Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary

For quick revisions Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 10 Hindi Translation Summary Explanation Notes णमो अरिहन्ताणम् are highly effective study resources.

Sanskrit Class 9 Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary

कक्षा 9 संस्कृत पाठ 10 हिंदी अनुवाद

Class 9 Sanskrit Chapter 10 Summary Notes णमो अरिहन्ताणम्

यह पाठ जैन धर्म के प्रथम तीर्थंकर भगवान ऋषभदेव के जीवन और उनकी शिक्षाओं पर आधारित है। उन्होंने अपनी प्रजा को कृषि, कला और विभिन्न कौशलों का प्रशिक्षण देकर समाज को समृद्ध और स्वावलंबी बनाया। एक नर्तकी की अचानक मृत्यु देखकर उनके मन में वैराग्य उत्पन्न हुआ, जिसके बाद उन्होंने राजपाट त्यागकर कठिन तपस्या का मार्ग अपनाया। प्रयागराज में अक्षयवट के नीचे उन्हें ‘केवलज्ञान’ प्राप्त हुआ, जिसके बाद वे ‘आदिनाथ’ कहलाए। उन्होंने संसार को पंचमहाव्रत और अहिंसा जैसे कल्याणकारी सिद्धांतों का मार्ग दिखाया, जो आज भी विश्व शांति के लिए प्रासंगिक हैं।

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 1

Class 9 Sanskrit Sharada Chapter 10 Hindi Translation

Sanskrit Class 9 Chapter 10 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 10 हिंदी अनुवाद

1. आसीत् युगानाम् आरम्भे प्रजानां प्रियः नाभिनामकः कश्चन महाराजः । सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः । तस्य पत्नी मरुदेवी बुद्धिमती करुणाशालिनी च। तयोः एव प्रियपुत्रः ऋषभः । ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत् । यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य नाभिः तस्मै राज्यभारं समर्पयितुम् अचिन्तयत्।

अथैकदा समाजे दुर्भिक्षादयः समस्याः समुदभवन्। जनेषु परस्परं विद्वेषादयः भावनाः आविरभवन्। तदा नाभिः ” अयं कालः ऋषभस्य राजनीतेः परीक्षार्थं सुयोग्यः” इति मन्यमानः तस्मै राज्यं समर्पितवान् । ऋषभः यदा राजा अभवत् तदा सः आदौ जनानां समस्या: काः, दुर्भिक्षस्य कारणं किं, जनेषु कुतः परस्परं विद्वेषः, समस्यानां समाधानोपायाः के इत्यादिषु विषयेषु चिन्तनं कृतवान् । तेन काचित् स्पष्टकल्पना प्राप्ता यत् जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः चेत्येतादृश्यः मूलसमस्याः सन्ति इति। (पृष्ठ सं०- 127-128)

शब्दार्था: –

  • आरम्भे – शुरुआत में;
  • समर्थः – योग्य; वीक्ष्य-देखकर;
  • आविरभवन् – पैदा हुए;
  • चिन्तनम् – सोच-विचार ।

अर्थ – युगों के प्रारंभ में प्रजा के प्रिय ‘नाभि’ नाम के कोई महाराज थे। वे राजनीति, युद्धतंत्र और प्रशासन आदि में समर्थ थे। उनकी पत्नी मरुदेवी बुद्धिमती और करुणा से युक्त थीं। उन दोनों के प्रिय पुत्र ऋषभ थे। ऋषभ सभी गुणों से संपन्न, शिक्षित और राजनीतिज्ञ थे। युवावस्था से सुशोभित उस राजकुमार को देखकर नाभि ने उन्हें राज्य का भार सौंपने के बारे में सोचा।

इसके बाद एक बार समाज में अकाल आदि समस्याएँ उत्पन्न हुईं। लोगों में आपस में द्वेष आदि की भावनाएँ प्रकट हुईं। तब नाभि ने “ यह समय ऋषभ की राजनीति की परीक्षा के लिए सुयोग्य है” ऐसा मानते हुए उन्हें राज्य सौंप दिया। ऋषभ जब राजा बने, तब उन्होंने प्रारंभ में लोगों की समस्याएँ क्या हैं, अकाल का कारण क्या है, लोगों में आपस में द्वेष क्यों है और समस्याओं के समाधान के उपाय क्या हैं – इत्यादि विषयों पर चिंतन किया । उससे उन्हें एक स्पष्ट विचार प्राप्त हुआ कि लोगों का आलस्य, खेती के कार्य में कमी और प्रजा में उत्पादन क्षमता का अभाव ही मुख्य समस्याएँ हैं।

व्याकरणम्-

पर्यायपदानि –

  • महाराजः – नृप: / भूपतिः
  • पुत्रः – सुत: / तनयः
  • कालः – समय: / अवधिः

विलोमपदानि –

  • आरम्भे × अन्ते
  • विद्वेषः × प्रेम
  • आलस्यम् × उद्यमः

विशेषण-विशेष्यचयनम् –

  • विशेषणम् – विशेष्यः – विशेषणम् – विशेष्यः
  • प्रियः – महाराज: – सुयोग्यः – काल:
  • बुद्धिमती – मरुदेवी – सर्वगुणसम्पन्नः – ऋषभः

