Class 7 Sanskrit Chapter 6 Hindi Translation क्रीडाम वयं श्लोकान्त्याक्षरीम्

Students can read Class 7 Sanskrit Notes and Class 7 Sanskrit Chapter 6 Hindi Translation क्रीडाम वयं श्लोकान्त्याक्षरीम् for easy chapter-wise revision.

Sanskrit Class 7 Chapter 6 Hindi Translation क्रीडाम वयं श्लोकान्त्याक्षरीम् Summary

कक्षा 7 संस्कृत पाठ 6 हिंदी अनुवाद

Sanskrit Class 7 Chapter 6 Hindi Anuvad

भारती – सखि दीपिके! वयम् अधुना क्रीडितुम् अभिलषामः ।
दीपिका – अरे भारति ! बहिः वृष्टिः अस्ति, कथं क्रीडामः ?
भारती – वृष्टिः अस्तु नाम । इच्छा अस्ति चेत् क्रीडामः । बहिर्गमनस्य आवश्यकता एव नास्ति । एषा नूतना क्रीडा अस्ति भोः! ‘अन्त्याक्षरी क्रीडा’ इति ।
दीपिका – किम् अन्त्याक्षरी क्रीडा ? अहमपि क्रीडामि ।
भारती – अवश्यम् । आगच्छन्तु । वयं सर्वे क्रीडामः ।
दीपिका – सखि ! तहि क्रीडायाः नियमान् सूचयतु ।
भारती- वयं गणद्वयं रचयामः ।
प्रथमगमणस्य नाम- ‘ज्ञानमाला’ एवं च द्वितीयगणस्य
नाम – ‘ रत्नमाला’। आदौ प्रथमगणस्य सदस्यः एक
पद्मं गायति । तस्य पद्यस्य अन्तिमेन व्यञ्जनवर्णेन द्वि
तीयगणस्य सदस्यः सदस्या वा अन्यं श्लोकं गायति,
एवं क्रमशः क्रीडा प्रचलित ।
दीपिका – अहो ! महान् आनन्दः भविष्यति, तर्हि क्रीडामः । आदौ ज्ञानमालागणः ‘र्’ इति अक्षरात् पद्यं गायति ततः रत्नमालागणः वदति ।

हिन्दी अनुवाद
भारती – अरे दीपिका ! अब हम सब की खेलने की इच्छा है।
दीपिका- अरे भारती ! बाहर वर्षा हो रही है, हम कैसे खेले ?
भारती – वर्षा तो नाम है। इच्छा कुछ खेले । बाहर जाने की आवश्यकता ही नहीं है। यह नया खेल हैं अरे ! ‘ अन्त्याक्षरी खेल’ |
दीपिका – क्या अन्त्याक्षरी खेल ? मैं भी खेलती हूँ ।
भारती – अवश्य! आओ हम सब खेलते है ।
दीपिका – सखि ! तो खेल के नियमों की सूचना दीजिए ।
भारती – हम दो गण (टीम) बनाते है।
प्रथम गण का नाम – ज्ञानमाला और दूसरे का नाम – रत्नमाला । प्रारम्भ में प्रथम सदस्य को एक श्लोक गाना है। उसके श्लोक के अन्तिम व्यंजन वर्ण से द्वितीय गण के सदस्य या सदस्या को अन्य श्लोक गाना है। इस प्रकार क्रमशः खेल चलता हैं।
दीपिका – अरे ! बड़ा आनन्द ( मजा ) होगा, तो खेलते है। प्रारम्भ में ज्ञानमाला गण ‘र’ अक्षर से श्लोक गाते है इसके बाद रत्नमाला गण बोलती है।

ज्ञानमालागणः रत्नमालागणः
1. रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।। 1 ।। (क्)

1. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

व्यसनेन च मूर्खाणां निद्रया कलहेन वा ।। 2 ।। (व्)

2. विद्या विवादाय धनं मदाय,

शक्तिः परेषां परिपीडनाय ।

खलस्य साधोर्विपरीतमेतत्

ज्ञानाय दानाय च रक्षणाय ।। 3 ।। (य्)

2. येषां न विद्या न तपो न दानं,

ज्ञानं न शीलं न गुणो न धर्मः ।

ते मर्त्यलोके भुवि भारभूताः,

मनुष्यरूपेण मृगाश्चरन्ति ॥ 4 ॥ (त्)

3. तदा वृत्तिश्च कीर्तिश्च लक्ष्मीर्वाणी यशस्विनी ।

तत्त्वज्ञानं परा शान्तिर्यदा विद्या भवेत्तव ॥ 4 ॥ (व्)

3. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं,

विद्या भोगकरी यश: सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परा देवता,

विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ।। 6 ।। (श्)

4. शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम् ।

शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ।। 7 ।। (न्)

4. न विद्यया विना सौख्यं नराणां जायते ध्रुवम् ।

अतो धर्मार्थमोक्षेभ्यो विद्याभ्यासं समाचरेत् ॥ 8 ॥ (त्)

5. ताराणां भूषणं चन्द्रः लतानां भूषणं सुमम् ।

पृथिव्याः भूषणं राजा विद्या सर्वस्य भूषणम् ।। 9 ।। (ण्/न्)

5. न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ 10 ॥ (न्)

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥1॥

पदच्छेद:- रूपयौवनसम्पन्नाः विशाल – कुल सम्भवाः विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः ।
अन्वयः – रूपयौवनसम्पन्नाः विशालकुलसम्भवाः ( परन्तु) विद्याहीनाः (जनाः) निर्गन्धाः किंशुकाः इव न शोभन्ते।
भावार्थ:- येषां सुन्दरं रूपम् अस्ति, यौवनम् अस्ति, उत्तमे कुले जन्म अपि प्राप्तम्, किन्तु ते यदि विद्यायाः अर्ज़नं न कुर्वन्ति तर्हि तेषां शोभा न भवति । यथा पुष्पिताः पलाशवृक्षाः दर्शने अतीव सुन्दराः सन्ति । किन्तु तेषु सुगन्धः न भवति। जनाः तेषाम् उपयोगं न कुर्वन्ति। अतः रूपस्य यौवनस्य उच्चकुलस्य च अपेक्षया विद्या एव श्रेष्ठा ।

हिन्दी अनुवाद
रूप, यौवन से सम्पन्न ( युक्त) विशाल कुल में उत्पन्न (जन्म) किन्तु विद्या से हीन व्यक्ति सुशोभित नहीं होता, जैसे सुन्दर होते हुए भी पलाश का फूल ग्रहण करने के योग्य नहीं होता क्योंकि उसके पास गंध नहीं होती ।

भावार्थ:- जिसके पास रूप है। जवानी है अच्छे कुल में जन्म भी लिया है। किन्तु वह विद्या प्राप्त नहीं करता है तो वह सुशोभित नहीं होता । जैसे पलाश के वृक्ष पर लगा फूल के दर्शन बहुत सुन्दर है । किन्तु उसके पास सुगन्ध नहीं होती । लोग उसका उपयोग नहीं करते है । इसलिए रूप से, यौवन से और ऊँचे कुल की अपेक्षा विद्या ही सर्वश्रेष्ठ है।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ 2 ॥

पदच्छेदः – काव्यशास्त्र – विनोदेन कालः गच्छति धीमताम् व्यसनेन च मूर्खाणाम् निद्रया कलहेन वा ।
अन्वयः – धीमतां कालः काव्यशास्त्रविनोदेन मूर्खाणां च (कालः) व्यसनेन निद्रया कलहेन वा गच्छति।
भावार्थ:- बुद्धिमन्तः जनाः काव्यानां शास्त्राणां च अनुशीलनेन समयस्य सदुपयोगं कुर्वन्ति । परन्तु मूर्खजनाः शयनं

कृत्वा, परस्परं कलहं कृत्वा अथवा दुर्व्यसनेन अमूल्यसंमयस्य दुरुपयोगं कुर्वन्ति । अतः वयं नित्यं विद्याभ्यासेन पठनेन लेखनेन वा समयस्य सदुपयोगं कुर्मः।

हिन्दी अनुवाद
बुद्धिमान लोगों का समय, काव्य और शास्त्रों का अध्ययन करने में व्यतीत होता है जबकि मूर्खो का समय, भोग विलास में, नींद लेने में एवं झगड़ा करने में व्यतीत होता है।

भावार्थ:- बुद्धिमान लोग काव्यों शास्त्रों के अध्ययन अध्यापन में समय का सदुपयोग करते हैं, परन्तु मुर्ख लोग नींद में आपस में झगड़ा करके या बुरे कार्यों में अपने अमूल्य समय का दुरुपयोग करते है; इसलिए हम सब को प्रतिदिन विद्याभ्यास करने में पढ़ने में या लिखने में समय का सदुपयोग करना है।

