We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 15 वृक्षाः सत्पुरुषाः इव Textbook Questions and Answers come in handy for quickly completing your homework.
वृक्षाः सत्पुरुषाः इव Sanskrit Class 6 Chapter 15 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव
वयं अभ्यासं कुर्मः (हम अभ्यास करते हैं)
प्रश्न 1.
पाठे लिखितानि सुभाषितानि संस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।
(पाठ में लिखे सुभाषितों सस्वर पढ़िए, लिखिए और याद कीजिए ।)
उत्तराणि :
(छात्र स्वयं करें )
प्रश्न 2.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर एक शब्द में लिखिए -)
(क) वृक्षाः स्वयं कुत्र तिष्ठन्ति ?
(ख) परोपकाराय काः वहन्ति?
(ग) दशवापीसमः कः भवति ?
(घ) सत्पुरुषाः इव के सन्ति?
(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तराणि :
(क) आतपे
(ख) नद्य:
(ग) हृदः
(घ) वृक्षाः
(ङ) वृक्षेभ्यः (महीरुहेभ्यः)
(च) फलानि
प्रश्न 3.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर पूर्ण वाक्यों में लिखिए |)
(क) नद्यः किं न पिबन्ति ?
(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति?
(ग) इदं शरीरं किमर्थम् अस्ति ?
(घ) दशपुत्रसमः कः भवति ?
(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तराणि :
(क) नद्यः स्वयमेव अम्भः न पिबन्ति ।
(ख) वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं,
वल्कलं, दारुं च यच्छन्ति ।
(ग) इदं शरीरं परोपकाराय अस्ति ।
(घ) दश पुत्रसम: द्रुमः भवति ।
(ङ) सतां विभूतयः परोपकाराय भवन्ति ।
(च) अन्यस्य छायां वृक्षां कुर्वन्ति ।
प्रश्न 4.
पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु ।
(पट्टिका से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए |)
यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
(क) फलान्यपि परार्थाय ________ सत्पुरुषा इव।
(ख) दशह्रदसमः पुत्रः ________ समो द्रुमः ।
(ग) ________ येषां वै विमुखा यान्ति नार्थिनः ।
(घ) ________ इदं शरीरम् ।
(ङ) स्वयं न खादन्ति फलानि ________ वृक्षाः ।
(च) परोपकाराय सतां ________।
उत्तराणि :
यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
(क) फलान्यपि परार्थराय वृक्षाः सत्पुरुषा इव ।
(ख) दशह्रदसमः पुत्र दश पुत्र समो द्रुमः ।
(ग) सुजनस्येव मेषां वै विमुखाः यान्ति नार्थिनः ।
(घ) परोपकाराय इदं शरीरम् ।
(ङ) स्वयं न खादन्ति फलानि वृक्षाः ।
(च) परोपकारायं सतां विभूतयः ।
प्रश्न 5.
उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु।
(उदाहरण के अनुसार नीचे लिखे वाक्यों में मोटे शब्दों की विभक्ति निर्देश कीजिए |)
यथा- वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । – द्वितीया विभक्तिः ।
(क) वृक्षाः परार्थाय फलानि यच्छन्ति । ________
(ख) वृक्षाः सत्पुरुषाः इव सन्ति । ________
(ग) द्रुमः दशसन्तानसमः भवति । ________
(घ) वृक्षः प्राणिभ्यः काष्ठानि यच्छति । ________
(ङ) नद्यः जलं स्वयमेव न पिबन्ति ।
(च) सज्जनानां सङ्गतिं करोतु ।
उत्तराणि :
यथा – वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । – द्वितीया विभक्तिः ।
(क) वृक्षाः परार्थाय फलानि यच्छन्ति । – द्वितीया विभक्तिः ।
(ख) वृक्षाः सत्पुरुषाः इव सन्ति । – प्रथमा विभक्तिः ।
(ग) द्रुमः दशसन्तानसमः भवति । – प्रथमा विभक्तिः ।
(घ) वृक्षः प्राणिभ्यः काष्ठानि यच्छति । – चतुर्थी विभक्तिः ।
(ङ) नद्यः जलं स्वयमेव न पिबन्ति । – प्रथमा विभक्तिः ।
(च) सज्जनानां सङ्गतिं करोतु । – द्वितीया विभक्तिः ।
प्रश्न 6.
अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु ।
(नीचे लिखे शब्दों के द्विवचन में और बहुवचन में रूप लिखिए -)
यथा- वृक्षः – ________ – ________
(क) मेघः – ________ – ________
(ख) ह्रदः – ________ – ________
(ग) सत्पुरुषः – ________ – ________
(घ) छाया – ________ – ________
(ङ) वापी – ________ – ________
(च) नदी – ________ – ________
(छ) शरीरम् – ________ – ________
(ज) पुष्पम् – ________ – ________
उत्तराणि :
यथा- वृक्षः – वृक्षौ – वृक्षाः
(क) मेघः – मेघौ – मेघाः
(ख) ह्रदः – दौ – ह्रदाः
(ग) सत्पुरुषः – सत्पुरुषौ – सत्पुरुषाः
(घ) छाया – छाये – छाया:
(ङ) वापी – वाप्यौ – वाप्यः
(च) नदी – नद्यौ – नद्यः
(छ) शरीरम् – शरीरे – शरीराणि
(ज) पुष्पम् – पुष्पे – पुष्पाणि
प्रश्न 7.
अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा ‘कः किं ददाति’ इति लिखन्तु ।
(नीचे लिखे शब्दों का परस्पर समुचित मेल करके “कौन क्या देता है” लिखिए। )
(क) वृक्षः – दुग्धम् = वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: – प्रकाश = ________
(ग) सूर्य: – विद्यां = ________
(घ) नदी – शुद्धं वायुं = ________
(ङ) अग्निः – जलं = ________
(च) शिक्षकः – तापं = ________
उत्तराणि :
(क) वृक्ष: – दुग्धम् = वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: – प्रकाश = गौः दुग्धम् ददाति ।
(ग) सूर्य: – विद्यां = सूर्यः प्रकाशं ददाति ।
(घ) नदी – शुद्धं वायुं = नदी जलं ददाति ।
(ङ) अग्निः – जलं = अग्निः तापं ददाति ।
(च) शिक्षक: – तापं = शिक्षक: विद्यां ददाति ।
प्रश्न 8.
अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु ।
(नीचे लिखे क्रिया पदों में लट् लकार प्रथम पुरुष के रूप लिखिए -)
यथा – कुर्वन्ति – करोति – कुरुतः – कुर्वन्ति
(क) तिष्ठन्ति – ________ ________ ________ ________
(ख) फलन्ति – ________ ________ ________ ________
(ग) यान्ति – ________ ________ ________ ________
(घ) पिबन्ति – ________ ________ ________ ________
(ङ) खादन्ति – ________ ________ ________ ________
उत्तराणि :
यथा- कुर्वन्ति – करोति कुरुतः – कुर्वन्ति
(क) तिष्ठन्ति – तिष्ठति – तिष्ठतः – तिष्ठन्ति
(ख) फलन्ति – फलति – फलतः – फलन्ति
(ग) यान्ति – याति – यातः – यान्ति
(घ) पिबन्ति – पिबति – पिबतः – पिबन्ति
(ङ) खादन्ति – खादति – खादतः – खादन्ति
योग्यताविस्तरः
प्रश्न 1.
अधोलिखितां प्रहेलिकां पठित्वा उत्तरं वदन्तु ।
(नीचे लिखी प्रहेलिका को पढ़कर उत्तर बोलिए ।)
वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः ॥
उत्तराणि :
नारिकेलम् (नारियल)
परियोजनाकार्यम्
प्रश्न 1.
विद्यालयं गृहं वा परितः विद्यमानानां पञ्च पादपानां (वृक्षाणां) संरक्षणं कुर्वन्तु ।
विद्यालय या घर के चारों ओर विद्यमान पांच वृक्षों का संरक्षण कीजिए ।
उत्तराणि :
छात्र स्वयं करें
प्रश्न 2.
