Daily practice of Deepakam Class 7 Solutions and Sanskrit Samvad Lekhan Class 7 संस्कृत में संवाद लेखन builds a strong language foundation over time.
Samvad Purti in Sanskrit Class 7 – संस्कृत में संवाद लेखन Class 7
Samvad Lekhan in Sanskrit for Class 7
Samvad Lekhan Sanskrit Class 7
संवाद-लेखनम्—
- संवाद लिखने से पहले एक बार प्रश्न को ध्यानपूर्वक पढ़ें।
- संवाद प्राय: प्रश्नोत्तरात्मक या आदेशात्मक होता है ।
- अपनी उत्तर पुस्तिका में सम्पूर्ण संवाद को लिखें।
- प्रश्नोत्तरात्मक संवाद में जिस लकार में प्रश्न होता है, उसी लकार में उत्तर दें।
- आदेशात्मक संवाद का उत्तर प्रायः भूतकाल में अथवा वर्तमान काल में होता है।
अभ्यास प्रश्नाः (Exercise)
1. अधोलिखितं संवादं पठत । अत्र केचन प्रवासार्थं प्रस्थिताः गृहसदस्याः वार्तालापं कुर्वन्ति । संवादे रिक्तस्थानानि मञ्जूष्मतः अवचित्य समुचितपदैः पूरयत पुनः लिखत च ।
चेतनः – वयं सायङ्काले कन्याकुमारीं प्राप्स्यामः ।
प्रथमं समुद्रतीरं गत्वा (i) …… द्रक्ष्यामः । अनन्तरं देवालयं गत्वा (ii) …… दर्शनं करिष्यामः ।
कृष्णा – वयं कुत्र (iii) ………?
चेतनः – (iv)………….
प्रवासिमन्दिरम् अस्ति । (v) …… निवत्स्यामः ।
पिता – (vi) ….. कथम्?
चेतनः – तत्र अनेके भोजनालयाः सन्ति । तत्र गमिष्यामः, भोजनं च करिष्यामः ।
पिता – अथवा प्रथमम् एव खाद्यानि क्रेष्यामः । तानि (vii) ….. नेष्यामः। तत्र (viii) …… ।
चेतनः – रात्रौ तत्रैव (ix) ……… प्रात: (x) ………
मञ्जूषा— तत्र, प्रत्यागमिष्यामः, भोजनव्यवस्था, सूर्यास्तं, देवालयसमीपे, देव्याः, प्रवासिमन्दिरम् खादिष्यामः स्थित्वा निवत्स्यामः
उत्तर:
चेतनः – वयं सायङ्काले कन्याकुमारीं प्राप्स्यामः । प्रथमं समुद्रतीरं गत्वा (i) सूर्यास्तं द्रक्ष्यामः। अनन्तरं देवालयं गत्वा (ii) देव्याः दर्शनं करिष्यामः ।
कृष्णा – वयं कुत्र (iii) निवत्स्यामः ?
चेतनः – (iv) देवालयसमीपे
प्रवासिमन्दिरम् अस्ति । (v) तत्र निवत्स्यामः ।
पिता – (vi) भोजनव्यवस्था कथम् ?
चेतनः – तत्र अनेके भोजनालयाः सन्ति । तत्र गमिष्यामः, भोजनं च करिष्यामः ।
पिता: – अथवा प्रथमम् एव खाद्यानि क्रेष्यामः । तानि (vii) प्रवासिमन्दिरं नेष्यामः । तत्र (viii) खादिष्यामः ।
चेतनः – रात्रौ तत्रैव (ix) स्थित्वा प्रातः (x) प्रत्यागमिष्यामः ।
2. अधोलिखितं संवादं पठत । प्रवासे कोलकातानगरं गत्वा अष्ट मित्राणि ‘अहं किं किं करिष्यामि’ इति वदन्ति । वार्तालापे रिक्तस्थानानि मञ्जूष्मतः उचितपदानि विचित्य तैः पूरयत – पुनः लिखत च ।
रञ्जनः – वयं परश्वः कोलकातानगरं गमिष्यामः । तत्र गत्वा सर्वे किं किं (i) …… इति वदन्तु ।
मानवः – मम तत्र पञ्च षट् मित्राणि सन्ति । यत्र वयं स्थास्यामः, तत्र अहं तानि सर्वाणि दूरभाष द्वारा (ii)…………..।
वल्लभः – वयं तत्र मेट्रो रेलयानेन यात्रां करिष्यामः । हावड़ोपरि निर्मितं नवसेतुमपि (iii)………..
