For quick revisions Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 8 Hindi Translation Summary Explanation Notes अन्नाद् आनन्दं प्रति are highly effective study resources.
Sanskrit Class 9 Chapter 8 Hindi Translation अन्नाद् आनन्दं प्रति Summary
कक्षा 9 संस्कृत पाठ 8 हिंदी अनुवाद
Class 9 Sanskrit Chapter 8 Summary Notes अन्नाद् आनन्दं प्रति
संस्कृतवाङ्मये उपनिषत्-साहित्यस्य विशिष्टं महत्त्वपूर्णं च स्थानम् अस्ति । उपनिषत्सु अनेके ज्ञानप्रदाः संवादाः सन्ति । तैत्तिरीयोपनिषदि समग्रजीवनविकासाय पञ्चकोषाणां महत्त्वं पितापुत्रसंवादरूपेण वर्णितम् । तादृशज्ञानप्रदसंवादानाम् अध्ययनेन बोधनेन च वयम् आत्मविकासं कर्तुं शक्नुमः । अस्मिन् पाठे वयं पितापुत्रयोः भृगुवरुणयोः संवादं पठिष्यामः ।

(संस्कृत साहित्य में उपनिषद् – साहित्य का विशिष्ट और महत्त्वपूर्ण स्थान है। उपनिषदों में अनेक ज्ञान देने वाले संवाद हैं। तैत्तिरीयोपनिषद् में संपूर्ण जीवन के विकास के लिए पाँच कोशों का महत्त्व पिता-पुत्र के संवाद के रूप में वर्णित है। उस प्रकार के ज्ञानवर्धक संवादों के अध्ययन और समझने से हम अपना विकास कर सकते हैं। इस पाठ में हम पिता और पुत्र भृगु और वरुण का संवाद पढ़ेंगे। )
Class 9 Sanskrit Sharada Chapter 8 Hindi Translation
Sanskrit Class 9 Chapter 8 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 8 हिंदी अनुवाद
1. (एकदा ब्रह्मज्ञानाय तत्पर: वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)
भृगुः – अयि भोः पितः ! अभिवादयेऽहं सादरम् । भगवन् ! ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते । किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते ? कृपया उपदिशतु।
वरुणः – पुत्र! शुभं भूयात् । ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम् । यत्नः अभ्यासश्च क्रियेताम् । तपस्तप्यताम् । तपसैव ज्ञायते ।
भृगुः – अस्तु तात!
(ततो भृगुः अनेकवर्षाणि तप आचरति । तपस्तप्त्वा पुनः पितरं निकषा गच्छति । पिता तं पृच्छति-)
वरुणः – अयि पुत्र ! त्वया किं ज्ञातम् ?
भृगुः – भोः पितः ! अन्नं वै ब्रह्म इति ।
वरुणः – कथम् अन्नं ब्रह्मरूपेण ज्ञातम् ? (पृष्ठ सं० -92-93)
शब्दार्थाः
- जिज्ञासा – जानने की इच्छा;
- सञ्चाल्यते – चलाया जाता है;
- अन्वेषणम् – खोज;
- निकषा – पास या समीप ।
अर्थ – (एक बार ब्रह्मज्ञान के लिए तत्पर वरुण के पुत्र भृगु विनयपूर्वक पिता के पास जाकर निवेदन करते हैं)
भृगु – हे पिता जी ! मैं आपको सादर प्रणाम करता हूँ। भगवन! मेरे मन में ब्रह्म के विषय में कुछ जिज्ञासा है। वह ब्रह्म क्या है जिससे यह सारा संसार चलाया जाता है? कृपया उपदेश दें।
वरुण – पुत्र! तुम्हारा कल्याण हो । ब्रह्मज्ञान के लिए तुम स्वयं ही खोज करो। प्रयत्न और अभ्यास करो। तपस्या करो। तप से ही वह (ब्रह्म) जाना जाता है।
भृगु – ठीक है पिता जी !
(उसके बाद भृगु अनेक वर्षों तक तप करते हैं। तप करके पुनः पिता के पास जाते हैं। पिता उनसे पूछते हैं-)
वरुण – आओ पुत्र ! तुमने क्या जाना?
भृगु – हे पिता जी ! अन्न ही ब्रह्म है।
वरुण – तुमने अन्न को ब्रह्म के रूप में कैसे जाना ?