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥3 ॥

पदच्छेदः – विद्या विवादाय धनं मदाय शक्तिः, परेषाम् परिपीडनाय खलस्य साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ।
अन्वयः – खलस्य विद्या विवादाय, धनं मदाय, शक्ति: परेषां परिपीडनाय ( च भवति ) । ( परं) साधोः एतद् – विपरीतं (विद्या) ज्ञानाय ( धनं) दानाय ( शक्ति:) रक्षणाय च (भवति) ।

भावार्थ:- दुष्टः जनः विद्यायाः उपयोगं कलहार्थं करोति । धनस्य उपयोगम् अहङ्कारार्थं करोति । सामर्थ्यस्य उपयोगम् अन्येषां पीडनार्थं च करोति । किन्तु सज्जनस्य स्वभावः एतस्य विपरीतः भवति । सः विद्यायाः उपयोगम् अन्येषां ज्ञानवर्धनार्थं करोति । ध नस्य उपयोगं दानार्थं करोति । सामर्थ्यस्य उपयोगं दुर्बलानां रक्षणार्थं च करोति ।

हिन्दी अनुवाद
दुष्ट की विद्या विवाद के लिए, धन अहंकार (घमण्ड) के लिए और शक्ति दूसरों को कष्ट देने के लिए होती है। इसके विपरीत सज्जनों की विद्या ज्ञान के लिए धन दान के लिए और शक्ति दूसरों की रक्षा के लिए होती है।

भावार्थ:- दुष्ट लोग विद्या का उपयोग झगड़ा करने में करते है धन का उपयोग अहंकार के लिए करते है और शक्ति ( ताकत) का प्रयोग दूसरों को परेशान करने के लिए करते है, किन्तु सज्जन का स्वभाव इसके विपरीत होता हैं। वह विद्या का उपयोग दूसरों का ज्ञान बढ़ाने में करता है। धन का उपयोग दान के लिए करता है और ताकत का उपयोग अपने से कमजोर व्यक्ति या जीवन की रक्षा के लिए करता है।

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ 4 ॥

पदच्छेद:- येषाम् न विद्या न तपः न दानम् ज्ञानम् शीलम् न गुणः न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति ।
अन्वयः – येषां (जनानां ) विद्या न; तपः न, दानं न, ज्ञानं न, शीलं न, गुणः न, धर्म: (अपि) न ( अस्ति), मर्त्यलोके भुवि भारभूताः मृगाः मनुष्यरूपेण चरन्ति ।
भावार्थ:- ये जनाः विद्यां न अर्जयन्ति, कठिनव्रतं न आचरन्ति, दानं न कुर्वन्ति, ज्ञानं न अर्जयन्ति, उत्तमचरित्रवन्तः न भवन्ति, गुणवन्तः न सन्ति, धर्माचरणं न कुर्वन्ति, ते अस्यां भूमौ भारभूताः सन्तः पशवः इव इतस्ततः भ्रमन्ति ।

हिन्दी अनुवाद
जिन मनुष्यों के पास न तो विद्या न तप, न दान, न चरित्र, न गुण और न धर्म है। वे मनुष्य इस धरती पर बोझ (भार) के समान है। और मनुष्य के रूप में होते हुए भी हिरण (पशु) की तरह से घूमते रहते है।

भावार्थ:- जो मनुष्य विद्या प्राप्त नहीं करते है कठिन तपस्या 1 भी नहीं करते है। दान भी नहीं करते हैं, ज्ञान नहीं प्राप्त करते है। उत्तम चरित्रवान भी नहीं होते है न गुणवान होते है किसी भी धर्म का पालन नहीं करते है वे मनुष्य इस धरती पर बोझ के समान है तथा मनुष्य होते हुए भी वह पशु की तरह से इधर उधर घूमते रहते है।

तदा वृत्तिश्च कीर्तिश्च लक्ष्मीर्वाणी यशस्विनी ।
तत्त्वज्ञानं परा शान्तिर्यदा विद्या भवेत्तव ॥ 5 ॥

पदच्छेदः – तदा वृत्तिः च कीर्तिः च लक्ष्मीः वाणी यशस्विनी तत्त्वज्ञानम् परा शान्तिः यदा विद्या भवेत् तव ।
अन्वयः – यदा विद्या भवेत्, तदा तव वृत्तिः, कीर्तिः, लक्ष्मीः, यशस्विनी वाणी, तत्त्वज्ञानं, परा शान्तिः च ( भवेत्।
भावार्थः – यदि त्वं विद्याम् अर्जयसि तर्हि एव त्वम् उद्योगं, यशः, धनं, कीर्तिप्रदां वाणीं, वास्तविकं ज्ञानम् उत्तमां शान्तिं च प्राप्नोषि । अतः निरन्तरं विद्यार्जनं करणीयम्।

