Students can read Class 7 Sanskrit Notes and Class 7 Sanskrit Chapter 12 Hindi Translation वीराङ्गना पन्नाधाया for easy chapter-wise revision.
Sanskrit Class 7 Chapter 12 Hindi Translation वीराङ्गना पन्नाधाया Summary
कक्षा 7 संस्कृत पाठ 12 हिंदी अनुवाद
Sanskrit Class 7 Chapter 12 Hindi Anuvad
एषा भारतभूमिः वीराणां त्यागधनानां भूमिः अस्ति। सर्वे भारतीयाः ‘एषा भूमिः अस्माकं माता’ इति वदन्ति । अथर्ववेदे ” माता भूमिः पुत्रोऽहं पृथिव्याः” इति उक्तम् । मातृभूमेः रक्षणार्थं भारतीयाः सर्वस्वम् अर्पितवन्तः । एतादृशानां भारतीयानां गणनायां महिलानां प्रभूतं योगदानम् अस्ति। त्यागे वीरतायां च महिलाः शत्रुनिबर्हणाः आसन्। एतादृशीषु वीराङ्गनासु राजस्थानस्य पन्नाधाया काचिद् विशिष्टा वीराङ्गना आसीत् । एषा साहसस्य त्यागस्य निष्ठायाः च अद्वितीया मूर्तिः आसीत् । अस्मिन् पाठे तस्याः त्यागस्य पराक्रमस्य च वर्णनं कृतम् । एषा इतिहासस्य स्वर्णिमाक्षरै: लिखिता घटना अस्ति ।
हिन्दी अनुवाद
यह भारत भूमि वीरों बलिदानियों की भूमि है। सभी भारतीय इस भूमि को ‘हमारी माता’ ऐसा बोलते है। अथर्ववेद में ‘भूमि माता है मैं पृथ्वी का पुत्र हूँ।” ऐसा कहा गया है मातृभूमि की रक्षा के लिए भारतीय सब कुछ न्यौछावर कर देते है। ऐसे ही भारतीयों की गिनती में महिलाओं का महत्त्वपूर्ण योगदान रहा है। उन्होंने भी त्याग और पुरुषों की तरह से शत्रुओं का सामना किया है ऐसी ही वीर महिलाओं में राजस्थान की पन्नाधाय एक विशिष्ट वीरांगना थी । यह साहस और त्याग की प्रतीक थी । इस पाठ में उनके त्याग और पराक्रम का वर्णन किया है। यह इतिहास के स्वर्ण अक्षरों में लिखी हुई घटना है।
षोडशे शतके मेवाडनगरे महाराणा – सङ्ग्रामसिंह: इति सुविख्यातः महाराजः आसीत् । तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्। महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः । बनवीरः पृथ्वीराजस्य अष्टादशसु पुत्रेषु अन्यतमः ।
सः बनवीरः महाराणासङ्ग्रामसिंहस्य प्रथमं पुत्रं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासनम् अकरोत् । ततः परमपि सः दुष्टबुद्धिः अचिन्तयत् यत् – ” अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात् ” इति ।
अतः कदाचित् रात्रौ सः उदयसिंह मारयितुं कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती । सा तस्य दुष्परिणाम् जानाति स्म। बनवीरः उदयसिंहस्य शयनागारम् आगच्छत् । तत्र सुप्तः चन्दनः एव उदयसिंहः इति मत्वा बनवीरः चन्दनम् अमारयत् ।
हिन्दी अनुवाद
सोलहवीं शताब्दी में मेवाडनगर में महाराणा संग्रामसिंह प्रसिद्ध महाराजा था। उसके दो पुत्र विक्रमादित्य और उदयसिंह थे। महाराजा संग्रामसिंह का भाई पृथ्वीराज बनवीर पृथ्वीराज के अठारह पुत्रों में से एक था।
वह बनवीर महाराणां संग्रामसिंह के प्रथम पुत्र विक्रमादित्य को धोखे से मारकर मेवाड का शासन किया। तब उस दुष्टबुद्धि ने सोचा- मैं ही एकमात्र उत्तराधिकारी बनूं। कोई भी मेरा प्रतियोगी न हो ।
इसलिए एक रात को उसने उदयसिंह को मारने के लिए योजना रची। यह जानकर पन्नाधाय ने उदयसिंह के सोने के स्थान पर अपने पुत्र चन्दन को सुला दिया । वह उसका बुरा परिणाम जानती थी। बनवीर उदयसिंह के सोने के कक्ष में गया। वहाँ चन्दन को ही उदयसिंह मानकर बनवीर ने चन्दन को मारा।
पन्नाधायायाः निर्णयः अकल्पनीयः आसीत् । ‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति सा जानाति स्म । तस्याः पुत्रस्तु दिवङ्गतः परं सा मेवाडराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्।
कालान्तरे सः एव उदयसिंह: युद्धे बनवीरं हत्वा मेवाडराज्यस्य राजा अभवत् । तस्य पुत्रः एव पराक्रमी योद्धा महाराणाप्रतापः । सः प्रतापः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत् । कथ्यते एव – ” यदि पन्नाधाया स्वपुत्रस्य बलिदानं न अकरिष्यत् तर्हि उदयसिंहः न अभविष्यत् । यदि उदयसिंहः न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत् ” ।
पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्क तिष्ठति । भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्। पन्नाधायायाः बलिदानं सर्वान् शौर्य, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, बलिदानं, विवेकं च शिक्षयति । उच्यते एव-
“यदि पन्नाधाया नाभविष्यत् तर्हि कुतो राणाप्रतापः “
हिन्दी अनुवाद
पन्नाधाय का निर्णय अत्यन्तं विचित्र था । व्यक्ति हित को छोडंकर, राष्ट्र हित ही सर्वश्रेष्ठ है – यह वह जानती थी। उसका पुत्र दिवंगत अर्थात् मर चुका परन्तु उन्होंने मेवाड राज्य को बनवीर की बुरी योजना से रक्षा की।
कुछ समय बाद वही उदयसिंह ने युद्ध में बनवीर की हत्या कर मेवाड का राजा बना। उसका पुत्र ही पराक्रमी योद्धा महाराणा प्रताप था। वह प्रताप अपने शौर्य से भारतीयों के हृदय में सदा के लिए स्थान प्राप्त कर चुका है। कहा जाता है – यदि पन्नाधाय अपने पुत्र का बलिदान नहीं किया होता तो उदयसिंह न होता । यदि उदयसिंह न होता तो महाराणा प्रताप भी न होता ।
पन्नाधाय का त्याग और शौर्य जगत में सूर्य और चन्द्र की तरह है। भारतीयों के इतिहास में वीरों की गिनती में पन्नाधाय को महान स्थान प्राप्त है। पन्नाधाय का बलिदान सभी को शौर्य, राष्ट्रभक्ति, कर्त्तव्यनिष्ठा, बलिदान, और विवेक की शिक्षा देता है इसलिए कहते हैं-
“यदि पन्नाधाय न होती, तो कहाँ से आते महाराणा प्रताप’
उच्चैः पठन्तु, अवगच्छन्तु च।
ऊँचा पढिए और समझिए
लङ्-लकारः ( भूतकाले एतत्स्य लकारस्य प्रयोगः भवित )
लङ्-लकारः (भूतकाल में इस काल का प्रयोग होता है )

वयं वाक्येषु लङ्लकारस्य प्रयोगं पठामः ।
हम वाक्यों में भूतकाल का प्रयोग पढ़ते है ।