सन्धि –

  • अथैकदा = अथ + एकदा (स्वर सन्धि)
  • चेत्येतादृश्यः = च + इति एतादृश्यः (स्वर सन्धि)
  • सोऽभवत् = सः + अभवत् (विसर्ग सन्धि)
  • यदाभवत् = यदा + अभवत् (स्वर सन्धि)

समास –

  • राजनीतिः – राज्ञः नीति: (षष्ठी तत्पुरुष)
  • राज्यभारम् – राज्यस्य भारम् (षष्ठी तत्पुरुष)
  • सर्वगुणसम्पन्नः – सर्वैः गुणैः सम्पन्नः (तृतीया तत्पुरुष)
  • युद्धतन्त्रम् = युद्धस्य तन्त्रम् (षष्ठी तत्पुरुष)

प्रत्यय –

  • वीक्ष्य – वि+ ईक्ष् + ल्यप्
  • मन्यमानः – मन् + शानच्
  • प्राप्तवान् – प्र आप् + क्तवतु
  • समर्पितवान् – सम् + अ + क्तवतु

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 2

2. अतः सः मूलसमस्यानां परिष्काराय जनानां सुखमय जीवनाय च विविधाः योजनाः रचितवान् । विशेषरूपेण कृषिकार्यं, विविधपदार्थैः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं चेत्यादीनि जीवन – कौशलानि प्रशिक्षितवान् । काष्ठैः धातुभिः शिलाभिः च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रशिक्षितवान् । तेन क्रमशः जनाः सक्रियाः अभवन् जीवनपद्धतिं च परिवर्तितवन्तः । क्रमशः जनानाम् आर्थिकस्थितिः अपि सुदृढा जाता। जनाः स्वयमेव गृहाणां विविधभोज्यपदार्थानां नित्योपयोगिवस्तूनां च निर्माणं कर्तुम् आरब्धवन्तः । कृषिकार्याणि अपि प्रचुरतया आरब्धानि । तेन जनानां समस्या: स्वयमेव परिहृताः, राज्यं पुनः सुभिक्षं चाभवत् ।

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ।। (पृष्ठ सं०- 128-129)

शब्दार्थाः –

  • परिष्काराय – समाधान के लिए;
  • तन्तुभिः – धागों से;
  • सुदृढा – बहुत मजबूत;
  • प्रचुरतया- अधिक मात्रा में;
  • परिहृताः – नष्ट हो गई।

अर्थ-
इसलिए उन्होंने (ऋषभदेव ने) मूल समस्याओं के समाधान के लिए और लोगों के सुखमय जीवन के लिए विभिन्न योजनाएँ बनाईं। विशेष रूप से खेती का काम, विभिन्न पदार्थों से भोजन बनाना, धागों से कपड़े बुनना, गाय और घोड़े आदि पशुओं का पालन करना – इत्यादि जीवन – कौशल सिखाए। लकड़ी, धातुओं और पत्थरों से घर में काम आने वाली वस्तुओं का निर्माण, बर्तन बनाना, घर बनाना और नगर निर्माण आदि का प्रशिक्षण दिया। उससे धीरे-धीरे लोग सक्रिय हुए और उन्होंने अपनी जीवन पद्धति को बदल लिया।

क्रमशः लोगों की आर्थिक स्थिति भी मजबूत हो गई। लोगों ने स्वयं ही घरों का, विभिन्न खाद्य पदार्थों का और रोजमर्रा की वस्तुओं का निर्माण करना शुरू कर दिया। खेती के कार्य भी प्रचुर मात्रा में शुरू हो गए। उससे लोगों की समस्याएँ अपने आप दूर हो गईं और राज्य फिर से खुशहाल हो गया।
प्रजा के सुख में ही राजा का सुख है और प्रजा के हित में ही उसका हित है।
राजा के लिए अपना प्रिय (स्वार्थ) हितकारी नहीं है, बल्कि प्रजा का प्रिय ही उसका वास्तविक हित है।

व्याकरणम् –

पर्यायपदानि –

  • अश्वः – हय: / तुरग:
  • शिलाभिः – पाषाणै:
  • वस्त्रम् – वसनम् / परिधानम्

विलोमपदानि –

  • सुखमयम् × दु:खमयम्
  • सक्रियः × निष्क्रियः
  • सुदृढा × दुर्बला
  • प्रचुरतया × अल्पतया

विशेषण – विशेष्यचयनम्-

  • विशेषणम् – विशेष्यः
  • विविधाः – योजना:
  • सुभिक्षम् – राज्यम्
  • सुदृढा – आर्थिक स्थितिः
  • सक्रिया: – जना:

सन्धि

  • चेत्यादीनि = च + इति + आदीनि (स्वर सन्धि)
  • नात्मप्रियम् = न + आत्मप्रियम् (स्वर सन्धि)
  • चाभवत् = च + अभवत् (स्वर सन्धि)
  • गृहोपयोगिनाम् = गृह + उपयोगिनाम् (स्वर सन्धि)
  • अश्वादीनाम् = अश्व + आदीनाम् (स्वर सन्धि)
  • नगरनिर्माणादिकम् = नगरनिर्माण + आदिकम् (स्वर सन्धि)