व्याकरणम्
पर्यायपदानि-
- ब्रह्म – परमात्मा / परब्रह्म
- जगत् – संसार: / विश्वम्
- अन्वेषणम् – शोधम्/ गवेषणम्
विलोमपदानि
- शुभम् × अशुभम्
- गत्वा × आगम्य
- मयि × त्वयि
विशेषण- विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- जगत् – इदम्
- काचित् – जिज्ञासा
सन्धि
- अभिवादयेऽहम् = अभिवादये + अहम् (स्वर सन्धि)
- स्वयमेव = स्वयम् + एव (व्यञ्जन सन्धि)
- तपस्तप्यताम् = तपः + तप्यताम् (विसर्ग सन्धि)
- पुनः पितरम् = पुनर् + पितरम् (विसर्ग सन्धि)
समास
- ब्रह्मज्ञानाय – ब्रह्मण: ज्ञानाय (षष्ठी तत्पुरुष)
- सविनयम् – विनयेन सहितम् (अव्ययीभाव)
- ब्रह्मविषये – ब्रह्मणः विषये (षष्ठी तत्पुरुष)
- अनेकवर्षाणि – न एकानि वर्षाणि (नञ् तत्पुरुष)
- ब्रह्मरूपेण – ब्रह्मणः रूपेण (षष्ठी तत्पुरुष)
प्रत्यय
- गत्वा – गम् + क्त्वा
- ज्ञातम् – ज्ञा + क्त
- तप्त्वा – तप् + क्त्वा

2 भृगुः – हे पित! अन्नाद् एव प्राणिनः जायन्ते । अन्नेन एव प्राणिनः जीवन्ति । अन्नेनैव शरीरं बलं च वर्धेते। अतोऽन्नं ब्रह्म इति । उच्यते हि-
आहारात् सर्वभूतानि सम्भवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
वरुणः – पुत्र! त्वया सम्यग् अवबुद्धम् । अत उच्यते – अन्नं हि भूतानां ज्येष्ठम्। तस्मात् (अन्नं) सर्वौषधम् इति उच्यते। अतः कदापि अन्नं न निन्द्यात्। अन्नं सदा ईश्वरबुद्ध्या सेवताम्। कदापि अन्नं न परिहर्तव्यम् । प्रयत्नेन अन्नं बहु कुर्वीत । सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम्। परं च हे वत्स ! ब्रह्म ज्ञातुम् इतोऽपि यतताम्। तपः कुरुताम्।
भृगुः – अस्तु तात!
(पुन:भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति । तपस्तप्त्वा पितुः समीपं गच्छति । आगतं पुत्रं दृष्ट्वा पिता पृच्छति)
वरुणः – हे पुत्र ! तपसा त्वया किं ज्ञातम् ?
भृगुः – हे पितः ! प्राणो वै ब्रह्म इति ।
वरुणः – हे भृगो ! कथं प्राणो ब्रह्म इति ज्ञातम् ? (पृष्ठ सं० -93-94)
शब्दार्था: –
- जायन्ते – उत्पन्न होते हैं;
- वर्धेते – बढ़ते हैं; महीपते हे स्वामी (सम्बोधन);
- ज्येष्ठम् – श्रेष्ठ;
- निन्द्यात् – निंदा करनी चाहिए;
- परिहर्तव्यम् – त्याग करना चाहिए।
अर्थ –
भृगु – हे पिता जी ! अन्न से ही प्राणी उत्पन्न होते हैं। अन्न से ही प्राणी जीवित रहते हैं। अन्न से ही शरीर और बल बढ़ते हैं। इसलिए अन्न ही ब्रह्म है। जैसा कि कहा गया है-
संसार के समस्त आहार से ही प्राणी उत्पन्न होते है।
आहार से ही उनकी वृद्धि होती है और उसी से जीव जीवित रहते हैं।
वरुण – पुत्र ! तुमने ठीक समझा । इसलिए कहा जाता है- अन्न ही प्राणियों में श्रेष्ठ है। उस (अन्न) को ‘सर्वौषध’ (सब दुखों की दवा ) कहा जाता है। अतः कभी भी अन्न की निंदा नहीं करनी चाहिए । अन्न को हमेशा ईश्वर मानकर ग्रहण करना चाहिए। कभी भी अन्न का त्याग नहीं करना चाहिए। प्रयत्नपूर्वक अन्न को बढ़ाना चाहिए । हमेशा सात्त्विक और हितकारी भोजन ही करना चाहिए । लेकिन हे वत्स! ब्रह्म को जानने के लिए इससे भी अधिक प्रयत्न करो। तप करो ।
भृगु – ठीक है पिता जी !
