Class 7 Sanskrit Chapter 8 Hindi Translation हितं मनोहारि च दुर्लभं वचः

Students can read Class 7 Sanskrit Notes and Class 7 Sanskrit Chapter 8 Hindi Translation हितं मनोहारि च दुर्लभं वचः for easy chapter-wise revision.

Sanskrit Class 7 Chapter 8 Hindi Translation हितं मनोहारि च दुर्लभं वचः Summary

कक्षा 7 संस्कृत पाठ 8 हिंदी अनुवाद

Sanskrit Class 7 Chapter 8 Hindi Anuvad

छात्रा:- आचार्य! अद्य मम माता माम् एकां सूक्तिं पठितवती, ‘सत्यं वद, धर्मं चर’ इति ।
छात्रा:- आचार्य ! ‘सूक्ति:’ इत्युक्ते कः अभिप्रायः ?
आचार्य:- सूक्तिः इत्युक्ते ‘सुन्दरं वचनम् ‘। सूक्तिषु जीवनमूल्यानि निहितानि भवन्ति ।
छात्र:- महोदय! सूक्तयः अस्मान् सन्मार्गं प्रति नयन्ति इति अहं श्रुतवान् ।
आचार्य:- सत्यम् । सूक्तयः जीवने अस्माकं मार्गदर्शनं कुर्वन्ति । संस्कृतसाहित्ये सूक्तीनां भाण्डागारः अस्ति ।
छात्रा:- आचार्य ! अस्मासु कुतूहलं वर्धते । वयम् एताः सूक्ती: पठामः ।
आचार्य:- न केवलं पठामः अपितु स्मरामः, जीवने आचरामः च।

हिन्दी अनुवाद

छात्रा – आचार्य ! आज मेरी माता ने मुझे एक सूक्ति पढायी, सत्य बोलो, धर्म का पालन करो।
छात्रा – आचार्य ! इस सूक्ति का क्या मतलब (अभिप्राय) है?
आचार्य – सूक्ति को सुन्दर वचन कहते है सूक्तियों में जीवन के मत्त्वपूर्ण मूल्य समाये होते है ।
छात्र- आचार्य ! सूक्ति हमें हमारे सदमार्ग की ओर लेकर चलती है। मैंने ऐसा सुना है।
आचार्य- सत्य है! सूक्ति जीवन में हमारा मार्गदर्शन करती हैं संस्कृत साहित्य सूक्तियों का भण्डार है ।
छात्रा- आचार्य! हमारी उत्सुक्ता बढ़ती है। हम ऐसी सूक्ति पढ़ते है।
आचार्य- हम न केवल पढ़ते है अपितु याद करते है। और जीवन में धारण करते है।

माता भूमिः पुत्रोऽहं पृथिव्याः ॥ 1 ॥

पदच्छेद :- माता भूमिः पुत्रः अहम् पृथिव्याः।
अन्वयः – भूमिः माता ( अस्ति) अहं पृथिव्याः पुत्रः (अस्मि)
भावार्थ:- पृथ्वी अस्मान् माता इव लालयति पालयति च। अतः भूमिः अस्माकं सर्वेषां माता अस्ति । वयं सर्वे अस्याः पृथिव्याः सन्तानाः स्मः । एषा सर्वदा पूज्या अस्ति ।

हिन्दी अनुवाद
पृथ्वी हमारी माता है, मैं पृथ्वी का पुत्र हूँ।
भावार्थ:-पृथ्वी हमारी माता के समान लालन और पालन करती है। इसलिए भूमि हम सभी की माता है। हम सब पृथ्वी माता की सन्तानें है यह हमेशा पूजनीय है।

न रत्नमन्विष्यति, मृग्यते हि तत् ॥ 2 ॥

पदच्छेदः – न रत्नम् अन्विष्यति मृग्यते हि तत् ।
अन्वयः – रत्नं न अन्विष्यति, तत् मृग्यते हि ।
भावार्थ:- हीरकादीनि रत्नानि ग्राहकस्य अन्वेषणं न कुर्वन्ति अपितु ग्राहकाः एव रत्नानाम् अन्वेषणं कुर्वन्ति । तथैव अस्मासु यदि गुणाः सन्ति तर्हि गुणज्ञाः स्वयमेव अस्मान् अन्विष्य आगच्छन्ति ।