समास

  • मूलसमस्यानाम् – मूला: च ताः समस्या (कर्मधारय)
  • विविधयोजनाः – विविधाः च ताः योजना: (षष्ठी तत्पुरुष)
  • पात्रनिर्माणम् – पात्राणां निर्माणम् (षष्ठी तत्पुरुष)
  • नगरनिर्माणम् – नगरस्य निर्माणम् (षष्ठी तत्पुरुष)
  • प्रजासुखे – प्रजानां सुखे (षष्ठी तत्पुरुष)
  • आत्मप्रियम् – आत्मनः प्रियम् (षष्ठी तत्पुरुष)

प्रत्यय

  • रचितवान् – रच् + क्तवतु
  • आरब्धवन्तः – आ + रभ् + क्तवतु
  • प्रशिक्षितवान् – प्र + शिक्षु + णिच् + क्तवतु
  • परिवर्तितवन्तः – परि + वृत् + णिच् + क्त
  • परिहृताः – परि + ह् + क्त
  • कर्तुम् – कृ + तुमुन्

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 3

3. ऋषभः जनानां जीवने शान्तिं सुरक्षां न्यायिकव्यवस्थां च पुनः सुदृढां कृतवान् । एवम् ऋषभस्य दक्षशासनेन कौशलेन च विनितानाम्नः नगरस्य निर्माणम् अभवत्। समाजस्य उत्कर्षेण सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान् । अतः तं प्रजाः प्रेम्णा राजा ऋषभदेवः इति कथयन्ति स्म । ऋषभदेवः समाजस्य उत्कर्षेण सह साम्राज्यस्यापि विस्तारं कृतवान् । एतादृशस्य महाराजस्य पुत्राः अपि शौर्येण पराक्रमेण बुद्धिबलेन च विश्वप्रसिद्धाः आसन् । तादृशेषु शते पुत्रेषु विशेषरूपेण भरतः बाहुबलिः च अत्यन्तं सुविख्यातौ । तथैव ऋषभस्य पुत्रीषु ब्राह्मी सुन्दरी चेति द्वे कन्ये अपि गणितादिषु शास्त्रेषु प्रवीणे प्रसिद्धे च आस्ताम्।

जैनसम्प्रदायानुगुणं ‘ब्राह्मीलिप्या:’ विकासः ब्राह्मीद्वारैव कृता इति श्रूयते । तस्यामेव लिप्यां शिलालेखाः उपलभ्यन्ते एवं सर्वोन्मुखसमृद्ध्या ऋषभदेवः जीवने प्राप्तानन्दः परमसुखी च आसीत्। परं को वा जानाति विधिलिखितम् । ऋषभदेवस्यापि जीवने काचित् तादृशी घटना संवृत्ता यया तस्य जीवनमेव परिवर्तितम् । उच्यते हि-

दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ।। (पृष्ठ सं०- 129-130)

शब्दार्थाः-

  • सुदृढां-कृतवान् – मजबूत किया;
  • उत्कर्षेण – उन्नति से;
  • प्रवीणे – निपुणतो में;
  • उपलभ्यन्ते – प्राप्त होते हैं;
  • संवृत्ता – घटित हुई;
  • दैवम् – भाग्य ।

अर्थ-
ऋषभदेव ने लोगों के जीवन में शांति, सुरक्षा और न्याय व्यवस्था को फिर से मजबूत किया। इस प्रकार ऋषभ के कुशल शासन और कौशल से विनीता नाम की नगरी (अयोध्या) ने समृद्धि प्राप्त की । इसलिए प्रजा उन्हें प्रेम से राजा ऋषभदेव कहती थी। ऋषभदेव ने समाज की उन्नति के साथ साम्राज्य का भी विस्तार किया। ऐसे महाराज के पुत्र भी शौर्य, पराक्रम और बुद्धिबल में विश्व प्रसिद्ध थे। उन सौ पुत्रों में विशेष रूप से भरत और बाहुबली अत्यंत विख्यात थे। उसी प्रकार ऋषभ की पुत्रियों में ब्राह्मी और सुन्दरी नामक दो कन्याएँ भी गणित आदि शास्त्रों में चतुर और प्रसिद्ध थीं ।

जैन संप्रदाय के अनुसार ‘ब्राह्मी लिपि’ का विकास ब्राह्मी के द्वारा ही किया गया ऐसा सुना जाता है। उसी लिपि में शिलालेख प्राप्त होते हैं। इस प्रकार समृद्धि से ऋषभदेव जीवन में आनंदित और परम सुखी थे। परंतु भाग्य के लिखे को कौन जानता है। ऋषभदेव के जीवन में भी कोई ऐसी घटना घटी जिससे उनका जीवन ही बदल गया। कहा भी गया है-

यह सम्पूर्ण जगत, जन्म, कर्म और शुभ-अशुभ फल सब भाग्य के अधीन हैं।
मिलन और बिछड़ना भी भाग्य से ही होता है, भाग्य (दैव) से बढ़कर कोई दूसरी शक्ति नहीं है।

व्याकरणम्-

पर्यायपदानि-

  • प्राज्ञाः – जना / लोक:
  • उत्कर्षः – उन्नतिः / विकास
  • बलम् – शक्तिः/सामर्थ्यम्

विलोमपदानि-

  • उत्कर्ष × अपकर्ष
  • समृद्धिः × दरिद्रता
  • संयोगः × वियोग:

विशेषण-विशेष्यचयनम्-

  • विशेषणम् – विशेष्यः
  • तस्याम् – लिप्याम्
  • तादृशी – घटना

सन्धि

  • चेति = च + इति (स्वर सन्धि)
  • बाहुबलीश्च = बाहुबली: + च (षष्ठी तत्पुरुष)
  • साम्राज्यस्यापि – साम्राज्यस्य + अपि (स्वर सन्धि)
  • सर्वोन्मुख = सर्वः + उन्मुख (स्वर सन्धि)

समास-

  • न्यायिकव्यवस्था – न्यायस्य व्यवस्था (षष्ठी तत्पुरुष)
  • बुद्धिबलेन – बुद्धेः बलेन (षष्ठी तत्पुरुष)
  • विश्वप्रसिद्धाः – विश्वे प्रसिद्धाः (सप्तमी तत्पुरुष)
  • ब्राह्मीलिप्याः – ब्राह्मया: लिपि:, तस्याः (षष्ठी तत्पुरुष)
  • विधिलिखितम् – विधिना लिखितम् (षष्ठी तत्पुरुष)
  • शुभावहम् – शुभम् आवहति इति (उपपद तत्पुरुष)

प्रत्यय

  • कृतवान् – कृ + क्तवतु
  • प्राप्तवान् – प्र + आप् + क्तवतु
  • शासनम् – शास् + संवृत्ता
  • संवृता – सम् + वृत् + + क्त + टाप्

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 4

4. एकदा ऋषभदेव : राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान् । तत्र आगता काचित् नर्तकी नृत्यकला प्रदर्शयन्ती सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत् । कथं काचित् आरोग्यवती स्त्री सहसा मरणं प्राप्तवती, किं नाम जीवनम्, कथं जीवनीयम्, इत्यादयः अनेके प्रश्नाः तस्य बुद्धौ आविरभवन् । इह संसारे किमपि शाश्वतं नास्ति, इदं सुखं स्थायि नास्ति इति विचिन्त्य स्थिरसुखस्य प्राप्त्यर्थं सः सर्वमपि परित्यज्य भिक्षुरूपेण प्रस्थितवान्। स्वस्य विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान् । विशेषतया ‘विनिता’ राज्यं भरताय तक्षशिलां बाहुबलये च समर्प्य जीवनस्य परमसत्यम् अन्वेष्टुं प्रस्थितोऽयं महामुनिः ।

तम् अनेके जनाः शिष्यरूपेण अनुसृतवन्तः । ऋषभदेवः तदारभ्य अरण्येषु मौनेन ध्यानं निरन्तरम् अध्ययनं च करोति स्म । सः अध्ययने गभीरध्याने च तथा लीनः भवति स्म येन सः भोजनपानादिकमपि विस्मृत्य बहुकालं यावत् स्वाभाविकरूपेण निराहारम् अकरोत् । परं तस्य अनुयायिनः तथा निराहारं स्थातुं कष्टम् अनुभवन्ति स्म । किन्तु ते ऋषभदेवं त्यक्त्वा गन्तुमपि न इच्छन्ति स्म। ते अरण्ये विद्यमानेभ्यः वृक्षेभ्यः फलानि शाकानि वा चित्वा जीवनं यापयन्ति स्म । (पृष्ठ सं०- 131)

शब्दार्था: –

  • राजप्रासादे – राजमहल में;
  • सहसा – अचानक;
  • विक्षुब्धम् – परेशान या व्याकुल;
  • शाश्वतम् – हमेशा रहने वाला;
  • अन्वेष्टुम् – खोजने के लिए;
  • निराहारम् – बिना भोजन के ।

अर्थ –
एक बार ऋषभदेव ने राजमहल में नृत्यकला के प्रदर्शन का आयोजन किया। वहाँ आई हुई कोई नर्तकी नृत्य दिखाते हुए अचानक भूमि पर गिरकर मर गई। इस घटना से ऋषभदेव का मन अचानक व्याकुल हो गया। कैसे कोई स्वस्थ स्त्री अचानक मृत्यु को प्राप्त हो गई, जीवन वास्तव में क्या है, कैसे जीना चाहिए। इत्यादि अनेक प्रश्न उनकी बुद्धि में उत्पन्न हुए । “ इस संसार में कुछ भी शाश्वत (हमेशा रहने वाला) नहीं है, यह सुख स्थायी नहीं है ऐसा सोचकर स्थिर सुख की प्राप्ति के लिए वे सब कुछ त्याग कर भिक्षु के रूप में निकल पड़े। उन्होंने अपना विशाल साम्राज्य अपने पुत्रों में बाँट दिया।

विशेष रूप से ‘विनीता’ राज्य भरत को और तक्षशिला बाहुबली को सौंपकर जीवन के परम सत्य को खोजने के लिए ये महामुनि प्रस्थान कर गए। अनेक लोगों ने शिष्य के रूप में उनका अनुसरण किया। ऋषभदेव तब से वनों में मौन रहकर निरंतर ध्यान और अध्ययन करने लगे। वे अध्ययन और गहरे ध्यान में इस प्रकार लीन हो जाते थे जिससे वे भोजन – पानी आदि भी भूलकर लंबे समय तक स्वाभाविक रूप से निराहार (बिना भोजन के) रहते थे। परंतु उनके अनुयायी उस प्रकार निराहार रहने में कष्ट का अनुभव करते थे। किंतु वे ऋषभदेव को छोड़कर जाना भी नहीं चाहते थे। वे वन में मौजूद वृक्षों से फल या सब्जियाँ चुनकर जीवन बिताते थे।