हिन्दी अनुवाद
जब तुम विद्या को प्राप्त करते हो तब तुम्हारा कार्य उद्योग प्रसिद्धि, धन, कीर्ति युक्त वाणी तुम्हारा वास्तविक ज्ञान और शान्ति को प्राप्त हो जाती है।

भावार्थ:- यदि तुम विद्या को प्राप्त करते हो तो तुम्हारा उद्योग (कार्य), यश, धन, कीर्तिनप्रदान करने वाली वाणी, वास्तविक ज्ञान और उत्तम शान्ति को प्राप्त होते हो इसलिए हमें निरन्तर विद्या का अभ्यास करना चाहिए।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥6॥

पदच्छेदः – विद्या नाम नरस्य रूपम् अधिकम् प्रच्छन्न-गुप्तं ध नम् विद्या भोगकरी यश:- सुखकरी विद्या गुरूणाम् गुरु: विद्या बन्धु-जन: विदेश गमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनम् विद्या – विहीनः पशुः ।
अन्वयः – विद्या नाम नरस्य अधिकं रूपं प्रच्छन्नगुप्तं धनं (च अस्ति। विद्या भोगकरी यशः सुखकरी (च अस्ति । विद्या गुरूणां गुरु: ( अस्ति ) । विद्या विदेशगमने बंधुजन: (भवति) । विद्या परा देवता ( अस्ति ) । विद्या राजसु पूज्यते, धनं न हि ( पूज्यते ) । विद्याविहीनः (जन:) पशुः (भवति) ।

भावार्थ:- विद्या मनुष्यस्य श्रेष्ठं सौन्दर्यम् अस्ति, अदृश्यं गुप्तं धनम् अस्ति। विद्या आनन्दं जनयति, कीर्तिं
वर्धयति, सुखं च प्रददाति । विद्या गुरूणां गुरुः अस्ति। विदेशयात्रायां विद्या बन्धुः भवति । विद्या प्रध ाना देवता अस्ति। राजसभासु विदुषाम् एव सम्मानः भवति, न तु धनिकस्य । अतः यः विद्याहीनः भवति सः पशुसमानः भवति ।

हिन्दी अनुवाद
विद्या मनुष्य का विशिष्ट रूप है, गुप्त धन है वह भोग देने वाली वस्तु है, यश देने वाली है सुख दायनी है विद्या गुरुओं की गुरु है विदेश जाने पर वह हमारा मित्र है। विद्या सर्वश्रेष्ठ वस्तु है राजाओं में विद्या की पूजा होती है धन की नहीं, विद्या विहीन ( अनपढ़ ) मनुष्य पशु समान है।

भावार्थ:- विद्या मनुष्य का सर्वश्रेष्ठ श्रृंगार ( सौन्दर्य) है छिपा हुआ और गुप्त धन है। विद्या आनन्द पैदा करती है। प्रसिद्धि बढ़ाती है और सुख देने वाली है। विद्या गुरुओं की गुरु है। विदेश जाने पर विद्या भाई के समान होती है। विद्या सर्वश्रेष्ठ देवता हैं राजसभा के विद्वानों में ही सम्मान (पूजा) होता है। धन का नहीं। इसलिए जो विद्याविहीन होता है। वह पशु के समान होता है।

शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम् ।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥ 7 ॥

पदच्छेदः – शनैः पन्थाः शनैः कन्था शनैः पर्वत- लङ्घनम् शनैः विद्या शनैः वित्तम् पञ्च एतानि शनैः शनै ।
अन्वयः – पन्थाः शनैः, कन्था शनैः, पर्वतलङ्घनं शनैः, विद्या शनैः, वित्तं शनैः च एतानि पञ्च (कार्याणि) शनै: शनै (करणीयानि) ।

भावार्थ:- मनुष्य सर्वदा गमनसमये सावधानं चलेत्। वस्त्रस्य सीवनं जागरूकतया कुर्यात् । पर्वतस्य उपरि आरोहणं क्रमेण कुर्यात्। विद्यां धनं च निरन्तरं प्रयत्नेन अर्जयेत् । एतानि पञ्च कार्याणि शनैः अर्थात् सोपानक्रमेण एव कुर्यात् ।

