ‘शार्क’ तु (viii) …….. भवति ।
कार्तिकेयः – अयं किं किं खादति ?
अमनः – अयं (ix) …… मानवान् च खादति ।
गौरवः – सर्वे जन्तव: (x) …… एव समुद्रे वसन्ति।

मञ्जूषा- मिलित्वा मण्डूकः, जन्तवः, स्वर्णिमः, दीव्यति, लघुमत्स्यान्, विशालकायः, जलात्, पश्यामि, स्वर्णसदृशः
उत्तर:
(i) जन्तवः
(ii) पश्यामि
(iii) दीव्यति
(iv) स्वर्णिम:
(v) स्वर्णसदृशः
(vi) जलात्
(vii) मण्डूक:
(viii) विशालकायः
(ix) लघुमत्स्यान्
(x) मिलित्वा

प्रश्न 5.
अर्णवः – प्रिये ! ह्यः त्वं कक्षायाम् (i) ……. न आसीः ।
प्रिया – रात्रौ मम (ii) …….. आसीत्।
अनु – एतत् चिन्तनीयम्। वैद्यस्य किम् अभिमतम् ?
प्रिया – वैद्यः तु (iii) ……. करोति।
अनु – यदा औषधसेवनं रोगान् न उन्मूलयति, तदा (iv) ……. कर्तव्यः ।
प्रिया – अरे! योगमार्गः तु (v) ……. मार्गः । संसार – त्यागः अहं न इच्छामि ।
अनु – न एतत् । योगेन शरीरं (vi) ……. अपि स्वस्थं भवति ।
प्रिया – आम्, मया श्रुतम् (vii) ….. इति प्रसिद्धं वचनम्।
अनु – शोभनम् । स्वस्थे शरीरे (viii) ……. सुकरं भवति ।
प्रिया – आम्, जानामि । तेन (ix) …… एकाग्रता अपि भवति । कार्ये कौशलं जायते ।
अनु – उचितम्। योगस्य अभ्यासेन अनेके (x) ……. सम्भवन्ति ।

मञ्जूषा-लाभाः, शरीरममाद्यं खलु धर्मसाधनम्, उपस्थिता, औषधियोजना, अध्ययनं चित्रम्, चित्तस्य, सन्यासिनां योगोपचारः, उदरपीडा
उत्तर:
(i) उपस्थिता
(ii) उदरपीडा
(iii) औषधियोजना
(iv) योगोपचारः
(v) संन्यासिनां
(vi) चित्तम्
(vii) शरीरमाद्यं खलु धर्मसाधनम्
(viii) अध्ययनं
(ix) चित्तस्य
(x) लाभाः।

प्रश्न 6.
छात्र: – महोदय ! प्राचीनकाले भारतदेशे वैज्ञानिकाः आसन् किम् ?
आचार्यः – भारतदेशः वैदिककालात् एव (i) …….. देशः अस्ति ।
छात्र: – गुरुजी ! वनस्पति- विज्ञान – विषये किं कार्यं (ii) ……… अभवत्?
आचार्यः – महर्षिः पराशरः ‘वृक्षायुर्वेद’ ग्रन्थे (iii) ……. वर्गीकरणं कृतवान्।
छात्र: – प्राचीनकाले (iv) …… (बैट्री) अपि आसीत् किम् ?
आचार्यः – (v) …….. आसीत्। ताम्रपत्र- जतुपत्र कृष्णाङ्गारचूर्ण – पारद इत्यादीनां संयोगेन विद्युत – उत्पन्ना भवति इति महर्षिः अगस्त्यः लिखितवान् ।
छात्र: – अस्माकं भारते (vi) …….. अन्यत् किं प्रमुखं कार्यम् अभवत्?
आचार्यः – प्राचीनः भारतीयः महान् गणितज्ञ (vii) ……. प्रकाशस्य गतिं सम्यक् जानाति स्म ।
छात्र: – चिकित्साक्षेत्रे अस्माकं (viii) ……. ज्ञानं कीदृशम् आसीत् ?
आचार्यः – शल्यचिकित्सायाः (ix) ……. आचार्यः सुश्रुतः प्रायशः सर्वाः शल्यक्रियाः करोति स्म । शल्यक्रियायां यानि उपकरणानि सुश्रुतेन प्रयुक्तानि तानि एव (x) …… तथैव आधुनिक-चिकित्सा – क्षेत्रे प्रयुज्यन्ते ।

मञ्जूषा – उपकरणानि, अवश्यमेव, वैज्ञानिकानां, विद्युत्कोशः गणितविषये, पूर्वजानां भारते, वनस्पतीनां, जनकः, आर्यभट्टः
उत्तर:
(i) वैज्ञानिकानां
(ii) भारते
(iii) वनस्पतीनां
(iv) विद्युत्कोश:
(v) अवश्यमेव
(vi) गणितविषये
(vii) आर्यभट्टः
(viii) पूर्वजानां
(ix) जनक:
(x) उपकरणानि

प्रश्न 7.
रामः – मित्र! मम पितृमहोदया : ह्यः विदेशात् प्रत्यागताः।
श्यामः – (i) …………………………………………
रामः – एक: अतीव मूल्यवान् उपहारः ।
श्यामः – (ii) …………………………………………
रामः – नहि । ततोऽपि अधिक मूल्यवान् कर्तव्यबोधः ।
श्यामः – (iii) …………………………………………
रामः – एषः बोधः यत् अस्माभिः देशस्य निन्दां त्यक्त्वा तदर्थं कर्तव्यं पालनीयम् ।
श्यामः – (iv) …………………………………………
रामः – तत्र विदेशेषु जनाः स्वदेशं न निन्दन्ति, निन्दां श्रोतुमपि न शक्नुवन्ति सर्वदा देशहिताय एव कार्यं कुर्वन्ति ।
श्यामः – (v) …………………………………………
रामः – आम्। यदि वयं सर्वे मिलित्वा देशं प्रति जागरूकाः भवामः तर्हि भारतं विश्वे अग्रगण्यं भविष्यति इत्यत्र नास्ति सन्देहः ।

मञ्जूषा-
• सत्यम्। वयं भारतीयाः केवलं स्वदेशं निन्दामः मार्गान् अस्वच्छा: कुर्मः, स्वयं किमपि न कुर्मः।
• किमपि स्वर्णं हीरकं वा ?
• शोभनम् ततः तेन किं आनीतम् ?
• नूनम् अमूल्यः अयम् उपहारः । देशं प्रति कर्तव्यबोधं विना अस्माकं जीवनं निरर्थकम् ।
• कर्त्तव्यबोधः इति किम् ? न अवगच्छामि ।
उत्तर:
(i) शोभनम् । ततः तेन किं आनीतम् ?
(ii) किमपि स्वर्णं हीरकं वा ?
(iii) कर्त्तव्यबोध: इति किम् ? न अवगच्छामि।
(iv) सत्यम्। वयं भारतीयाः केवलं स्वदेशं निन्दामः मार्गान् अस्वच्छा कुर्मः, स्वयं किमपि न कुर्मः ।
(v) नूनम् अमूल्यः अयम् उपहारः । देशं प्रति कर्तव्यबोधं विना अस्माकं जीवनं निरर्थकम्।