व्याकरणम्-

पर्यायपदानि-

  • राजप्रासादः – राजभवनम्/राजगोहम्
  • अरण्यम् – वनम् / काननम्
  • वृक्षः – तरुः / द्रुमः
  • भूमौ – पृथिव्याम्/ धरण्याम्
  • भिक्षुः – सन्यासी / परिव्राजक:
  • सहसा – अकस्मात् / झटिति

विलोमपदानि

  • मृता × जीविता
  • शाश्वतम् × नश्वरम्
  • आरोग्यवती × रुग्णवती
  • प्रस्थितः × आगतः

विशेषण – विशेष्यचयनम् –

  • विशेषणम् – विशेष्यः
  • काचित् – नर्तकी
  • आरोग्यवती – स्त्री
  • विशालम् – साम्राज्यम्
  • अनेके – प्रश्ना:

सन्धि-

  • प्रस्थितोऽयम् – प्रस्थितः + अयम् (विसर्ग सन्धि)
  • चाभवत् – च + अभवत् (दीर्घ सन्धि)
  • तदारभ्यः – तत् + आरभ्यः (व्यञ्जन सन्धि)

समास-

  • राजप्रसादे – राज्ञः प्रसादे (षष्ठी तत्पुरुष)
  • भिक्षुरूपेण – भिक्षोः रूपेण (षष्ठी तत्पुरुष)
  • नृत्यकला – नृत्यस्य कला (षष्ठी तत्पुरुष)
  • स्थिरसुखस्य – स्थिरं च तत् सुखम्, तस्य (कर्मधारय)
  • परमसत्यम् – परमं च तत् सत्यम् (कर्मधारय)
  • महामुनिः – महान् च असौ मुनिः (कर्मधारय)

प्रत्यय

  • आगता – आ + गम् + क्त
  • प्रस्थितवान् – प्र + स्था + क्तवतु
  • पतित्वा – पत् + क्त्वा
  • विभक्तवान् – वि + भज् + क्तवतु
  • विचिन्त्य – वि + चिन्त् + ल्यप्
  • विस्मृत्य – वि + स्मृ + ल्यप्

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 5

5. कदाचित् तेषाम् एतादृशं व्यवहारं दृष्ट्वा जैनसन्यासिनः वृक्षेभ्यः फलानि शाकानि वा न चिनुयुः इति बोधनार्थं स्वयं भिक्षार्थं प्रस्थितः । अनुयायिनः अपि तस्य आचरणेन प्रभाविताः सन्तः भिक्षार्थं गताः । ग्रामेषु प्रतिगृहं गत्वा भिक्षां प्राप्य जीवनं निर्वर्तयन्ति स्म । परम् ऋषभः पूर्वं भोजनार्थं मौनेन भिक्षायाचनं करणीयमिति मौनेन प्रतिगृहं भिक्षायाचनम् आरब्धवान्। परं तत्रत्याः जनाः तेषां प्रियं महाराजं दृष्ट्वा भिक्षायां किं दातव्यमिति सम्भ्रान्ताः सन्तः तस्मै आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म । परं भिक्षायां भोजनपदार्थः देयः इति न केनापि चिन्तितम्। फलतः ऋषभदेवस्य दिने दिने सकष्टम् उपवासः करणीयः आपतितम्। कदाचित् ऋषभदेवः भोज्यपदार्थानाम् अभावे चतुःशतं दिनानि नैरन्तर्येण उपवासं कृतवान् । एकदा पर्यटनावसरे सः हस्तिनापुरस्य समीपे स्थितस्य इक्षुक्षेत्रस्य पार्श्वमार्गात् गच्छति स्म । तच्च इक्षुक्षेत्रं तस्यैव प्रपौत्रस्य श्रेयांसस्य आसीत् । सः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान्। (पृष्ठ सं०- 132-133)

शब्दार्थाः –

  • चिनुयुः – चुनें;
  • संभ्रान्ताः – भ्रमित या व्याकुल;
  • अनर्घवस्तूनि – अमूल्य वस्तुएँ;
  • नैरन्तर्येण – निरंतरता से (लगातार);
  • इक्षुक्षेत्रम् – गन्ने का खेत;
  • प्रपितामहाय – परदादा के लिए।

अर्थ –
कभी उनके (शिष्यों के) इस प्रकार के व्यवहार को देखकर जैन संन्यासी वृक्षों से फल या सब्जियाँ न चुनें, यह समझाने के लिए ऋषभदेव ने स्वयं भिक्षा के लिए प्रस्थान किया। उनके अनुयायी भी उनके आचरण से प्रभावित होकर भिक्षा के लिए गए। वे गाँवों में घर-घर जाकर भिक्षा प्राप्त कर अपना जीवन बिताने लगे। परंतु ऋषभदेव ने पहले भोजन के लिए ‘मौन रहकर भिक्षा माँगनी चाहिए’ इस नियम के साथ घर – घर भिक्षा माँगना प्रारंभ किया।