अन्तर्जालस्य साहाय्येन परोपकारविषये दश- सुभाषितानां संग्रहणं कुर्वन्तु ।
अन्तरजाल की सहायता से परोपकार विषय पर दस सुभाषितों का संग्रहण कीजिए ।
उत्तराणि :
परोपकारः
1. पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ।।
2. परोपकाराय फलन्ति वृक्षाः
परोपकाराय बहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः
परोपकाराय इदं शरीरम् ||
3. परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
जीवन्तु पशवः येषां चर्माप्युपकरिष्यति ।।
4. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति सः जीवति।।
5. परोपकरणं येषां जागर्ति हृदये सताम्।
नश्यन्ति विपदः तेषां सम्पदः स्युः पदे पदे ।।
6. परेषां उपकारः एव परोपकारः कथ्यते ।
7. स्वार्थम् विहाय अन्येषां हितं क्रियते तदेव परोपकारः ।
8. फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव।
9. अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ।।
10. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ।।
वृक्षाः सत्पुरुषाः इव Class 6 Summary Notes Sanskrit Chapter 15
आज के समाज में गंभीर समस्या पर्यावरण संरक्षण की है क्योंकि मनुष्य ने स्वार्थ सिद्ध करने के लिए ईश्वर की सुन्दर सृष्टि का विनाश कर रहा है।
उसी कारण प्राकृतिक आपदाएं हमारे समक्ष अपना भयंकर रूप दिखा रही हैं। इस समस्या का समाधान वृक्षारोपण ही है। हमें अपने घर के परिसर में, विद्यालय में या रास्ते के दोनों ओर वृक्ष लगाकर हम अपनी प्रकृति का कुछ संरक्षण कर सकते हैं क्योंकि “वृक्ष है जल है” हमारे जीवन का आधार है। वृक्ष सत्पुरुषों के समान स्वयं कष्ट सहकर दूसरों के हितों की रक्षा करते रहते हैं। वृक्षों का जीवन महर्षि दधीचि के समान है जो अपना सब कुछ जगतवासियों के लिए न्यौछावर कर देते हैं। प्रस्तुत पाठ इस बात को सत्य सिद्ध करता है।
वृक्ष सज्जन की तरह होते है। स्वयं धूप में खड़े रहते हैं तथा दूसरों को छाया, फल, फूल, गन्ध, लकड़ियां, आक्सीजन अन्य महत्त्वपूर्ण तत्त्व हमें देते हैं।
पर्यावरण संरक्षण के विषये में एक प्रदर्शनी विद्यालय में आयोजित है छात्र उस प्रदर्शनी को देखते हैं और शिक्षक के साथ बातचीत करते हैं।
छात्रः – श्रीमान! मैंने जीव शास्त्र की पुस्तक में पढ़ा है कि वृक्ष (पेड़) शुद्ध वायु देते हैं।
छात्रः – श्रीमान ! मेरी माता भी बोलती है कि वृक्षों की पूजा होती है।
शिक्षकः – प्रिय छात्रों सत्य है वृक्ष हमें शुद्ध वायु फल और फूल सभी देते हैं। इसलिए उनकी पूजा होती है।
शिक्षक: – ठीक है तो इनके विषय सुभाषित सुनाओ है।
छात्राः – हां श्रीमान्
छात्राः – मैंने एक सुभाषित को पढ़ा है कि ” वृक्ष सज्जन” है। इस प्रकार से । ( मुदिता सुभाषित सुनाती है और अन्य छात्र भी गाते हैं)
शब्दार्थ
अहं = मैं, वृक्षा: = पेड़ों, यच्छन्ति = देते हैं, मम = मेरी, अपि = भी, पूज्या: = पूजा, भवन्ति = होते है।, सर्वम् = सब, सत्पुरुषा = सज्जन, सन्ति = हैं, अस्तु = ठीक है, श्रावयतु = सुनाओ, अन्य = दूसरे, संलापं = बातचीत।
1. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