(पुनः भृगु पर्वत पर जाकर बहुत वर्षों तक तप करते हैं। तप करके पिता के पास जाते हैं। आए हुए पुत्र को देखकर पिता पूछते हैं-)
वरुण – हे पुत्र ! तप से तुमने क्या जाना?
भृगु – हे पिता जी ! प्राण ही ब्रह्म है।
वरुण – हे भृगु ! तुमने कैसे जाना कि प्राण ही ब्रह्म है?
व्याकरणम्-
पर्यायपदानि-
- वत्स – पुत्र:/ सुतः
- आहार: – अन्नम्/ भोजनम्
- महीपतिः – राजा / नृपः
विलोमपदानि –
- जायन्ते × म्रियन्ते
- ज्येष्ठम् × कनिष्ठम्
- सात्त्विकम् × तामसिकम्
- हितकारकम् × अहितकारकम्
- बहु × अल्पम्
विशेषण – विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- सात्त्विकम् – आहारम्
- बहूनि – वर्षाणि
- हितकारकम् – आहारम्
- सर्वाणि – भूतानि
सन्धि
- अन्नादेव = अन्नात् + एव (व्यञ्जन सन्धि)
- सर्वौषधम् = सर्व + औषधम् (स्वर सन्धि)
- अन्नेनैव = अन्नेन + एव (स्वर सन्धि)
- अतोऽन्नम् = अतः + अन्नम् (विसर्ग सन्धि)
- इतोऽपि = इतः + अपि (विसर्ग सन्धि)
- प्राणो वै = प्राण: + वै (विसर्ग सन्धि)
समास
- सर्वभूतानि – सर्वाणि भूतानि (कर्मधारय)
- ईश्वरबुद्धिः – ईश्वरस्य बुद्धि: (षष्ठी तत्पुरुष)
- हितकारकम् – हितं करोति इति (उपपद तत्पुरुष)
प्रत्यय
- दृष्ट्वा – दृश् + क्त्वा
- ज्ञातुम् – ज्ञा + तुमुन्
- परिहर्तव्यम् – परि + हृ + तव्यत्
- अवबुद्धम् – अव + बुध् + क्त

3. भृगुः – हे भगवन्!
प्राणो हि भूतानाम् आयुः । प्राणे शरीरं प्रतिष्ठितम्।
प्राण एव अस्माकं जीवनम् । प्राणेन विना शरीरं क्रियाशून्यं भवति । अतः प्राणो ज्येष्ठः श्रेष्ठश्च । तस्मात् प्राणो वै ब्रह्म इति विज्ञातम् ।
वरुणः – पुत्र! त्वया सत्यम् उदीरितम् । प्राणाद् एव इमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणशक्त्या एव शारीरिकक्रियाशक्तेर्विकासो भवति । अत एव प्राणः सर्वथा रक्षणीयः । तस्मात् प्राणविकासाय प्रतिदिनं प्राणायामः कर्तव्यः । उक्तं हि-
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्।।
पुत्र! भवान् तपसा प्राणतत्त्वस्य महत्त्वं ज्ञातवान् । किन्तु ब्रह्मज्ञानाय इतोऽपि कठोरं तपः कुरुताम्।
भृगुः – अस्तु पितः !
(सः पुनः बहुकालं यावद् वनं गत्वा तपश्चर्यां कुरुते । तपस्तप्त्वा प्रसन्नवदनो वरुणं निकषा प्राप्नोति, वरुणः भृगुं पृच्छति-)
(पृष्ठ सं०- 94-95)
शब्दार्थाः-
- प्रतिष्ठितम् – स्थित;
- क्रियाशून्यम् – काम न करने वाला;
- विज्ञातम् – विशेष रूप से जान लिया;
- उदीरितम् – कहा गया;
- निष्क्रान्ति – बाहर निकल जाना;
- निरोधयेत् – नियंत्रण करना चाहिए।
अर्थ –
भृगु – हे भगवन!
प्राण ही प्राणियों की आयु है। प्राण में ही शरीर स्थित है।
प्राण ही हमारा जीवन है। प्राण के बिना शरीर क्रियाहीन (जड़) हो जाता है। अतः प्राण सबसे बड़ा और श्रेष्ठ है। इसलिए ‘प्राण ही ब्रह्म है’, ऐसा मैंने जान लिया है।
वरुण – पुत्र ! तुमने सत्य कहा है। प्राण से ही ये सब प्राणी उत्पन्न होते हैं। उत्पन्न होने पर प्राण से ही जीवित रहते हैं। प्राणशक्ति से ही शरीर की क्रियाशक्ति का विकास होता है। इसलिए प्राण की सब प्रकार से रक्षा करनी चाहिए। अतः प्राण के विकास के लिए प्रतिदिन प्राणायाम करना चाहिए। जैसा कि कहा गया है-
जब तक शरीर में वायु (प्राण) स्थित है, तब तक ही जीवन कहा जाता है।
उसका बाहर निकल जाना ही मृत्यु है, इसलिए उस वायु को नियंत्रण में करना चाहिए।
पुत्र ! तुमने तप से प्राणतत्त्व का महत्त्व जान लिया । किन्तु ब्रह्मज्ञान के लिए इससे भी कठोर तप करो ।
भृगु – ठीक है पिता जी !