परंतु वहाँ के लोग अपने प्रिय महाराज को देखकर” भिक्षा में क्या देना चाहिए” इस उलझन में पड़ गए और उन्हें आभूषण तथा कीमती वस्तुएं देने लगे। किंतु भिक्षा में भोजन के पदार्थ देने चाहिए, ऐसा किसी ने नहीं सोचा। परिणामस्वरूप ऋषभदेव को दिनों-दिन कष्ट के साथ उपवास करना पड़ा। कभी ऋषभदेव ने भोजन के अभाव में लगातार चार सौ दिनों तक उपवास किया। एक बार घूमने के दौरान वे हस्तिनापुर के पास स्थित गन्ने के खेत के पास वाले रास्ते से जा रहे थे। वह गन्ने का खेत उनके ही प्रपौत्र (पोते का बेटा) श्रेयांस का था। उस श्रेयांस ने अपने परदादा को पीने के लिए गन्ने का रस दिया।

व्याकरणम्-

पर्यायपदानि-

  • इक्षुः – पुण्डः/रसाल:
  • सन्यासिनः – यतयः / मुनयः

विलोमपदानि

  • स्मृत्वा × विस्मृत्य
  • आगतः × प्रस्थितः
  • मौनेन × कोलाहेलेन

विशेषण-विशेष्यचयनम्

  • विशेषणम् – विशेष्यः
  • प्रियम् – महाराजम्
  • चतुःशतम् – दिनानि
  • संभ्रान्ताः – जना:
  • स्थितस्य – क्षेत्रस्य

सन्धि

  • चिनुरिति = चिनुयुः + इति (विसर्ग सन्धि)
  • केनापि = केन + अपि (स्वर सन्धि)
  • चाभवत् च + अभवत् (स्वर सन्धि)
  • तस्यैव = तस्य + एव (स्वर सन्धि)

समास-

  • भिक्षायाचनम् – भिक्षायाः याचनम् (षष्ठी तत्पुरुष)
  • भोजनपदार्थ: – भोजनस्य पदार्थः (षष्ठी तत्पुरुष)
  • इक्षुक्षेत्रम् – इक्षूणां क्षेत्रम् (षष्ठी तत्पुरुष)
  • इक्षुरसम् – इक्षोः रसम् (षष्ठी तत्पुरुष)

प्रत्यय

  • दृष्ट्वा – दृश् + क्त्वा
  • प्रभावितः – प्र भू + क्त
  • गत्वा – गम् + क्त्वा
  • करणीयम् – कृ + अनीयर्

6. अनेन ऋषभदेवस्य दीर्घकालिक उपवासः समाप्तः । तच्च वैशाखमासस्य अक्षयतृतीया – दिनम् आसीत् । अतः जैनसम्प्रदाये ‘वर्षतपपारणामहोत्सव: ‘अधुनापि गुजराते पदलिप्तपुरम् (पालीताणा ) उत्तरप्रदेशे हस्तिनापुरं चेत्यादिषु पवित्रतीर्थेषु आचर्यते । अत्र त्रयोदशमासानां वैकल्पिकदिनेषु उपवासं कुर्वन्ति । अन्ते अक्षयतृतीयादिने इक्षुरसेन उपवासस्य समापनं कुर्वन्ति ।

एवं दीर्घकालिकोपवासेन निरन्तराध्ययनेन कठोरतपसा च ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्। अयमेव जैनसम्प्रदाये आदिमः तीर्थङ्करः प्रभुः नाथः इत्यतः ‘आदिनाथः’ इति ख्यातः । ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावक: श्राविका चेति क्रमं रचितवान् । स एव क्रमः जैनसङ्घः इति प्रसिद्धः वर्तते । (पृष्ठ सं०- 133)

शब्दार्थाः –

  • समापनम् – समाप्ति;
  • आचर्यते – आचरण किया जाता है;
  • केवलज्ञानम् – सर्वोच्च ज्ञान;
  • तीर्थङ्करः – जैन धर्म के मार्गदर्शक;
  • ख्यातः – प्रसिद्ध; अधुनापि – अब भी ।

अर्थ –
इससे ऋषभदेव का लंबे समय का उपवास समाप्त हुआ। वह वैशाख महीने के अक्षय तृतीया का दिन था । इसलिए जैन संप्रदाय में ‘वर्षातप पारणा महोत्सव’ आज भी गुजरात में पालिताना (पदलिप्तपुर), उत्तर प्रदेश में हस्तिनापुर आदि पवित्र तीर्थों में मनाया जाता है। यहाँ लोग तेरह महीनों तक वैकल्पिक दिनों (एक दिन छोड़कर एक दिन) में उपवास करते हैं। अंत में अक्षय तृतीया के दिन गन्ने के रस से उपवास का समापन करते हैं।

इस प्रकार दीर्घकालिक उपवास, निरंतर अध्ययन और कठोर तपस्या से ऋषभदेव ने फाल्गुन महीने के कृष्ण पक्ष की एकादशी तिथि को प्रयागराज में अक्षय वट वृक्ष के नीचे ‘केवलज्ञान’ (पूर्ण ज्ञान) प्राप्त किया। जैन संप्रदाय में ये ही सबसे पहले तीर्थंकर, प्रभु और नाथ हैं, इसलिए ‘आदिनाथ’ के नाम से प्रसिद्ध हुए । ऋषभदेव ने लोगों के मार्गदर्शन के लिए भिक्षु, भिक्षुणी, श्रावक और श्राविका का क्रम बनाया। वही क्रम ‘जैन संघ’ के नाम से प्रसिद्ध है।