सौरभः – अहं तु ततः बाङ्गला-वाङ्मयं (iv)……….. आनेष्यामि ।
पङ्कजः – अहं नूतनवस्त्राणि (v) ……….। पुस्तकेषु मम (vi)……….. नास्ति ।
शिवाङ्कः – परं वयं तत्र कुत्र (vii) ………?
विभुः – मया पूर्वमेव (viii)……….. कृतः । वयं हरियाणा – भवने निवत्स्यामः । यदा अहं पूर्वं तत्र (ix)……….. तदा तत्रैव निवासम् अकरवम् ।
मेधावी – शोभनम् एतद्विषये अधुना कोऽपि (x) ……… नास्ति ।
मञ्जूषा – रुचि, गतवान्, आह्नास्यामि, क्रीत्वा, चिन्ता, प्रबन्धः, निवत्स्यामः द्रक्ष्यामः, क्रेष्यामि, कर्तुमिच्छन्ति
उत्तर:
रञ्जनः – वयं परश्वः कोलकातानगरं गमिष्यामः । तत्र गत्वा, सर्वे किं किं (i) कर्तुमिच्छन्ति, इति वदन्तु ।
मानवः – मम तत्र पञ्च षट् मित्राणि सन्ति । यत्र वयं स्थास्यामः, तत्र अहं तानि सर्वाणि दूरभाषद्वारा (ii) आह्वास्यामि ।
वल्लभः – वयं तत्र मेट्रो – रेलयानेन यात्रां करिष्यामः । हावड़ोपरि निर्मितं नवसेतुमपि (iii) द्रक्ष्यामः |
सौरभः – अहं तु ततः बाङ्गला-वाङ्मयं (iv) क्रीत्वा आनेष्यामि ।
पङ्कज – अहं नूतनवस्त्राणि (v) क्रेष्यामि । पुस्तकेषु मम (vi) रुचिः नास्ति ।
शिवाङ्कः – परं वयं तत्र कुत्र (vii) निवत्स्यामः ?
विभुः – यापूर्वमेव (viii) प्रबन्धः कृतः । वयंहरियाणा- भवने निवत्स्यामः । यदा अहं पूर्वं तत्र (ix) गतवान्, तदा तत्रैव निवासम् अकरवम् ।
मेधावी – शोभनम् एतद्विषये अधुना काऽपि (x) चिन्ता नास्ति ।
3. रामः श्यामश्च वार्तालापं कुरुत: । ‘गतदिवसे ताभ्यां किं किं कृतम्’ इति चर्चायाः विषयः । तत्र रिक्तस्थानानि मञ्जूष्मतः उचितपदानि आदाय पूरयितव्यानि पुनः लेखितव्यानि च ।
रामः – श्याम ! अहं (i) ……… प्रातः षड्वादने (ii) …..। स्नानादिकं (iii) ….., पानीयं (iv) ……., दशवादने (v) …… गतवान् । तत्र व्यवहारसम्बन्धीनि पत्राणि (vi)……….. । अनन्तरं तानि पत्राणि प्रेषितवान् । सायंकाले गृहमागत्य (vii) ……. गत्वा वस्तूनि क्रीतवान् । रात्रौ (viii) …… श्रुतवान् । दशवादने निद्रां कृतवान्।
श्यामः – मित्र ! भवान् तु उद्यमी अस्ति । मया तु कार्यालयात् अवकाशः गृहीत्वा सम्पूर्णदिवसे गृहे स्थित्वा (ix) ………. एव सम्पादितानि ।
रामः – अहमपि यदा कदा (x)……………. करोमि ।
मञ्जूषा – विपणिं, कृत्वा, तथाविधं, दूरदर्शनवार्तां, गृहकार्याणि, ह्यः, पीत्वा, लिखितवान्, कार्यालयं, उत्थितवान्
उत्तर:
रामः – श्याम ! अहं (i) ह्यः प्रातः षड्वादने (ii) उत्थितवान्। स्नानादिकं (iii) कृत्वा, पानीयं (iv) पीत्वा, दशवादने (v) कार्यालयं गतवान्। तत्र व्यवहारसम्बन्धीनि पत्राणि (vi) लिखितवान्, अनन्तरं तानि पत्राणि प्रेषितवान् । सायंकाले गृहमागत्य (vii) विपणिं गत्वा वस्तूनि क्रीतवान्। रात्रौ (viii) दूरदर्शनवार्तां श्रुतवान् । दशवादने निद्रां कृतवान् ।
श्यामः – मित्र ! भवान् तु उद्यमी अस्ति। मया तु कार्यालयात् अवकाशः गृहीत्वा सम्पूर्णदिवसे गृहे स्थित्वा (ix) गृहकार्याणि एव सम्पादितानि ।
रामः – अहमपि यदा कदा (x) तथाविधं करोमि ।
Sanskrit Samvad Lekhan Class 7 Solutions
Samvad in Sanskrit for Class 7 – संस्कृत में संवाद लेखन Class 7
4. पिता पुत्रं त्यागराजनगरस्य सम्मेलनस्य वृत्तान्तं पृच्छति । तयोः वार्तालापं रिक्तस्थानानि मञ्जूषागतैः समुचितपदैः पूरयत – पुनः लिखत च ।
पिता – वत्स देवदत्त! भवान् सम्मेलने भागं वोढुं त्यागराजनगरं गतवान् । वदतु भवान् चेन्नईनगरं कदा (i) …..?