हिन्दी अनुवाद
कोई भी रास्ता धीरे-धीरे तय करना चाहिए। कपड़ा धीरे-धीरे बुना जाता है, पर्वत पर धीरे – धीरे (चढ़ा) पार (चढ़कर) किया जाता है। विद्या और धन धीरे-धीरे ही प्राप्त होते है, इन पाँचों को प्राप्त करने के लिए धैर्य रखना चाहिए।

भावार्थ:- मनुष्य को हमेशा चलते समय सावधान होकर चलना चाहिए। वस्त्र की सिलाई करते समय जागरूकता से करनी चाहिए। पर्वत को धीरे-धीरे पार करना चाहिए । विद्या और धन लगातार प्रयत्न करने से प्राप्त होता है। ये पाँचों कार्य धीरे-धीरे करने से ही प्राप्त होते है।

न विद्यया विना सौख्यं नराणां जायते ध्रुवम्।
अतो धर्मार्थमोक्षेभ्यो विद्याभ्यासं समाचरेत् ॥8॥

पदच्छेदः – न विद्यया विना सौख्यम् नराणाम् जायते ध्रुवम् अतः धर्म-अर्थ-मोक्षेभ्यः विद्याभ्यासम् समाचेरत्।
अन्वयः – ‘विद्यया विना नराणां ध्रुवं सौख्यं न जायते। अतः धर्म-अर्थ-मोक्षेभ्यः विद्याभ्यासं समाचेरत्।

भावार्थ:- मानवानां कृते विद्यार्जनम् अत्यन्तम् अनिवार्यं भवति। यदि नराः विद्यार्जनं न कुर्वन्ति तर्हि स्थिरं सुखं न प्राप्नुवन्ति । अतः धर्मसाधनाय अर्थलाभाय मोक्षं प्राप्तुं च विद्याभ्यासं कुर्यात्।

हिन्दी अनुवाद
विद्या के बिना मनुष्य के जीवन में निश्चित सुख प्राप्त नहीं होता। इसलिए धर्म और अर्थ को आधार बनाकर (साथ लेकर ) विद्या का निरन्तर अभ्यास करना चाहिए।

भावार्थ:- मनुष्य जीवन में विद्या की प्राप्ति अत्यन्त आवश्यक है। जिससे एक निश्चित सुख की प्राप्ति होती है। यदि मनुष्य विद्या की प्राप्ति नहीं करता है तो वह स्थायी सुख से वंचित हो जाता है। इसलिए धर्म के लिए, धन के लिए, मोक्ष (कल्याण) के लिए विद्या का अभ्यास आवश्यक है।

ताराणां भूषणं चन्द्रः लतानां भूषणं सुमम् ।
पृथिव्याः भूषणं राजा विद्या सर्वस्य भूषणम् ॥9॥

पदच्छेदः – ताराणाम् भूषणम् चन्द्रः लतानाम् भूषणम् सुमम् पृथिव्याः भूषणम् राजा विद्या सर्वस्य भूषणम् ।
अन्वयः- चन्द्रः ताराणां भूषणम् (अस्ति), सुमं लतानां भूषणम् (अस्ति), राजा पृथिव्याः भूषणम् (अस्ति), (परं) विद्या सर्वस्य भूषणम् (अस्ति)।

भावार्थ:- तारकाः चन्द्रेण सह एव शोभन्ते । लताः कुसुमैः सह एव शोभन्ते। राजा पृथिव्या शोभां वर्धयति । विद्यया एव सर्वेषां मनुष्याणां शोभा वर्धते ।

हिन्दी अनुवाद
तारों का आभूषण चन्द्रमा होता है। स्त्री का आभूषण उसका पति होता है। पृथ्वी का आभूषण राजा होता है और विद्या सभी का आभूषण होती है।
भावार्थ:- तारे चन्द्रमा के साथ सुशोभित होते है। महिलाएँ (लता) अपने पति (फूल) के साथ सुशोभित होती है। पृथ्वी राजा के साथ सुशोभित होता है सभी मनुष्यों की शोभा विद्या होती है।

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥10॥

पदच्छेदः – न चोर-हार्यम् न च राज-हार्यम् न भ्रातृ-भाज्यम् न च भारकारि व्यये कृते वर्धते एव नित्यम् विद्या- धनम् सर्व-धन-प्रधानम्।
अन्वयः – (विद्याधनं ) चोरहार्यं न ( अस्ति ), राजहार्यं न ( अस्ति), भ्रातृभाज्यं न ( अस्ति), भारकारि च न (अस्ति), व्यये कृते ( विद्याधनं ) नित्यं वर्धते एव, (अतः) विद्याधनं सर्वधनप्रधानम् (अस्ति)।