Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

Daily practice of Sharda Sanskrit Book Class 9 Solutions and Class 9th Sanskrit Sharada Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् NCERT Solutions builds a strong language foundation over time.

Sanskrit Class 9 Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

Class 9 Sanskrit Ch 7 Question Answer NCERT Solutions उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् प्रश्न उत्तर कक्षा 9

अभ्यासाद् जायते सिद्धिः

१. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) नरस्य वृत्तं के जानन्ति ?
(ख) धर्मबुद्धयः किं वीक्षन्ते ?
(ग) कस्य जन्मनः फलं व्यर्थम् ?
(घ) पापबुद्धिः स्वपितरं किम् उक्तवान् ?
(ङ) प्राज्ञः किं किं चिन्तयेत् ?
(च) मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति ?
(छ) पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थित: ?
उत्तर:
(क) आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च अहश्च रात्रिश्च उभे च संध्ये धर्मः च नरस्य वृत्तं जानन्ति ।
(ख) धर्मबुद्धयः परदारेषु मातृवत्, परद्रव्येषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् वीक्षन्ते।
(ग) येन धरणीपीठे भ्रमता देशान्तरेषु बहुविधभाषावेषादि न ज्ञातं, तस्य जन्मनः फलं व्यर्थम् ।
(घ) पापबुद्धिः स्वपितरम् उक्तवान् यत् सः शमीकोटरे प्रविश्य प्रभाते ‘धर्मबुद्धिः चौर:’ इति वदतु ।
(ङ) प्राज्ञः उपायं चिन्तयेत् तथा अपायं च चिन्तयेत् ।
(च) यदा मानव: हृष्टः सन् भूमौ देशादेशान्तरं व्रजति, तदा सः विद्यां वित्तं शिल्पं च सम्यक् प्राप्नोति ।
(छ) पापबुद्धिः ‘अहं दरिद्रतापीडितः अस्मि, अतः धर्मबुद्धिं स्वीकृत्य अन्यदेशं गत्वा तस्य आश्रयणेन धनं सम्पादयामि, अनन्तरम् एनमपि वञ्चयित्वा सुखी भवामि इति चिन्तयित्वा देशान्तरं प्रस्थितः ।

२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

(क) एनम् अपि वञ्चयित्वा सुखी भवामि ।
(ख) सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः ।
(ग) निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान् ।
(घ) तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः ।
(ङ) अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि ।
उत्तर:
(क) कम् अपि वञ्चयित्वा सुखी भवामि ?
(ख) सर्वं धनं स्वीकृत्य कुत्र गच्छावः ?
(ग) कदा अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान् ?
(घ) तत् आकर्ण्य सर्वे ते जनाः कीदृशाः सञ्जाता: ?
(ङ) अहम् एतत् शमीकोटरं केन प्रज्वालयामि ?

३. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति लिखत-

Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् 1
उत्तर:
कः – कं प्रति
(क) पापबुद्धेः पिता – पापबुद्धि
(ख) धर्माधिकारी – धर्मबुद्धि- पापबुद्धिम्
(ग) पापबुद्धिः – धर्मबुद्धिम्
(घ) धर्मबुद्धिः – पापबुद्धिम्
(ङ) पापबुद्धेः पिता – धर्माधिकारिणम्

Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

४. उदाहरणानुसारं भूतकालिकवाक्यानि वर्तमानकालिकवाक्येषु परिवर्तयत-

Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् 2
भूतकालिकवाक्यानि – वर्तमानकालिकवाक्यानि
उदाहरणम्- भवानपि मया सहैव प्रभूतं धनं प्राप्तवान्। – भवानपि मया सहैव प्रभूतं धनं प्राप्नोति ।
(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः। – …………………..
(ख) पापबुद्धिः अत्यधिकं धनं सम्पादितवान्। – …………………..
(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान्। – …………………..
(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्। – …………………..
(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः । – …………………..
उत्तर:
(क) राजपुरुषाः पापबुद्धिं दण्डयन्ति ।
(ख) पापबुद्धिः अत्यधिकं धनं सम्पादयति ।
(ग) पापबुद्धिः वनदेवतायाः समीपम् आगच्छति ।
(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् वदति / कथयति ।
(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसन्ति ।

५. श्लोकानां भावार्थान् विचिन्त्य कोष्ठकात् समुचितपदैः रिक्तस्थानानि पूरयत-

Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् 3
(क) सूर्यः चन्द्रः …….. अग्निः आकाश: भूमिः जलं ……. यमः दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं ……. जानन्ति । अतः वयं सर्वदा उत्तमं व्यवहारं कुर्मः । (व्यवहारं/पवन: / हृदयं)
(ख) यः ……. न अटति, विविधदेशानां संस्कृती: च न जानाति, पृथिवीपृष्ठे तस्य जन्म …….. भाति । (भाषा: / व्यर्थं / अन्यदेशेषु)
(ग) सज्जनाः सर्वासु नारीषु ……. इव, अन्येषां ……. मृत्पिण्डम् इव, सर्वेषु प्राणिषु च …….. इव चिन्तयन्ति । (द्रव्येषु / स्वयम् / मातरः)
(घ) बुद्धिमान् मनुष्यः ……….. मार्गान् समस्यादूरीकरणस्य …….. च ……..। (कौशलानि / कार्यसाधनस्य / जानीयात्)
उत्तर:
(क) पवनः, हृदयं, व्यवहारं
(ख) अन्यदेशेषु, भाषाः, व्यर्थं
(ग) मातरः, द्रव्येषु, स्वयम्
(घ) कार्यसाधनस्य, कौशलानि, जानीयात्