हिन्दी अनुवाद
रत्न ( मूल्यवानवस्तु) किसी को खोजने नहीं जाता, हम लोग उसे खोजते है।
भावार्थ:- हीरे जवाहरात आदि रत्न ग्राहक की खोज नहीं करते हैं। बल्कि ग्राहक ही रत्नों की खोज करते है । उसी प्रकार यदि हमारे पास गुण (ज्ञान) है। तो ज्ञान चाहने वाले स्वयं ही हमें खोजते हुए आयेंगे।

शरीरमाद्यं खलु धर्मसाधनम् ॥3 ॥

पदच्छेद :- शरीरम् आद्यम् खलु धर्मसाधनम्।
अन्वयः – शरीरं खलु आद्यं धर्मसाधनम्।
भावार्थ:- यदि अस्माकं शरीरं स्वस्थम् अस्ति तर्हि वयं `स्वकर्तव्यस्य पालनं कर्तुं शक्नुमः, अतः अस्माभिः स्वशरीरस्य रक्षा सर्वथा करणीया यतः शरीरम् एव
धर्मपालनस्य प्रथमं साधनम् अस्ति ।

हिन्दी अनुवाद
शरीर ही धर्म के पालन का पहला और सबसे महत्त्वपूर्ण साधन है।
भावार्थ:- यदि हमारा शरीर स्वस्थ है तो हम सब अपने कर्तव्य का पालन कर सकते है । इसलिए हमें अपने शरीर की रक्षा हर प्रकार से करनी चाहिए शरीर ही धर्मपालन का प्रथम साधन हैं।

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ॥ 4 ॥

पदच्छेद :- क्षणशः कणशः च एव विद्याम् अर्थम् च साधयेत्।
अन्वयः – क्षणशः (एव) विद्यां कणशः एव अर्थं च साधयेत्।
भावार्थ:- ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः ।
एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदि कोऽपि धनस्य सङ्ग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं रूप्यकस्य सङ्ग्रहणं कुर्यात् । ‘क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्।’

हिन्दी अनुवाद
प्रत्येक क्षण का उपयोग विद्या प्राप्त करने के लिए और प्रत्येक कण (धन) का उपयोग धन इकट्ठा करने के लिए करना चाहिए।
भावार्थ:- ज्ञान प्राप्ति के लिए समय का निरन्तर उपयोग करना चाहिए। एक भी क्षण को नष्ट नहीं करना चाहिए । इसी प्रकार से यदि कोई भी धन का संग्रह करने के लिए इच्छा रखता है। तो वह लगातार रूपयों इकट्ठा करें। समय व्यतीत होने पर विद्या प्राप्त नहीं होती है कण (धन) त्यागने से धन प्राप्त नहीं होता है।

सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् ॥ 5 ॥

पदच्छेद :- सुखार्थिनः कुतः विद्या कुत: विद्यार्थिनः सुखम्।
अन्वयः – सुखार्थिनः विद्या कुत: ( भवेत् ), विद्यार्थिनः सुखं कुत: (भवेत्)।
भावार्थ:- यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः कथं विद्यां प्राप्तुं शक्नोति ? अतः यः ज्ञानं लब्धुम् इच्छति स: आलस्यं सुखं च त्यक्त्वा निरन्तरं विद्यार्जन कुर्यात् ।

हिन्दी अनुवाद
जो छात्र सुख चाहता है उसे विद्या छोड़ देनी चाहिए। जो विद्या चाहता है उसे सुख छोड़ देना चाहिए।
भावार्थ:- जो सदैव सुख चाहता है मेहनत नहीं करता है आलसी है वह कैसे विद्या को प्राप्त कर सकता है? इसलिए जो ज्ञान प्राप्त करना चाहता है उसे आलस्य और सुख छोड़कर लगातार विद्या प्राप्त करनी चाहिए।

गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥6॥

पदच्छेदः – गुणाः पूजास्थानं गुणिषु न च लिङ्गम् न च वयः ।
अन्वयः – गुणिषु गुणा: (एव) पूजास्थानं (भवन्ति) लिङ्गं च न (भवति) वय: च न (भवति) ।
भावार्थ:- गुणानां सर्वदा एव आदरः भवति । गुणवान् जनः पुरुष: स्त्री वा भवेत्, बालः वृद्धः वा भवेत्, सः सर्वदा पूजनीयः एव भवति । आदरस्य कृते लिङ्गम् आयुः वा महत्त्वपूर्णं न भवति ।