(वह पुन: बहुत समय तक वन जाकर तपस्या करते हैं। तप करके प्रसन्न मुख वाले भृगु वरुण के पास पहुँचते हैं, वरुण भृगु से पूछते हैं)
व्याकरणम्
पर्यायपदानि
- भगवन् – ईश्वर:/देवः
- देहः – शरीरम् / कायः
- प्राणः – वायुः / अनलः
विलोमपदानि
- जन्म × मृत्युः
- यावत् × तावत्
- प्रसन्नः × खिन्नः
विशेषण – विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- इमानि – भूतानि
- प्रसन्नवदनः – भृगुः
- कठोरम् – तपः
- क्रियाशून्यम् – शरीरम्
सन्धि
- प्राणो हि = प्राणः + हि (विसर्ग सन्धि)
- सत्यमुदीरितम् = सत्यम् + उदीरितम् (व्यञ्जन सन्धि)
- प्राण एव = प्राणः + एव (विसर्ग सन्धि)
- तस्मात्प्राणो = तस्मात् + प्राणः (व्यञ्जन सन्धि)
- तावज्जीवम् = तावत् + जीवनम् (व्यञ्जन सन्धि)
समास
- क्रियाशून्यम् – क्रियया शून्यम् (तृतीया तत्पुरुष)
- प्राणशक्ति: – प्राणस्य शक्ति: (षष्ठी तत्पुरुष)
- शारीरिकक्रिया – शरीरस्य क्रिया (षष्ठी तत्पुरुष)
- प्राणायामः – प्राणस्य आयाम: (षष्ठी तत्पुरुष)
प्रत्यय
- विज्ञातम् – वि + ज्ञा + क्त
- कर्तव्यः – कृ + तव्यत्
- रक्षणीयः – रक्ष् + अनीयर्
- गत्वा – गम् + क्त्वा
- ज्ञातवान् – ज्ञा + क्तवतु
- स्थितः = स्था + क्त
4. वरुणः – हे पुत्र ! त्वया तपसा किं ज्ञातम् ?
भृगुः – हे तात! मया तपसा मनो वै ब्रह्म इति ज्ञातम्।
वरुणः – पुत्र ! कथं मनो वै ब्रह्म इति ?
भृगुः – हे पितः ! मया तपसा एवम् अनुभूतं यद् अस्माकं मन एव सर्वकर्मणः प्रवर्तकम् । समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते। मानवः मनसा एव सर्वं कार्यं सम्पादयति । मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते । अतो मनो वै ब्रह्म इति ।
वरुणः – हे वत्स! त्वया सम्यग् अनुभूतं यद् मन एव सर्वमिति । अत उपनिषदि उच्यते-
कामः संकल्पो विचिकित्सा श्रद्धाऽ श्रद्धा ।
धृतिरधृतिर्हीींर्धीर्भीरित्येतत् सर्वं मन एव ।
भृगुः – वत्स! मानवः चिन्तनशक्त्या मननशक्त्या दृढसङ्कल्पशक्त्या च सर्वं लब्धुं शक्नोति । अतो मनसः शक्तिप्राप्तये मनः सदा सत्कर्मणा साधनीयम्। शोकादिरहितम् उत्साहयुक्तं शान्तं च करणीयम् । आहारशुद्धिश्च करणीया । किञ्च हे पुत्र! ब्रह्मज्ञानाय इतोऽपि प्रयतस्व । अस्तु श्रीमन् !
(पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते तपः कृत्वा पितुः समीपं प्राप्नोति, पिता तं पृच्छति) (पृष्ठ सं०- 95)
शब्दार्था: –
- प्रवर्तकम् – प्रेरणा देने वाला;
- सम्पादयति – पूरा करता है;
- विचिकित्सा – संदेह;
- धृतिः – धैर्यः ;
- ह्रीः – लज्जा;
- साधनीयम् – नियंत्रण में करना चाहिए।
अर्थ –
वरुण – हे पुत्र ! तुमने तपस्या से क्या जाना?