व्याकरणम्

पर्यायपदानि-

  • अधः – अधस्तात् / नीचैः
  • पादपः – वृक्ष: / तरु:
  • प्रभुः – स्वामी / ईश्वरः
  • अधुना – सम्प्रति / इदानीम्
  • ख्यातः – प्रसिद्धः / विख्यात:

विलोमपदानि

  • कृष्णपक्षे × शुक्लपक्षे
  • अधः × उपरि
  • कठोरम् × कोमलम्

विशेषण-विशेष्यचयनम्-

  • विशेषणम् – विशेष्यः
  • दीर्घकालिक: – उपवासः
  • आदिमः – तीर्थङ्करः

सन्धि

  • चेत्यादिषु = च + इति + आदिषु (स्वर सन्धि)
  • अधुनापि = अधुना + अपि (स्वर सन्धि)
  • इत्यतः = इति + अतः (स्वर सन्धि)
  • दीर्घकालिकोपवासेन = दीर्घकालिक + उपवासेन (स्वर सन्धि)

समास

  • अक्षयतृतीया – अक्षया च असौ तृतीया (कर्मधारय)
  • कृष्णपक्षे – कृष्णः पक्षः, तस्मिन् (कर्मधारय)
  • आदिनाथः – आदिः च असौ नाथ: (कर्मधारय)
  • वटवृक्षस्य – वटस्य वृक्षः, तस्य (षष्ठी तत्पुरुष)
  • केवलज्ञानम् – केवलं च तत् ज्ञानम् (कर्मधारय)

प्रत्यय

  • समाप्तः – सम् + आप् + क्त
  • समापनम् – सम् + आप् + ल्युट्
  • प्राप्तवान् – प्र आप् + क्तवतु
  • रचितवान् – रच् + क्तवतु

Class 9 Sanskrit Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary 6

7. तेषां परमो मन्त्रः नवकारमन्त्रः इति प्रसिद्धः यच्च प्राकृतभाषायां वर्तते-

“णमो अरिहन्ताणं,
णमो सिद्धाणं,
मन्त्रः
णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं”

अस्य अर्थः भवति नमामि अरिहन्तॄन्, नमामि सिद्धान्, नमामि आचार्यान्, नमामि उपाध्यायान्, नमामि लोके सर्वसाधून् इति । अयं सर्वेषां जैनानां परमपावनः अस्ति। प्रतिवर्षम् अप्रैल्-मासस्य नवमे दिनाङ्के जैनजना: सामूहिकरूपेण अस्य मन्त्रस्य जपादिकं कृत्वा उत्सवम् आचरन्ति । अतः अस्य दिवसस्य ‘नवकारमहामन्त्रदिवसः’ इति ख्यातिः वर्तते । एषः मन्त्रः पञ्चपरमेष्ठिभ्यः (अरिहन्तारः, सिद्धाः, आचार्याः, उपाध्यायाः सर्वे साधवः च) प्रणामं समर्पयति । वसुधैवकुटुम्बकम् इत्यस्य अनुरूपेण विश्वशान्त्यै कोटिशैः जनैः गीयमानः परमोमन्त्रः अयं णमोकारमन्त्रः।

जैनमतस्य प्रमुखाः सिद्धान्ता: अहिंसा परमो धर्म: (मनसा, वाचा, कर्मणा च अहिंसापालनम्), अनेकान्तवादः (सत्यस्य अनेके पक्षाः भवन्ति), स्याद्वाद : (प्रत्येकं वचनं सापेक्षं ‘स्यादिति’ रूपेण ग्राह्यम्), अपरिग्रहः (आवश्यकात् अधिकं संग्रहः न करणीयः) इत्यादयः । एतेषां दर्शनानां मध्ये सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चरित्रम् इति त्रीणि रत्नानि उच्यन्ते । तथा च प्राणिमात्रहिताय पञ्चमहाव्रतानि – सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्यं च आचरितुं कल्याणकरम् इति निगद्यते ।
(पृष्ठ सं०- 134)

शब्दार्थाः –

  • जपादिकम् – जप और अन्य क्रियाएँ;
  • वसुधैव – पृथ्वी ही;
  • कोटिशैः – करोड़ों लोगों द्वारा;
  • गीयमानः – गाया जाने वाला;
  • निगद्यते – कहा जाता है;
  • अस्तेयम् – चोरी न करना ।

अर्थ –
उनका परम मन्त्र नवकारमन्त्र प्रसिद्ध जो प्राकृत भाषा में-
“णमो अरिहन्ताणं,
णमो सिद्धाणं,
णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं”

इसका अर्थ होता है – मैं अरिहंतों को नमस्कार करता हूँ, सिद्धों को नमस्कार करता हूँ, आचार्यों को नमस्कार करता हूँ, उपाध्यायों को नमस्कार करता हूँ और लोक (संसार) के सभी साधुओं को नमस्कार करता हूँ। यह सभी जैनियों का परम पवित्र मन्त्र है । प्रतिवर्ष 9 अप्रैल को जैन धर्म के लोग सामूहिक रूप से इस मन्त्र का जप आदि करके उत्सव मनाते हैं। इसलिए इस दिन की ख्याति ‘नवकार महामन्त्र दिवस’ के रूप में है। यह मन्त्र पाँच परमेष्ठियों (अरिहंत, सिद्ध, आचार्य, उपाध्याय और सभी साधु) को प्रणाम अर्पित करता है। ‘वसुधैव कुटुम्बकम्’ (पूरी पृथ्वी ही परिवार है) के अनुरूप विश्व शांति के लिए करोड़ों लोगों द्वारा गाया जाने वाला यह णमोकार मन्त्र परम मन्त्र है।