पदच्छेदः – छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव ।
अन्वयः – (वृक्षाः) स्वयम् आतपे तिष्ठन्ति ( किन्तु ) अन्यस्य छायां कुर्वन्ति, फलानि अपि परार्थाय ( यच्छन्ति ) ( अत:) वृक्षाः सत्पुरुषाः इव (सन्ति)।
भावार्थ: – वृक्षाः स्वयं सूर्यस्त आतपे तिष्ठन्ति किन्तु अन्येषां प्राणिनां कृते छायां कुर्वन्ति, फलानि अपि स्वयं न खादन्ति अपि तु अन्येभ्यः एव यच्छन्ति । अतः ते सत्पुरुषाः इव सन्ति । यतः ये सज्जनाः भवन्ति, ते स्वयं कष्टानि सहित्वा अपि अन्येषां हितं कुर्वन्ति ।
सरलार्थ
वृक्ष छाया दूसरों के लिए करते हैं स्वयं धूप में रहते हैं फल भी दूसरों के लिए ही होते हैं। स्वयं कभी नहीं खाते हैं वृक्ष सज्जनों की तरह से परोपकार करते रहते हैं।
शब्दार्थ
अन्यस्य = दूसरों के लिए, कुर्वन्ति = करते हैं, तिष्ठन्ति = ठहरते हैं, फलन्यपि = फलानि + अपि = फल भी, आतपे = धूप में, परार्थाम् = दूसरों के लिए, सत्पुरुष, इव = सज्जनों के समान।
2. दशकूपसमा वापी दशवापीसमो हृदः ।
दशह्रदसमः पुत्रः दशपुत्रसमो द्रुमः ॥
पदच्छेदः – दशकूपसमा वापी दशवापीसमः हृदः दशह्रदसमः पुत्रः दशपुत्रसम: द्रुमः ।
अन्वयः – दशकूपसमा वापी (अस्ति ), दशवापीसमः हद: ( अस्ति ), दशहदसम: पुत्र: ( अस्ति), दशपुत्रसमः द्रुमः (अस्ति) ।
भावार्थः – दशकूपैः समाना एका वापी भवति । एवम् एव दशवापीसमानः एक हृदः भवति । दशह्रदैः समानः एकः पुत्री / पुत्रः भवति । तथैव दशसन्तानैः समानः एकः वृक्षः मूल्यवान् भवति। अर्थात् एकः वृक्षः सर्वाधिक : उपकारकः भवति । अतः सर्वे वृक्षारोपणं कुर्वन्तु ।
सरलार्थ
एक जलकुण्ड (तालाब) दस कुओं के समान है, एक तालाब दस जलकुण्डों के समान है। एक पुत्र दस तालाबों के समान है तथा दस पुत्रों के समान एक वृक्ष है।
शब्दार्थ
दशकूप = दस कुएं, वापी = जलकुण्ड, सम = समान, हृदय = तालाब, दुमः = वृक्ष।
3. अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।
सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥
पदच्छेदः – अहो! एषां वरं जन्म सर्वप्राणि उपजीवनं सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ।
अन्वयः – अहो! एषां सर्वप्राण्युपजीवनं जन्म वरम् (अस्ति ) । सुजनस्य इव येषाम् अर्थिनः विमुखाः न यान्ति।
भावार्थ: – श्रीकृष्णः युधिष्ठिरं वदति – हे युधिष्ठिर ! अहो ! एतेषां वृक्षाणां जन्म श्रेष्ठम् अस्ति यतः एतेषां जनम सर्वेषां जीवानाम् उपकाराय भवति । यथा सज्जनेभ्यः जनानां निराशा न भवति तथैव वृक्षाणां समीपे आगत्य अर्थिनां जनानां निराशा न भवति । तेषाम् आशानुरूपं वृक्षाः तेभ्यः फलानि पुष्पाणि छायां च यच्छन्ति ।
सरलार्थ
वृक्षों का जन्म सर्वश्रेष्ठ होता है जो सभी प्राणियों का निवास स्थान बन जाता है ये वृक्ष सज्जन के समान होते हैं जिनसे प्रार्थना करने वाले याचक कभी निराश होकर नहीं जाते हैं।
शब्दार्थ
एषाम् = इन वृक्षों का, वरम् = श्रेष्ठ, सर्वप्राणयुपजीवनम् = सब प्राणियों की शरण स्थली, सुजनस्येव = सज्जन के समान, जन्म = पैदा होना, अर्थिन: = याचक (प्रार्थना करने वाला), विमुखा: = निराश होकर, न यान्ति = नहीं जाते।
4. परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकाराय इदं शरीरम् ॥