६. उदाहरणं दृष्ट्वा अधोलिखितानां पदानां विग्रहं मेलनं वा कुरुत-

उदाहरणम्- अर्थोपार्जनम् – अर्थस्य उपार्जनम्|
(क) गुरुजनाज्ञया – ………………
(ख) वनदेवता – ………………….
(ग) ………… – वित्तस्य अभावात्
(घ) बुद्धिप्रभावेण – ……………….
(ङ) ……………. – धरण्याः पीठे
(च) राजकुले – …………………..
Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् 4
उत्तर:
(क) गुरुजनानाम् आज्ञया
(ख) वनस्य देवता
(ग) धनाभावात्
(घ) बुद्धेः प्रभावेण
(ङ) धरणीपीठे
(च) राज्ञः कुले

Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

७. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत-

(क) भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति ।
(ख) ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ ।
(ग) द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ।
(घ) कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतित्रसतः स्म ।
(ङ) यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ।
(च) राजपुरुषाः पापबुद्धिं दण्डितवन्तः ।
उत्तर:
(१) (घ) – कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतित्रसतः स्म ।
(२) (ख) – ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ ।
(३) (ङ) – यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ।
(४) (ग) – द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ।
(५) (क) – भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति ।

स्वाध्यायान्मा प्रमदः

१. पञ्चतन्त्रम् –पञ्चतन्त्रं नीतिशिक्षाप्रदानां रोचकानां कथानां सङ्ग्रहः वर्तते। अस्य ग्रन्थस्य लेखकः विष्णुशर्मा अस्ति । पशुपक्षिणां कथामाध्यमेन नीतिशास्त्रस्य गहनतत्त्वमपि सरलतया अत्र शिक्षितम्। अस्मिन् ग्रन्थे कथाः पञ्चसु तन्त्रेषु विभक्ताः सन्ति। यथा—मित्रभेदः, मित्रसम्प्राप्तिः, काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकं चेति। प्रस्तुतकथा मित्रभेदः इति प्रथमतन्त्रात् स्वीकृता ।

२. क्तवतुप्रत्ययः – भूतकालार्थे कर्तरि धातोः क्तवतुप्रत्ययस्य प्रयोगः भवति। क्तवतुप्रत्ययान्तपदानि विशेषणपदत्वेन प्रयुज्यन्ते । कर्तृपदानुसारं क्तवतुप्रत्ययान्तपदानां लिङ्गवचननिर्धारणं भवति ।
यथा-
Class 9 Sanskrit Chapter 7 Question Answer उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् 5

उदाहरणवाक्यानि –
(क) ह्यः शिक्षकः पञ्च श्लोकान् पाठितवान् ।
(ख) गतशनिवासरे छात्राः विद्यालयपरिसरे स्वच्छतां कृतवन्तः ।
(ग) माता प्रातः स्वल्पाहारं दत्तवती ।
(घ) गतवर्षे वार्षिकोत्सवे नवमकक्षायाः छात्राः नाटके अभिनीतवन्तः ।
(ङ) गतसप्ताहे वयं जयपुरं गतवन्तः ।

३. तत्पुरुषसमासः – द्वयोः पदयोः, अनेकेषां पदानां वा एकपदीकरणं भवति समासः। तत्पुरुषसमासे उत्तरपदस्य प्रधानता भवति। यस्य पदस्य क्रियया सह सम्बन्धः भवति तत् पदं प्रधानम् इत्युच्यते । पूर्वपदस्य विभक्तीनां लोपः क्रियते । यस्याः विभक्तेः लोपं कृत्वा पदमेलनं भवति तन्नाम्ना एव तस्य तत्पुरुष समासस्य नाम भवति ।
यथा-

  • शरणम् आगतः-शरणागतः – द्वितीयातत्पुरुषः
  • सुखेन अन्वितः-सुखान्वितः – तृतीयतत्पुरुषः
  • छात्रेभ्यः हितम्-छात्रहितम् – चतुर्थीतत्पुरुषः
  • रोगात् भयम्-रोगभयम् – पञ्चमीतत्पुरुषः
  • देशस्य भक्त:-देशभक्तः – षष्ठीतत्पुरुषः
  • कार्ये कुशलः-कार्यकुशलः – सप्तमीतत्पुरुषः

यस्तु क्रियावान् मनुजः स विद्वान्

१. पुस्तकालयात् पञ्चतन्त्रस्य पुस्तकं स्वीकृत्य एकां कथां पठत । तस्याः कथायाः सारांशं संस्कृतेन लिखित्वा कक्षायां श्रावयत।
२. कक्षायां छात्राः अध्यापकस्य साहाय्येन कथाधारितस्य नाटकस्य प्रस्तुतिं कुर्वन्तु ।