भृगु – हे पिता जी ! मैंने तपस्या से जाना कि ‘मन ही ब्रह्म है’।
वरुण – पुत्र ! मन ही ब्रह्म है, यह कैसे ?
भृगु – हे पिता जी ! मैंने तपस्या से ऐसा अनुभव किया कि हमारा मन ही सभी कर्मों का प्रेरक है । समस्त इंद्रियाँ भी मन के द्वारा ही संचालित होती हैं। मनुष्य मन से ही सभी कार्य संपन्न करता है। मन से ही संकल्प, भाव और विचार उत्पन्न होते हैं। इसलिए मन ही ब्रह्म है।
वरुण – हे वत्स! तुमने सही अनुभव किया कि मन ही सब कुछ है। इसीलिए उपनिषद में कहा गया है-
काम (इच्छा), संकल्प (निश्चय), विचिकित्सा (संदेह), श्रद्धा, अश्रद्धा,
धृति (धैर्य), अधृति, ही (लज्जा), धी और भी (भय) – यह सब मन ही है।
वत्स! मनुष्य चिंतनशक्ति, मननशक्ति और दृढ़ संकल्पशक्ति से सब कुछ प्राप्त कर सकता है। अतः मन की शक्ति प्राप्त करने के लिए मन को सदा सत्कर्मों से साधना चाहिए। इसे शोक आदि से रहित, उत्साहयुक्त और शांत करना चाहिए। आहार की शुद्धि भी करनी चाहिए। लेकिन हे पुत्र ! ब्रह्मज्ञान के लिए अभी और भी प्रयत्न करो।
भृगु – ठीक है श्रीमान !
(पुन: भृगु बहुत समय तक कठोर तप करते हैं, तप करके पिता के पास पहुँचते हैं, पिता उनसे पूछते हैं -)
व्याकरणम्-
पर्यायपदानि
- मनः – चित्तम्/मानसम्।
- धीः – आप
विलोमपदानि
- श्रद्धा × अश्रद्धा
- सत्कर्म × दुष्कर्म
- शान्तम् × अशान्तम्
विशेषण – विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- समस्तानि – इन्द्रियाणि
- शक्ति: – दृढसङ्कल्पः
- शान्त: – मनः
- कठोरम् – तपः
सन्धि
- तपसामनो = तपसा + मनः (विसर्ग सन्धि)
- श्रद्धाऽ श्रद्धा = श्रद्धा अश्रद्धा (स्वर सन्धि)
- सर्वमिति = सर्वम् + इति (स्वर सन्धि)
- इतोऽपि = इतः + अपि (विसर्ग सन्धि)
समास
- आहारशुद्धिः – आहारस्य शुद्धिः (षष्ठी तत्पुरुष)
- शोकादिरहितम् – शोकादिभिः रहितम् (तृतीया तत्पुरुष)
प्रत्यय
- अनुभूतम् – अनु + भू + क्त
- लब्धुम् – लभ् + तुमुन्
- कृत्वा – कृ + क्त्वा
- करणीया – कृ अनीयर्
- साधनीयम् – साध् + अनीयर्

5. वरुणः – हे भृगो! तपसा किम् अनुभूतम् ?
भृगुः – हे पितः ! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति ।
वरुणः – पुत्र ! किं नाम विज्ञानम् ?
भृगुः – हे भगवन् ! बुद्धितत्त्वमेव विज्ञानम् ।
वरुणः – पुत्र ! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम् ?
भृगुः – हे पितः ! बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवति । बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति । समग्रज्ञानं बुद्धौ एव विद्यते । अत एव विज्ञानं वै ब्रह्म इति। (पृष्ठ सं०- 95-96 )
शब्दार्था:-
- सूक्ष्मज्ञानेन – गहन ज्ञान के द्वारा;
- बोधशक्तेः – समझने की शक्ति का;
- विवेकशक्तिः – करने की शक्ति;
- सारथिरूपेण – रथ चलाने वाले के रूप में;
- विद्यते – विद्यमान है; प्रवर्तयति – प्रेरित करता है।
अर्थ –
वरुण – हे भृगु ! तपस्या से क्या अनुभव किया?
भृगु – हे पिता जी ! मैंने तपस्या और सूक्ष्म ज्ञान से यह जाना कि ‘विज्ञान ही ब्रह्म है’।
वरुण – पुत्र ! विज्ञान आखिर क्या है?