हिन्दी अनुवाद
गुणी लोगों में गुण (ज्ञान) की पूजा होती हैं, जाति (लिंग) या उम्र आयु की नहीं ।
भावार्थ:- गुणी व्यक्ति का हमेशा आदर होता है गुणवान स्त्री या पुरुष हो, बालक या वृद्ध हो वह हमेशा पूजनीय होता है। उसकी आयु अथवा जाति (लिंग) महत्त्वपूर्ण नहीं होता है । सभी उसका आदर करते है।

मा ब्रूहि दीनं वचः ॥ 7 ॥

पदच्छेदः – मा ब्रूहि दीनं वचः ।
अन्वयः – (त्वं) दीनं वचः मा ब्रूहि ।
भावार्थ:- समाजे सर्वविधाः जनाः भवन्ति । केचित् साहाय्यं कुर्वन्ति । केचित् केवलं विकत्थनं कुर्वन्ति । अतः स्वाभिमानी जन: यस्य कस्यापि पुरतः साहाय्यस्य याचनां न कुर्यात्।

हिन्दी अनुवाद
दीनता पूर्ण बाते मत करो। भावार्थ:-
भावार्थ:- समाज में सभी प्रकार के लोग होते है। कुछ सहायता करते हैं। कुछ केवल कथन करते है, इसलिए स्वाभिमानी लोग किसी के सामने सहायता की याचना नहीं करते हैं।

यस्तु क्रियावान् पुरुषः स विद्वान् ॥ 8 ॥

पदच्छेदः- यः तु क्रियावान् पुरुषः सः विद्वान् ।
अन्वयः- यः तु क्रियावान् पुरुषः सः विद्वान् (भवति) ।
भावार्थ:- अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण च एव मनुष्यः वास्तविक : विद्वान् भवति नतु केवलम् अध्ययनेन । विद्या अनुकूल – कर्मणा विना व्यर्था भवति । ‘ज्ञानं भारः क्रियां विना ‘।

हिन्दी अनुवाद
जो क्रियाशील है वही विद्वान है।
भावार्थ:- जो मनुष्य ज्ञान प्राप्त करके, आचरण में और व्यवहार के आधार पर सामाजिक प्रयोग करता है। वही विद्व न है। अध्ययन मात्र से नही । विद्या के अनुकूल कर्म कभी व्यर्थ नहीं होता ।

शीलं परं भूषणम् ॥१॥

पदच्छेद :- शीलम् परम् भूषणम्।
अन्वयः शीलं परं भूषणम् (अस्ति) ।
भावार्थ:- मनुष्यस्य आचरणम् एव श्रेष्ठम् आभूषणम् अस्ति। सदाचारं विना अन्ये गुणाः निरर्थकाः भवन्ति ।

हिन्दी अनुवाद
चरित्र ही सबसे बड़ा आभूषण है।
भावार्थ:- मनुष्य का आचरण ही सर्वश्रेष्ठ आभूषण है। सदाचार के बिना अन्य गुण बेकार होते है।

हितं मनोहारि च दुर्लभं वचः ॥ 10 ॥

पदच्छेदः – हितम् मनोहारि च दुर्लभम् वचः ।
अन्वयः हितं मनोहारि च वचः दुर्लभं (भवति) ।
भावार्थ:- केचन हितकारकं वचनं वदन्ति किन्तु तत् कठोरतया वदन्ति । केचन मनोरञ्जकं वाक्यं वदन्ति किन्तु तत् हितकारकं न भवति । तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात्।

हिन्दी अनुवाद
जो वचन हितकारी और मन को प्रिय हो वह दुर्लभता या कठिनता से प्राप्त होते है ।
भावार्थ:- कुछ हितकारी वचन बोलते है । किन्तु बहुत कठोर बोलते है कुछ मनोरंजक वाक्य बोलते है किन्तु वे हितकारी नहीं होते है क्योंकि हितकार वचन मन को प्रिय लगने वाले नहीं होते है।