पदच्छेदः – परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः परोपकाराय इदं शरीरम् ।
अन्वयः – वृक्षाः परोपकाराय फलन्ति, नद्यः परोपकाराय वहन्ति, गावः परोपकाराय दुहन्ति, परोपकाराय (एव) इदं शरीरम् (अस्ति) ।
भावार्थ: – वृक्षस्य फलानि अन्ये खादन्ति, न तु वृक्षः स्वयं खादति । नदीनां जलस्य उपयोगम् अपि अन्ये एव प्राणिनः कुर्वन्ति। गावः अपि अन्येषां कृते एव दुग्धं यच्छन्ति । एवमेव अस्माकं जीवनम् अपि अन्येषाम् उपकाराय भवतु ।
सरलार्थ
वृक्ष परोपकार के लिए ही फल देते हैं नदियां परोपकार के लिए ही बहती हैं गाय परोपकार के लिए ही दूध देती है यह शरीर परोपकार के लिए ही है।
शब्दार्थ
परोपकाराय = परोपकार के लिए अर्थात् दूसरे की भलाई के लिए, नद्य: = नदियां, गाव: = गाय, फलन्ति = फल देते हैं, वहन्ति = बहती है, दुहन्ति = दूध देती है।
5. पुष्प-पत्र – फलच्छाया – मूल – वल्कल – दारुभिः ।
धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः ॥
पदच्छेदः – पुष्प-पत्र -फल-छाया – मूल – वल्कल – दारुभिः धन्याः महीरुहाः येषां विमुखाः यान्ति न अर्थिनः ।
अन्वयः – येषां पुष्प-पत्र – फल- छाया – मूल – वल्कल – दारुभिः अर्थिनः विमुखाः न यान्ति (ते) महीरुहाः धन्याः (सन्ति ।
भावार्थ: – प्राणिनः वृक्षात् पुष्पाणि, पत्राणि, फलानि, छायां, मूलानि, वल्कलानि काष्ठानि च प्राप्नुवन्ति । अर्थात् वृक्षाणां पार्श्वे यत् किमपि अस्ति तत् सर्वम् अपि प्राणिनां कृते एव अस्ति । वृक्षाः कदापि याचकान् निराशान् न कुर्वन्ति । अतः वृक्षाः धन्याः सन्ति ।
सरलार्थ
वृक्ष हमेशा अपने याचक को फूल, पत्ते, छाया, जड़, तना, छाल तथा लकड़ियां देकर उसे निराश नहीं करते अर्थात् सब कुछ दे देते हैं। वे वृक्ष धन्य हैं।
शब्दार्थ
पुष्पं = फूल, पत्रं = पत्ते, मूल = जड़, वल्कल: = पेड़ की छाल, दारुभि: = लकड़ियों से, अर्थिन: = याचक (मांगने वाला), महीरुहा: = पेड़, विमुखा: = निराश, न यान्ति = नहीं जाते।
6. पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
पदच्छेदः – पिबन्ति नद्यः स्वयम् एव न अम्भः स्वयं न खादन्ति फलानि वृक्षाः । न अदन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ।
अन्वयः – नद्यः अम्भः स्वयम् एव न पिबन्ति । वृक्षाः अपि फलानि स्वयं न खादन्ति । वारिवाहा : (अपि) सस्यं न अदन्ति खलु। (यतः) सतां विभूतयः परोपकाराय ( भवन्ति ) ।
भावार्थ: – नद्यः स्वीयं जलं स्वयं न पिबन्ति । अपितु अन्येषाम् उपयोगाय यच्छन्ति । एवम् एव वृक्षाः अपि फलानि स्वयं न खादन्ति । मेघाः अपि जलं वर्षन्ति, किन्तु वृष्ट्या उत्पन्नं सस्यं स्वयं न खादन्ति । अनेन प्रकारेण सज्जनानां सम्पदः अपि परोपकाराय भवन्ति ।
सरलार्थ
नदियां अपना स्वयं नहीं पीती, वृक्ष अपने फल स्वयं नहीं खाता, बादल भी अपना जल स्वयं नहीं पीता वर्षा जल से उत्पन्न हुआ अन्न स्वयं नहीं खाता। क्योंकि सज्जनों की सम्पत्ति परोपकार के लिए ही होती है।
शब्दार्थ
नद्य: = नदियां, स्वयमेव = अपने आप ही, अम्भ: = जल, अदन्ति = खाते हैं, सस्यम् = अनाज, वारिवाहा: = बादल, सताम् = सज्जनों की, विभूतयः = सम्पत्ति।