भृगु – हे भगवन ! बुद्धितत्त्व ही विज्ञान है।
वरुण – पुत्र ! तुमने यह कैसे जाना कि विज्ञान ही ब्रह्म है?
भृगु – हे पिता जी ! बुद्धितत्त्व के बिना हमारी समझने की शक्ति, तर्क करने की शक्ति, विवेक की शक्ति, निर्णय लेने की शक्ति और स्मरण शक्ति का विकास नहीं होता । बुद्धि ही सारथी के रूप में हमें कर्मों में प्रवृत्त करती है । सारा ज्ञान बुद्धि में ही समाहित है। इसलिए विज्ञान ही ब्रह्म है।
व्याकरणम् –
पर्यायपदानि
- बुद्धिः – धी: / मतिः/ मेधा
- ब्रह्म – परमात्मा / ईश्वरः
- स्मृति: – स्मरणम्/ चेतना
विलोमपदानि
- विज्ञानम् × अज्ञानम्
- स्मृति: × विस्मृतिः
- अस्मान × युष्मान
- निर्णयः × अनिर्णयः
विशेषण – विशेष्यचयनम्
- समग्रम् – ज्ञानम्
सन्धि
- किमनुभूतम् = किम् + अनुभूतम् (व्यञ्जन सन्धि)
- स्मृतिशक्तिश्च = स्मृतिशक्तिः + च (विसर्ग सन्धि)
- बुद्धावेव = बुद्धौ + एव (स्वर सन्धि)
- बुद्धिरेव = बुद्धि: + एव (विसर्ग सन्धि)
समास
- सूक्ष्मज्ञानेन – सूक्ष्मं च तत् ज्ञानम्, तेन (कर्मधारय)
- बुद्धितत्त्वम् – बुद्धेः तत्त्वम् (षष्ठी तत्पुरुष)
- बोधशक्तेः – बोधस्य शक्तिः, तस्याः (षष्ठी तत्पुरुष)
- सारथिरूपेण – सारथेः रूपेण (षष्ठी तत्पुरुष)
- समग्रज्ञानम् – समग्रं च तत् ज्ञानम् (कर्मधारय)
प्रत्यय
- ज्ञातम् – ज्ञा + क्त
- अनुभूतम् – अनुभू + क्त
- विज्ञातम् – वि ज्ञा + क्त
- स्मृति: – स्मृ + क्तिन्

6. वरुणः – पुत्र ! सत्यं भाषसे । अतः बौद्धिकविकासाय विज्ञानमयकोषस्य विकासः कर्त्तव्यः । तदर्थं प्रतिदिनं ध्यानं योगासनं च कर्तव्यम् । किञ्च यदि ब्रह्मणः स्वरूपं वेत्तुम् इच्छति तर्हि इतोऽपि प्रयतताम् अन्विष्यतां च ।
भृगुः – अस्तु श्रीमन् !
(भृगुः पुनः बहुकालं यावत् तपश्चर्यां करोति । तपस्तप्त्वा प्रसन्नमुखेन पितु: निकटे समुपस्थितो भवति।)
वरुणः – भोः वत्स! तपसा त्वया किं विज्ञातम् ?
भृगुः – हे भगवन्! अत्यन्तं सूक्ष्मचिन्तनेन तपसा च मया एवम् अवबुद्धम् आनन्दो वै ब्रह्म इति ।
वरुणः – हे पुत्र ! कथम् आनन्दो वै ब्रह्म इति ?
भृगुः – हे पितः ! अस्माकं सर्वकर्माणि आनन्दाय भवन्ति । अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव । आनन्देन एव प्राणिनो जीवन्ति । आनन्देन रहितं जीवनं मृत्युरूपमिति । तस्मात् आनन्दो वै ब्रह्म इति । (पृष्ठ सं०- 96-97)
शब्दार्थाः –
- वेत्तुम् – जानने के लिए;
- अन्विष्यताम् – खोज करनी चाहिए;
- समुपस्थितः – अच्छी तरह से उपस्थित;
- अवबुद्धम् – जान लिया;
- लक्ष्यम् – उद्देश्य;
- मृत्युरूपम् – मौत के समान ।
अर्थ –
वरुण – पुत्र! तुम सत्य बोल रहे हो । अतः बौद्धिक विकास के लिए विज्ञानमय कोष का विकास करना चाहिए। उसके लिए प्रतिदिन ध्यान और योगासन करना चाहिए । फिर भी, यदि तुम ब्रह्म के वास्तविक स्वरूप को जानना चाहते हो, तो इसके लिए और भी प्रयत्न करो और खोज करो।
भृगु – ठीक है श्रीमान !
