Students can read Class 7 Sanskrit Notes and Class 7 Sanskrit Chapter 5 Hindi Translation सेवा हि परमो धर्मः for easy chapter-wise revision.
Sanskrit Class 7 Chapter 5 Hindi Translation सेवा हि परमो धर्मः Summary
कक्षा 7 संस्कृत पाठ 5 हिंदी अनुवाद
Sanskrit Class 7 Chapter 5 Hindi Anuvad
आचार्याः- प्रियच्छात्राः ! जीवने सफलतायै मानवः किं किम् अर्जयेत् ?
छात्रा:- विद्याम्, उपाधिम्, पदवीम्, धनम् ।
आचार्याः- किम् एतदेव पर्याप्तम् ?
छात्रा:- अन्यत् किम् आवश्यकं महोदये ?
आचार्याः- मानवीयाः गुणाः अपि आवश्यकाः भोः ! यथा सिद्धार्थस्य जीवने विद्या, धनं, पदं च सर्वमपि आसीत् । किन्तु मानवीयगुणैः एव सः महात्मा बुद्धः जातः ।
छात्रा:- आर्य! के ते मानवीयाः गुणा: ?
आचार्याः- सत्यं, करुणा, उदारता, सेवा, परोपकारः, अक्रोधः इत्यादयः मानवीयाः गुणाः सन्ति। अद्य एतैः गुणैः सम्बद्धाम् एकां कथां पठामः ।
छात्रा:- आम्, मान्ये! वयम् अपि पठितुम् इच्छामः।
हिन्दी अनुवाद
आचार्याः- प्रिय छात्रों ! जीवन में सफलता के लिए मनुष्य को क्या-क्या करना चाहिए?
छात्रा- उपाधि को
छात्रा- अच्छा पद
छात्रा- धन
छात्र- विद्या
आचार्याः- क्या ये सब पर्याप्त (ठीक) है।
छात्र- दूसरे ओर क्या आवश्यक है, महोदय ?
आचार्या:- अरे! मानवीय भी आवश्यक है। जैसे सिद्धार्थ के जीवन में, धन, विद्या और पद सभी था। किन्तु मानवीय गुण ही उस ( वह) महात्मा बुद्ध में थे।
छात्रा- आचार्य वर! क्या है वह मानवीय गुण ?
आचार्या :- सत्य बोलना, दया करना उदारता पूर्वक व्यवहार करना, सेवा करना, परोपकार करना, गुस्सा न करना आदि मानवीय गुण होते है। आज हम ऐसे ही गुणों संबंध एक कहानी पढ़ते हैं।
छात्र- ठीक है मान्यवर, हम सब पढ़ने की इच्छा करते है।
नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च आसीत् । सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म। एकदा सः महाराज. निवेदितवान्- ” महाराज ! मम चिकित्साकार्याय एक: सहायक: आवश्यकः” इति। राजा एतद् अङ्गीकृतवान् उक्तवान् च ‘अस्तु, अहं व्यवस्थां करोमि। श्वः केचन योग्याः युवकाः आगमिष्यन्ति । भवान् परीक्षां कृत्वा तेषु युवकेषु कमपि योग्यं स्वीकरोतु ‘ इति ।
अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ । नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान् । द्वयोः अपि विद्याभ्यासविषयः समानः एव आसीत् । तदा नागार्जुनः तौ एकं विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान् । तदर्थं दिनद्वयस्य अवसरं दत्तवान् । “गमनसमये राजमार्गेण गच्छताम्” इत्यपि सूचितवान् ।
हिन्दी अनुवाद
नागार्जुन एक प्रसिद्ध रसायन शास्त्री और चिकित्सक (वैद्य) थे, वे दिन रात प्रयोगशाला में कार्य करते थे। एक बार उन्होंने राजा से कहा – महाराज ! मेरे चिकित्सा कार्य के लिए एक सहायक की आवश्यकता है। राजा ने सुना और कहा- ठीक है मैं व्यवस्था करुंगा। कल कुछ योग्य युवक आयेंगे। आप उनकी परीक्षा करके उन युवकों में से किसी- योग्य को रख सकते हो।
अगले दिन दो युवक आये । नागार्जुन ने दोनों से विद्याभ्यास (शिक्षा) के विषय में पूछा। दोनों शिक्षा में समान ही थे तब नागार्जुन ने दोनों को एक विशिष्ट (खास ) रसायन बनाकर लाने (औषधी) का निर्देश देता है। इसके लिए उन्हें दो दिन का समय दिया गया। यात्रा करते समय राजमार्ग पर चलिए ( चलो ) ऐसा उसने कहा ( सूचित किया ) !
दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान् । ” औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?” इति नागार्जुनः पृष्टवान् ! युवक: स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्-“पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान् ” इति उक्त्वा नागार्जुन रसायनं दत्तवान्।
हिन्दी अनुवाद
दो दिन बाद नागार्जुन के पास प्रथम युवक आया । औषधि निर्माण से किसी भी प्रकार का कष्ट नहीं हुआ ऐसा उस नागार्जुन ने कहा। युवक ईमानदारी दर्शाते हुए अपने घर की समस्या का वर्णन करता है। पिता के पेट में दर्द, और माता बुखार से पीडित थी। फिर मैं सब कुछ छोड़कर औषधि निर्माण कर सका, ऐसा कहकर नागार्जुन को रसायन देता है।
तदभ्यन्तरे द्वितीयः युवकः अपि आगतवान्। सः खिन्नः आसीत्। तमपि नागार्जुनः पृष्टवान्। तदा युवकः उक्तवान् “अहम् औषधं निर्मातुं न शक्तवान्” इति। ” किमर्थं न शक्तवान् ?” इति नागार्जुनः पृच्छति। युवकः उक्तवान्- ” राजमार्गे अहं कञ्चित् रोगि ं दृष्टवान्। तस्य परिस्थितिः शोचनीया आसीत्। अहं तं स्वगृहं नीतवान्। दिनद्वयं तस्य एव सेवायां निरतः आसम्। अद्य प्रातः सः स्वस्थः अभवत्। अहं ततः साक्षात् अत्र आगतवान्। रसायननिर्माण शार्थं समयम् एव न प्राप्तवान्” इति।
हिन्दी अनुवाद
उसके बाद दूसरा युवक भी आया। वह बहुत दुःखी था । उससे भी नागार्जुन ने पूछा। तब युवक ने कहा मैं औषधि को नहीं बना सका। ” किस लिए नहीं बना सके । ” नागार्जुन पूछता है। युवक ने कहा- राज मार्ग पर मैं कोई रोगी देखा । उसकी हालत अत्यन्त खराब थी। मैं उसे अपने घर ले गया। दो दिनों तक उसकी सेवा मग्न रहा। आज वह सुबह ठीक हुआ। इसके बाद मैं साक्षात्कार के लिए यहाँ आया हूँ। रसायन निर्माण के लिए समय ही नहीं प्राप्त हुआ ।
तदनन्तरं नागार्जुनः द्वितीयं युवकं सहायकत्वेन स्वीकृतवान् । राजा एतं वृत्तान्तं श्रुत्वा आश्चर्य प्रकटितवान्। सः नागार्जुनः. पृष्टवान्–“प्रथमः युवक : औषधं कृत्वा आनीतवान् । द्वितीयः तथा न कृतवान्। तथापि भवान् किमर्थं द्वितीयं चितवान् “?
नागार्जुनः अवदत्-” द्वितीयः अपि औषधनिर्माणे कुशलः अस्ति । किन्तु तेन समयः न प्राप्तः । यतः सः सेवायां निरतः आसीत्। तं रोगिणम् अहं पूर्वमेव मार्गे दृष्टवान् । अतः ‘राजमार्गेण गन्तव्यम्’ इति अहं युवकद्वयं सूचितवान् । प्रथमः रोगिणं दृष्ट्वा अपि अग्रे गतवान्। सः यन्त्रवत् कार्यं करोति । तस्मिन सेवायाः भावना नास्ति। सेवाभावनां विना चिकित्सक: कथं भवेत्? अतः अहं द्वितीयस्य चयनं कृतवान्” इति।
हिन्दी अनुवाद
इसके बाद नागार्जुन ने दूसरे युवक को सहायक के पद पर स्वीकार किया। यह समाचार सुनकर राजा आश्चर्य चकित हुआ। आश्चर्य प्रकट किया। उसने नागार्जुन से पूछा- पहला युवक औषधि बनाकर लाया। द्वितीय युवक ने नहीं किया। फिर भी आपने किसलिए दूसरे युवक को चुना?
नागार्जुन ने कहा- दूसरा युवक भी औषधि बनाने में कुशल है । किन्तु उसे समय नहीं प्राप्त हुआ। जो उसकी (बीमार व्यक्ति) सेवा मग्न था। उस रोगी को मैने रास्ते में देखा था । इसलिए राज मार्ग पर जाने के लिए दोनों युवकों को सूचित किया था। पहला रोगी देखकर भी आगे गया। वह यन्त्र ( मशीन ) की भांति कार्य करता है। उसमें सेवा भावना नहीं है। सेवा भावना के बिना चिकित्सक (वैद्य) कैसे होता ? इसलिए मैंने दूसरे युवक का चयन किया।
अत्र इदम् अवधेयम्
- ” रसायनम्” इति शब्दः आयुर्वेदशास्त्रे ” औषधम् ” इत्यस्मिन् विषये प्रयुज्यते ।
” रसायनम्” यह शब्द आयुर्वेदशास्त्र में ” औषधम् ” इस विषय में प्रयोग हुआ है। - क्तवतु-प्रत्ययस्य प्रयोगः – भूतकालार्थे क्तवतु- प्रत्ययस्य अपि प्रयोगः भवति ।
” क्तवतु” प्रत्यय का प्रयोग भूतकालिक अर्थ में भी होता है।
पठ् + क्तवतु (पुंलिङ्गे) पठितवान् (एकवचनम् )
पठितवन्तः (बहुवचनम् )
(स्त्रीलिङ्गे) पठितवती (एकवचनम् ) पठितवत्यः (एकवचनम् )
उदाहरणानि – सः पठितवान् । — सा पठितवती ।
छात्रः पठितवान् । — राधिका पठितवती ।
छात्राः पठितवन्तः । — बालिका पठितवत्यः ।
त्वं पठितवान् । — त्वं पठितवती ।
अहं पठितवान्। — अहं पठितवती ।