देवदत्तः – हे पित: ! अहं सोमवासरे दिल्लीतः यात्राम् आरब्धवान्, बुधवासरे प्रात:काले सप्तवादने (ii) …… प्राप्तवान् ।
पिता – तत्र गत्वा भवान् किं किं (iii) …..?
देवदत्तः – अहं (iv) …… मित्रस्य गृहं गतवान् । तत्रैव स्नानादिकं कृत्वा उपाहारमपि (v) ……। ततः त्यागराजनगरं गतवान् ।
पिता – भवान् (vi) ….. एव गतवान् वा ?
देवदत्तः – नैव, मम स्नेहितः मां (vii) …….. नीतवान् । तत्र सभाभवने (viii)….. आयोजितः आसीत्। अहं तत्र मम (ix) ……. पठितवान् ।
पिता – अनन्तरम् ?
देवदत्तः – सभाध्यक्षः मां प्रशंसितवान् । मम योजनाम् (x) ……..। अग्रिम-सम्मेलने भागं ग्रहीतुं मां प्रार्थितवान् ।
मञ्जूषा- लेखनम्, एकः, कृतवान्, अङ्गीकृतवान्, प्रथमम्, कार्यक्रमः, तत्र, चेन्नईनगर, प्राप्तवान्, स्वीकृतवान् ।
उत्तर:
पिता – वत्स देवदत्त ! भवान् सम्मेलने भागं वोढुं त्यागराजनगरं गतवान् । वदतु, भवान् चेन्नईनगरं कदा (i) प्राप्तवान् ?
देवदत्तः – हे पितः ! अहं सोमवासरे दिल्लीतः यात्राम् आरब्धवान्, बुधवासरे प्रात:काले सप्तवादने (ii) चेन्नईनगरं प्राप्तवान् ।
पिता – तत्र गत्वा भवान् किं किं (iii) कृतवान् ?
देवदत्तः – अहं (iv) प्रथमं मित्रस्य गृहं गतवान् । तत्रैव स्नानादिकं कृत्वा उपाहारमपि (v) स्वीकृतवान् । ततः त्यागराजनगरं गतवान् ।
पिता – भवान् (vi) एकः एव गतवान् वा ?
देवदत्तः – नैव, मम स्नेहितः मां (vii) तत्र नीतवान् । तत्र सभाभवने (viii) कार्यक्रमः आयोजित: आसीत्। अहं तत्र मम (ix) लेखनं पठितवान् ।
पिता – अनन्तरम् ?
देवदत्तः – सभाध्यक्षः मां प्रशंसितवान् । मम योजनाम् (x) अङ्गीकृतवान् । अग्रिम-सम्मेलने भागं ग्रहीतुं मां प्रार्थितवान् ।
5. पुत्री विजया विद्यालयात् गृहम् विलम्बं कृत्वा आगच्छति । अम्बा कारणं पृच्छति । विजया कारणं निवेदयति । इति विषयं समधिकृत्य तयोः मध्ये संक्षिप्तं वार्तालापं रिक्तस्थानपूर्तिद्वारा विरचयत-
विजया – अम्ब! अहम् आगतवती ।
अम्बा – विजये, किमर्थं (i) ………
विजया – अद्य विद्यालये (ii) …….. आसीत् ।
अम्बा – भवती किं कृतवती ?
विजया – अहं (iii)………….. गीतवती ।
अम्बा – एवं वा? अध्यापिका किम् उक्तवती ?