(भृगु पुनः बहुत समय तक तपस्या करते हैं। तप करके प्रसन्न मुख के साथ पिता के पास उपस्थित होते हैं।)
वरुण – हे वत्स! तपस्या से तुमने क्या जाना?
भृगु – हे भगवन! अत्यंत सूक्ष्म चिंतन और तप से मैंने यह जान लिया है कि ‘आनन्द ही ब्रह्म है’।
वरुण – हे पुत्र ! आनन्द ही ब्रह्म है, यह कैसे ?
भृगु – हे पिता जी! हमारे सभी कर्म आनन्द के लिए होते हैं। हमारे कर्मों का लक्ष्य आनन्द की प्राप्ति ही है। आनन्द से ही सभी प्राणी जीते हैं। आनन्द के बिना जीवन मृत्यु के समान है। इसलिए आनन्द ही ब्रह्म है।
व्याकरणम्-
पर्यायपदानि
- आनन्दः – हर्ष:/मोदः/सुखम्
- लक्ष्यम् – ध्येयम् / उद्देश्यम्
- मुखम् – आननम् / वदनम्
विलोमपदानि
- अत्यन्तम् × अल्पम्
- प्राप्तिः × हानिः
- प्रसन्नः × खिन्नः
- सूक्ष्मम् × स्थूलम्
- रहितम् × सहितम्
- यदि × तर्हि
विशेषण – विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- मृत्युरूपम् – जीवनम्
सन्धि
- इतोऽपि = इतः + अपि (विसर्ग सन्धि)
- आनन्दप्राप्तिरेव = आनन्दप्राप्तिः + एव (विसर्ग सन्धि)
- मृत्युरूपमिति = मृत्युरूपम् + इति (व्यञ्जन सन्धि)
- आनन्दो वै = आनन्द: + वै (विसर्ग सन्धि)
समास
- बौद्धिक विकासाय – बौद्धिकः च असौ विकासः (कर्मधारय)
- आनन्दप्राप्तिः – आनन्दस्य प्राप्तिः (षष्ठी तत्पुरुष)
प्रत्यय
- वेत्तुम् – विद् + तुमुन्
- कर्तव्यम् – कृ + तव्यत्
- समुपस्थितः – सम् + उप + स्था + क्त
- रहितम् – रह् + क्त

7. वरुणः – हे वत्स! त्वया सत्यं प्रकटितम् । अतः आनन्दप्राप्तये प्रतिदिनं ध्यानं योगासनं च कर्तव्यम् । प्राणिषु दया कर्तव्या । परोपकारः कर्तव्यः । रागः, द्वेष, ईर्ष्या, क्रोध, लोभ, मोहश्च हातव्याः । सर्वदा ईश्वरं सेवतां मोदतां च ।
भृगुः – अस्तु श्रीमन् ! तथैव आचरामि ।
वरुणः – हे पुत्र! त्वं तपसा सूक्ष्मविज्ञानेन च अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दस्य च महत्त्वं ज्ञातवान् । एतैः पञ्चभिरेव अस्माकं पूर्णविकासो भवति, अत: एते ब्रह्मपदेन व्यवह्रियन्ते । ब्रह्मणः स्वरूपं तु ततोऽपि परे अस्ति । एतानि ब्रह्मज्ञानाय द्वाराणि सन्ति। यदि एतेषां क्रमशो विकासं करिष्यसि तर्हि ब्रह्मणः स्वरूपबोधो भविष्यति । उक्तञ्च-
आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति
भृगुः – अस्तु श्रीमन् ! अनुगृहीतोऽस्मि । (पृष्ठ सं०- 97)
शब्दार्था: –
- प्रकटितम् – सामने रखा;
- हातव्याः – त्याग देने चाहिए;
- व्यवह्रियन्ते – पुकारे जाते हैं;
- स्मृतिलम्भे – स्मृति प्राप्त होने पर;
- विप्रमोक्षः – पूरी तरह से मुक्त हो जाना।
अर्थ –
वरुण – हे वत्स! तुमने सत्य को प्रकट किया है। अतः आनंद की प्राप्ति के लिए प्रतिदिन ध्यान और योगासन करना चाहिए । प्राणियों पर दया करनी चाहिए। परोपकार करना चाहिए। राग, द्वेष, ईर्ष्या, क्रोध, लोभ और मोह को त्याग देना चाहिए । हमेशा ईश्वर की सेवा करो और प्रसन्न रहो ।