जैन मत के प्रमुख सिद्धांत हैं- ‘अहिंसा परमो धर्म:’ (मन, वचन और कर्म से अहिंसा का पालन), अनेकान्तवाद (सत्य के अनेक पक्ष होते हैं), स्याद्वाद (प्रत्येक वचन सापेक्ष होता है), अपरिग्रह (आवश्यकता से अधिक संग्रह न करना) इत्यादि । इन दर्शनों के बीच सम्यक् दर्शन, सम्यक् ज्ञान और सम्यक् चरित्र – इन्हें ‘त्रिरत्न’ कहा जाता है। साथ ही प्राणीमात्र के हित के लिए पाँच महाव्रतों- सत्य, अहिंसा, अस्तेय (चोरी न करना), अपरिग्रह और ब्रह्मचर्य का आचरण करना कल्याणकारी कहा गया है।

व्याकरणम्-

पर्यायपदानि

  • वसुधा – पृथ्वी / भूमिः
  • जनैः – मनुष्यैः
  • गगनम् – आकाशः
  • मति: – बुद्धि: / धीः
  • ख्यातिः – प्रसिद्धिः
  • लोके – जगति / संसारे

विलोमपदानि

  • लोके × परलोके
  • अहिंसा × हिंसा
  • सत्यम् × असत्यम्
  • अपरिग्रहः × परिग्रहः
  • अस्तेयम् × स्तेयम्
  • ग्राह्यम् × त्याज्यम्

विशेषण – विशेष्यचयनम्

  • विशेषणम् – विशेष्यः
  • अयम् – मन्त्र:
  • त्रीणि – रत्नानि

सन्धि

  • जपादिकम् = जप + आदिकम् (स्वर सन्धि)
  • ख्यातिर्वर्तते = ख्यातिः + वर्तते (विसर्ग सन्धि)
  • वसुधैव = वसुधा + एव (स्वर सन्धि)
  • स्यादिति = स्यात् + इति (व्यञ्जन सन्धि)
  • परमोमन्त्रः = परमः + मन्त्रः (विसर्ग सन्धि)
  • इत्यस्य = इति + अस्य (स्वर सन्धि)

समास

  • विश्वशान्त्यै – विश्वस्य शान्त्यै (कर्मधारय)
  • पञ्चपरमेष्ठिभ्यः – पञ्च च ते परमेष्ठिनः, तेभ्यः (षष्ठी तत्पुरुष)
  • नवकारमहामन्त्रः – नवकारः चासौ महामन्त्रः (कर्मधारय)
  • सम्यग्दर्शनम् – सम्यक् च तत् दर्शनम् (कर्मधारय)
  • पञ्चमहाव्रतानि – पञ्च च तानि महाव्रतानि (कर्मधारय)

प्रत्यय

  • कृत्वा – कृ + क्त्वा
  • करणीयः – कृ + अनीयर्
  • समर्पितः – सम् + अप् + क्त

अत्र इदम् अवधेयम्

प्राकृत भाषा
भारत में भाषा – सम्पदा अत्यधिक समृद्ध है। किसी समय काल में अनेक प्राकृत भाषाएँ सामान्य लोगों के संवाद का माध्यम थीं।

प्रमुख प्राकृत भाषाएँ–

  • आर्ष प्राकृत
  • पैशाची प्राकृत
  • मागधी प्राकृत
  • चूलिका प्राकृत
  • शौरसेनी प्राकृत
  • महाराष्ट्री प्राकृत
  • अपभ्रंश प्राकृत आदि ।

जैन आगम धर्मग्रंथ अर्धमागधी भाषा में लिखे गए हैं। महाराष्ट्री प्राकृत में महाकवि हाल ने गाथासप्तशती नामक सुप्रसिद्ध काव्य लिखा है। शौरसेनी प्राकृत में बहुत से नाट्य ग्रंथों की रचना हुई है। इससे यह ज्ञात होता है कि प्राकृत भाषा न केवल बातचीत के उपयोग में आती थी, बल्कि यह उच्च कोटि के साहित्य की आधार भी थी। इस प्रकार, यदि संस्कृत एक वेगवती नदी है, तो प्राकृत उसी का सरल प्रवाह है। इन दोनों के बीच अटूट सम्बन्ध है।

संस्कृत-वाक्यानां प्राकृतानुवाद-

संस्कृतम् – प्राकृतम्
(१) अहं विद्यालयं गच्छामि। – अहं विज्जालयं गच्छामि / गच्छमि / गच्छेमि / गच्छं ।
(२) सः जलं पिबति । – सो जलं पिवइ ।
(३) बालकः पद्यं पठति । – बालओ पोत्थं पढइ / पढए / पढदि/पढदे।
(४) भवान् कुत्र गच्छति । – भवतो कत्थ गच्छउ।
(५) अहं फलानि खादामि । – अहं फलाइं/ फलाणि खामि।
(६) एतत् मम मित्रम् अस्ति । – एसो मम / मज्झ मित्तो / मित्तं अत्थि ।