विजया – सा मां श्लाघितवती ।
अम्बा – भवतु, विलम्ब: (iv)…………
विजया – कार्यक्रमः (v)………… आसीत् । अनन्तरं नलिनी सर्वेभ्यः पारितोषिकं दर्शितवती । तावत्पर्यन्तम् अहं घटीम् एव न दृष्टवती, अतः समयं न ज्ञातवती । अतः (iv)…………… जातः।
अम्बा – एवं वा ? अहं मधुरं कृतवती। ददामि भवती खादतु ।
मञ्जूषा – विलम्बः, गीतं, दीर्घः किमर्थम्, कार्यक्रमः
उत्तर:
विजया- अम्ब! अहम् आगतवती ।
अम्बा – विजये ! किमर्थं (i) विलम्बः ?
विजया – अद्य विद्यालये (ii) कार्यक्रमः आसीत् ।
अम्बा – भवती किं कृतवती ?
विजया – अहं (iii) गीतं गीतवती ।
अम्बा – एवं वा? अध्यापिका किम् उक्तवती ?
विजया – सा मां श्लाघितवती ।
अम्बा – भवतु, विलम्ब: (iv) किमर्थम् ?
विजया – कार्यक्रम (v) दीर्घः आसीत् । अनन्तरं नलिनी सर्वेभ्यः पारितोषिकं दर्शितवती । तावत्पर्यन्तम् अहं घटीम् एव न दृष्टवती, अतः समयं न ज्ञातवती । अतः (vi) विलम्बः जातः ।
अम्बा – एवं वा अहं मधुरं कृतवती । ददाभि, भवती खादतु।
6. अधोलिखितानां शब्दानां साहाय्येन सम्वादं लिखत-
माता – पुत्रि, अद्य विद्यालये किम् आसीत् ?
पुत्री – मातः ! अस्माकं विद्यालये परश्व: (i) ……. भविष्यति। अद्य तस्य एव सज्जा प्रचलति स्म ।
माता – तस्मिन् उत्सवे के के (ii) ….. भविष्यन्ति ?
पुत्री – जननि ! तस्मिन् मम नृत्यं (iii) ….. च भविष्यतः ।
माता – मुख्यातिथिः कः भविष्यति ?
पुत्री – (iv) ………. राज्यपालमहोदयः भविष्यति । सः एव पुरस्कारान् वितरिष्यति ।
माता – पुत्रि ! शोभनम् । आशास्यते यत् त्वम् अपि .. (v) ……………… प्राप्स्यसि ।
मञ्जूषा – वार्षिकोत्सवः, कार्यक्रमाः, नाटकं, मुख्यातिथिः, पुरस्कारं
उत्तर:
माता – पुत्रि ! अत्र विद्यालये किम् आसीत् ?
पुत्री – मातः ! अस्माकं विद्यालये परश्वः (i) वार्षिकोत्सवः भविष्यति । अद्य तस्य एव सज्जा प्रचलति स्म ।
माता – तस्मिन् उत्सवे के के (ii) कार्यक्रमाः भविष्यन्ति ?
पुत्री – जननि ! तस्मिन् मम नृत्यं, (iii) हास्यनाटकं च भविष्यतः ।
माता – मुख्यातिथिः कः भविष्यति ?
पुत्री – (iv) मुख्यातिथिः राज्यपालमहोदयः भविष्यति । सः एव पुरस्कारान् वितरिष्यति ।
माता – पुत्रि ! शोभनम् । आशास्यते यत् त्वम् अपि (v) पुरस्कारं प्राप्स्यसि ।
7. मातृपुत्री – संवादे रिक्तस्थानानि पूरयत-
माता – पुत्रि ! पश्य तत्र (i) …… कः तिष्ठति ?
पुत्री – किम् एषः (ii) …… अस्ति ?
माता – आम् शुकः (iii) …… भवति । परं शुकस्य (iv) ……. रक्ता भवति ।
पुत्री – आम् पश्यामि सः स्व- चञ्च्वा वृक्षस्य (v) ……….. खादति ।
अम्बा ! किम् एषः अपि कूजति ?
माता – नहि, शुकः न (vi) …… सः वदति ।
पुत्री – अहम् एकदा एकं (vii) …….. अपश्यम् ।
माता – किं सः वदति स्म ?
पुत्री – सः (viii) …….. ‘अतिशोभनम् – अतिशोभनम्’ इति ।
मञ्जूषा – शुकः, शुकम्, वृक्षे, अवदत्, कूजति, हरितः, रक्ता, फलानि, चञ्चुः
उत्तर:
(i) वृक्षे,
(ii) शुक:,
(iii) हरित:,
(iv) चञ्चुः,
(v) फलानि,
(vi) कूजति,
(vii) शुकम्,
(viii) अवदत् ।