भृगु – ठीक है श्रीमान ! मैं वैसा ही आचरण करूँगा।
वरुण – हे पुत्र! तुमने तप और सूक्ष्म विज्ञान से अन्न, प्राण, मन, विज्ञान और आनंद का महत्त्व जान लिया है। इन पाँचों से ही हमारा पूर्ण विकास होता है, इसलिए इन्हें ‘ब्रह्म’ के पद से संबोधित किया जाता है। ब्रह्म का वास्तविक स्वरूप तो इनसे भी परे है। ये तो ब्रह्मज्ञान की सीढ़ियाँ हैं। यदि तुम इनका क्रमशः विकास करोगे तो ब्रह्म के स्वरूप का बोध हो जाएगा। कहा भी गया है-
आहार की शुद्धि होने से अंत:करण की शुद्धि होती है, अंत:करण की शुद्धि होने से बुद्धि स्थिर होती है,
और बुद्धि के स्थिर हो जाने पर हृदय की समस्त ग्रंथियाँ (अज्ञान की) गांठें पूरी तरह खुल जाती हैं।
भृगु – ठीक है श्रीमान ! मैं आपका आभारी हूँ।
व्याकरणम्
पर्यायपदानि
- प्रतिदिनम – नित्यम्/अहरहः
- ईश्वर: – प्रभुः / परमात्मा
- शुद्धि: – पवित्रता / निर्मलता
विलोमपदानि
पूर्ण: अपूर्ण:
- परोपकारः अपकारः
- मोक्षः × बन्धनम्
- दया × क्रूरता
- लोभः × संतोषः
- रागः × द्वेषः
विशेषण-विशेष्यचयनम्
- विशेषणम् – विशेष्यः
- एतानि – द्वाराणि
- पूर्णः – विकास:
सन्धि-
- ततोऽपि = ततः + अपि (विसर्ग सन्धि)
- पञ्चभिरेव = पञ्चभिः एव (विसर्ग सन्धि)
- तथैव = तथा + एव (स्वर सन्धि)
- अनुगृहीतोऽस्मि = अनुगृहीतः + अस्मि (पूर्वरूप सन्धि)
- ग्रन्थीनां विप्रमोक्षः = ग्रन्थीनाम् + विप्रमोक्षः (अनुस्वार सन्धि)
समास
- आनन्दप्राप्तये – आनन्दस्य प्राप्तये (षष्ठी तत्पुरुष)
- आहारशुद्ध – आहारस्य शुद्धौ (षष्ठी तत्पुरुष)
- पूर्णविकास: – पूर्ण: च असौ विकासः (कर्मधारय)
- ब्रह्मपदेन – ब्रह्मणः पदेन (षष्ठी तत्पुरुष)
- स्वरूपबोधः – स्वरूपस्य बोधः (षष्ठी तत्पुरुष)
- सर्वग्रन्यीनाम् – सर्वाः च ताः गन्थयः (कर्मधारय)
प्रत्यय
- प्रकटितम् – प्र + कट् + क्त
- हातव्याः – हा + तव्यत्
- ज्ञातवान् – ज्ञा + क्तवतु
- कर्तव्या – कृ + तव्यत्

अत्र इदम् अवधेयम्
मानव क्रमशः शरीर, प्राण, मन, बुद्धि और आध्यात्मिक शक्ति के द्वारा पूर्ण विकास को प्राप्त करता है। अतः सम्पूर्ण जीवन के विकास के लिए
- अन्नमय कोष,
- प्राणमय कोष,
- मनोमय कोष,
- विज्ञानमय कोष,
- आनन्दमय कोष
शास्त्रों में पाँच कोषों का वर्णन किया गया है। इन्हीं के महत्त्व का वर्णन इस पाठ में किया गया है। मनुष्य इन पञ्चकोषों के विवेक से अपना समग्र विकास प्राप्त करता है। इन पाँचों कोषों का आपस में गहरा सम्बन्ध है। विकास का क्रम अन्नमय कोष (शारीरिक स्वास्थ्य) के विकास के बिना प्राणमय कोष का विकास नहीं हो सकता। अन्नमय और प्राणमय कोष के विकास के बिना मनोमय कोष का विकास सम्भव नहीं है। इसी प्रकार, क्रमिक विकास के लिए सबसे पहले अन्नमय कोष के विकास का प्रयत्न करना चाहिए। उसके बाद क्रमशः प्राणमय, मनोमय, विज्ञानमय और अन्त में आनन्दमय कोष का विकास करना चाहिए। इसी क्रमिक विकास पद्धति को अपनाकर ही मनुष्य पूर्णता को प्राप्त करता है।